संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९७

पातालखण्डः - अध्यायः ९७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ब्राह्मण उवाच-
एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान्
न याति नरकं स्वर्गं तथा पापक्रिया रतः ॥१॥
क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिः
सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते ॥२॥
विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः
प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित् ॥३॥
वित्तेन च विना दानं बहुदातुं न शक्यते
विद्यमान धनेनापि कुटुंबासक्तचेतसा ॥४॥
अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे
दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ॥५॥
अल्पायासेन धर्मेण लभ्यते धर्मसंचयः
तन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक ॥६॥
तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम्
कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ॥७॥
धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्तते
मर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ॥८॥
साक्षान्नारायणो येन भक्तानामभयप्रदः
तुष्येदस्यप्रसादेन कामः करतले स्थितः ॥९॥
सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम्
लभ्यते येन यद्यस्ति वैवस्वत तदादिश ॥१०॥
अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतः
सर्वधर्मक्रियासारं तदेकं कृपया वद ॥११॥
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा
तथा तथैव संस्मृत्य कथितानि मनीषिभिः ॥१२॥
कर्तुं तानि न शक्यंते देव प्रत्येकशो नरैः
सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद ॥१३॥
सूत उवाच-
इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम्
तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः ॥१४॥
ब्राह्मण उवाच-
नमस्ते सर्वशमन नमस्ते जगतांपते
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने ॥१५॥
धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुते
त्वया भूः पाल्यते देवाप्यंतरिक्षं च द्यौर्महः ॥१६॥
जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वया
न त्वया रहितं किंचिज्जगत्स्थावर जंगमम् ॥१७॥
विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत्
त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान् ॥१८॥
राजसानां रजस्त्वं च तामसानां तमस्तथा
चतुष्पदां भवान्देव चतुःशृंगस्त्रिलोचनः ॥१९॥
सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते
सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः ॥२०॥
साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः
हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् ॥२१॥
तेन शास्ता च भूतानां दाता देव प्रशासिता
प्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि ॥२२॥
सर्वधर्ममयं सारमेकं वद सुनिश्चितम्
यम उवाच-
परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः ॥२३॥
तथाप्यागम धर्मेण मान्योसि मम सत्तम
यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम ॥२४॥
सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया
महानिरयसंघातान्निर्वासनकरं परम् ॥२५॥
अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः ॥२६॥
स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौ
सिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-
व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते ॥२७॥
भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता
दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः ॥२८॥
समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान्
आराधिते हरौ कामाः सर्वे करतले स्थिताः ॥२९॥
दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज
दानेन नश्यते पापं सर्वं दानेन लभ्यते ॥३०॥
नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम्
अन्यं च परमं दानमिति पंचविधं स्मृतम् ॥३१॥
प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः
यत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम् ॥३२॥
शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम्
यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति ॥३३॥
यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः
उत्पादयाम्यहं रोगं तस्य भोगनिवारणम् ॥३४॥
तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम्
मंदानलेन संयुक्तं द्वारं संतापकारकम् ॥३५॥
त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः
स्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम् ॥३६॥
प्रायश्चित्तेन रौद्रेण तानहं परिशोधये
उपवासैर्महीदेव कायशोषकरादिकैः ॥३७॥
चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणे
शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा ॥३८॥
तथाहं पापकर्तारं शोधयामि न संशयः
औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम् ॥३९॥
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा
अन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान् ॥४०॥
किं करोमि समर्थश्च न दत्तं दानमुत्तमम्
महता रोगरूपेण तमेनं परिवारयेत् ॥४१॥
नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा
न दत्तं च महीदेव श्रद्धया निजशक्तितः ॥४२॥
तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल
नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः ॥४३॥
महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव च
पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः ॥४४॥
मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम्
काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम् ॥४५॥
व्रतादिकं समुद्दिश्य कामनाफलकल्पितम्
यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम् ॥४६॥
तस्य दानप्रभावेण भावनापरिभावितः
तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात् ॥४७॥
आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम्
जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु ॥४८॥
प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः
इत्यादिकं महीदेव दानमभ्युदयात्मकम् ॥४९॥
प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम्
अंत्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम ॥५०॥
कामस्य संक्षयं ज्ञात्वा जरया परिपीडितः
दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित् ॥५१॥
मृते च मयि मे पुत्रा जायाबांधवसोदराः
कथमेते भविष्यंति मां विना सुहृदो मम ॥५२॥
अहं वित्तविहीनो वा कथं जीवन्पुनस्तथा
भविष्यामीति विज्ञाय न ददाति हि किंचन ॥५३॥
आशापाशशतैर्बद्धो भाग्यादेव कुमायया
मृत्युं प्रयाति मूढात्मा रुदंति च ततः सुताः ॥५४॥
दुःखेन पीडिताः किचिंन्मोहेनाकुलचेतसः
स्वल्पमल्पं च वा दानं कथंचित्कल्पयंति ते ॥५५॥
न तत्रास्मिन्गते काले महादुःखगते सति
विस्मरंति तदा दानं लोभाद्वा न ददत्यपि ॥५६॥
मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्तते
योऽसौ मृतो महीदेव मम पाशैर्नियंत्रितः ॥५७॥
तृष्णा क्षुधा समाक्रांतो बहुदुःखैः प्रपीडितः
पच्यते नरके घोरे चिरकालं न संशयः ॥५८॥
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः
कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा ॥५९॥
संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते
पानमन्नं च तांबूलमुदकं कांचनं तथा ॥६०॥
वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा
फलानि भूमिदानानि विविधानि स्वशक्तितः ॥६१॥
दातव्यानि महीदेव नात्र कार्या विचारणा
तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः ॥६२॥
सुतीर्थानि इयं गंगा भाति पुण्या सरस्वती
रेवा च यमुना तापी नदी चर्मण्वती तथा ॥६३॥
सरयू च वरा वेणी पूर्णा पापप्रणाशिनी
कावेरी कपिला चान्या विशल्या विश्वतारिणी ॥६४॥
गोदावरी समाख्याता तुंगभद्रा च गंडकी
पापानां भीतिदा नित्यं नदी भीमरथी स्मृता ॥६५॥
देविका कृष्णगंगा च अन्या याः सरितांवराः
एतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः ॥६६॥
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः
तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः ॥६७॥
यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज
तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत् ॥६८
तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः
नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः ॥६९॥
तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायते
अज्ञातानां च तीर्थानां देवतानां न संशयः ॥७०॥
विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत्
सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः ॥७१॥
सरांसि मानसादीनि निर्झराः पल्वलादयः
स्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः ॥७२॥
पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा
ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः ॥७३॥
तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम्
श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः ॥७४॥
यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाः
स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् ॥७५॥
यत्राश्वत्थ तरु वने यत्रागारोपि पावनः
एवमादीनि तीर्थानि पिता माता तथैव च ॥७६॥
पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितः
साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः ॥७७॥
यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्तते
तत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम् ॥७८॥
इत्येवमादि तीर्थानि राजवेश्म तथैव च
एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः ॥७९॥
अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम्
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥८०॥
अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥८१॥
नारायणः परो देवः सत्यरूपो जनार्दनः
त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः ॥८२॥
रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः
ससर्जनाभिकमलेब्रह्माणंकमलासनम् ॥८३॥
रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः
सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ॥८४॥
सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम्
रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ॥८५॥
यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते
तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम् ॥८६॥
तेन राजा भवेल्लोके रजसा तमसा पुनः
यद्धीनं रजसा धर्मं केवलं तामसं च यत् ॥८७॥
तच्च दुर्गतिदं नॄणामिहलोके परत्र च
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः ॥८८॥
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः
यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः ॥८९॥
स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात्
विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज ॥९०॥
तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु
कीर्त्यते हयमेधादि महाक्रतुफलप्रदः ॥९१॥
तीर्थस्नान तपो दान जप यज्ञफलाधिकः ॥९२॥
स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये
कुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति ॥९३॥
हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम्
स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात् ॥९४
इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम्
निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ॥९५॥
भागीरथीनर्मदा च यमुना च सरस्वती
विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः ॥९६॥
गोदावरी भीमरथी तुंगभद्रा च देविका
तापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः ॥९७॥
द्वादशैता महानद्यो नित्यं तेनावगाहिताः
वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ॥९८॥
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः
सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः ॥९९॥
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः
स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत् ॥१००॥
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते
यदि वक्त्रसहस्राणां सहस्राणि भवंति हि ॥१०१॥
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम
तदा माधवमासस्य फलं कथयितुं भवेत् ॥१०२॥
महानिरयकर्षाग्नि माधवो माधवो यथा
ब्रह्महत्यादिकं पापमगम्यागमनादिकम् ॥१०३॥
कामाकामकृतं पापमेति पातकमेव च
उपपापरहस्यं च संकरीकरणं परम् ॥१०४॥
जातिभ्रंशकरं घोरमपात्रीकरणं तथा
मलावहं प्रकीर्णं च वाङ्मनः काय संभवम् ॥१०५॥
माधवो निर्दहेन्मासो विधिना समुपासितः
कल्पकोटिसहस्राणि कल्पकोटि शतानि च ॥१०६॥
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् ॥१०७॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये
सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP