संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ६०

पातालखण्डः - अध्यायः ६०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन्
उवाच तान्सुकुपितो रोषसंदंशिताधरः ॥१॥
केन वीरेण वो बाहुकृंतनं समकारि भोः
तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः ॥२॥
न जानाति महामूढो रामचंद्र बलं महत्
इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम् ॥३॥
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ॥४॥
इति ते कथिता वीरा विस्मिता दुःखिता भृशम्
रामचंद्र प्रतिनिधिं बालकं समशंसत ॥५॥
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम्
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ॥६॥
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया
रिपुः संप्रति गंतव्यो महाबलपराक्रमः ॥७॥
नायं बालो हरिर्नूनं भविष्यति हयंधरः
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ॥८॥
अवश्यं कदनं भाविसैन्यस्य बलिनो महत्
स्वच्छंदचरितैः खेलन्नास्ते निर्भयधीः शिशुः ॥९॥
तत्र गंतव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः ॥१०॥
सज्जीचकार सेनां तां दुर्व्यूढां चतुरंगिणीम्
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरंगयुतां वराम् ॥११॥
आज्ञापयत्ततो गंतुं यत्र बालो हयंधरः
सा चचाल तदा सेना चतुरंगसमन्विता ॥१२॥
कंपयंती महीभागं त्रासयंती रिपून्बलात्
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् ॥१३॥
विचार्य रामप्रतिममब्रवीद्वचनं हितम्
बाल मुंच हयश्रेष्ठं रामस्य बलशालिनः ॥१४॥
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते ॥१५॥
अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि ॥१६॥
जहास किंचिदाकोपादुवाच च वचोद्भुतम्
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् ॥१७॥
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि ॥१८॥
मातृपादप्रसादेन तूलीभूता न संशयः
कालजित्तव यन्नाम मात्राकारि मनोज्ञया ॥१९॥
पक्वबिंबफलस्येव वर्णतो न च वीर्यतः
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः ॥२०॥
मां कालं तव संजित्य सत्यनामा भविष्यसि
शेष उवाच
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः ॥२१॥
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा ॥२२॥
पादचारं रथस्थोऽहमधर्मेण कथं जये
तदात्यंतं प्रकुपितो जगाद वचनं पुनः ॥२३॥
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् ॥२४॥
इदानीं त्वामपि भटं करिष्ये पादचारिणम्
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली ॥२५॥
टंकारयामास तदा वीरानाकंपयन्हृदि
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः ॥२६॥
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः ॥२७॥
ताडयामास जवनो लवं रणविशारदः
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः ॥२८॥
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः
विरथो गजमानीतमारुरोह भटैर्निजैः ॥२९॥
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम्
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ॥३०॥
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ॥३१॥
गदां मुमोच महतीं महायस विनिर्मिताम्
आपतंतीं गदां वेगाद्भारायुतविनिर्मिताम् ॥३२॥
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः
परिघं निशितं घोरं वैरिप्राणहरोदितम् ॥३३॥
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ॥३४॥
गजोपस्थे समारूढं मन्यमानश्चुकोप ह
तत्क्षणादच्छिनत्तस्य शुंडां खड्गेन दंतिनः ॥३५॥
दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ॥३६॥
केशेष्वाकृष्य सेनान्यं पातयामास भूतले
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ॥३७॥
हृदये ताडयामास मुष्टिना वज्रमुष्टिना
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ॥३८॥
मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान्
स रराज रणोपांते कुंडलीकृत चापवान् ॥३९॥
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः
स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे ॥४०॥
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः
खड्गहस्तं समायांतं शूरं सेनापतिं लवः ॥४१॥
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत्
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ॥४२॥
वामेन गदया हंतुं प्रचक्राम भुजेन तम्
सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः ॥४३॥
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम्
लवः पादाहतस्तस्य न चचाल रणांगणे ॥४४॥
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात्
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ॥४५॥
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम्
करवालं समादाय करे कालानलोपमम् ॥४६॥
अच्छिनच्छिर एतस्य महामुकुटशोभितम्
हाहाकारो महानासीच्चमूनाथे निपातिते ॥४७॥
सैनिकाः परिसंक्रुद्धा लवं हंतुं समागताः
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ॥४८॥
छिन्नाभिन्नांगकाः केचिद्गता केचिद्रणांगणात्
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ॥४९॥
वाराह इव निःश्वस्य प्रलये सुमहार्णवम्
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ॥५०॥
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ॥५१॥
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः
रथिनः करमध्यस्थ धनुर्दंडसुशोभिनः ॥५२॥
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः
संदष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ॥५३॥
पतितास्तत्र दृश्यंते वीरा रणविशारदाः
सुस्राव शोणितसरिद्धयमस्तककच्छपा ॥५४॥
महाप्रवाहललिता वैरिणां भयकारिका
केषांचिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ॥५५॥
केषां कर्णाश्च नासाश्च केषां कवचकुंडले
एवं तु कदनं जातं सेनान्यां पतिते रणे ॥५६॥
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः
लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च ॥५७॥
अन्यागमनशंकायां मनः कुर्वन्नवैक्षत
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ॥५८॥
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम्
गत्वा ते कथयामासुर्यथावृत्तं रणांगणे ॥५९॥
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम्
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ॥६०॥
हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन्
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ॥६१॥
किं वा वैकल्यमायातं कालजिन्मरणं कथम्
यः संख्ये वैरिवृंदानां दारुणः समितिंजयः ॥६२॥
तं कथं बालको जीयाद्यमस्यापि दुरासदम्
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ॥६३॥
नास्माकं मदमत्तादि न च्छलो न च देवनम्
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ॥६४॥
बलं च कृत्स्नं मथितं बालेनातुलशौंडिना
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ॥६५॥
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ॥६६॥
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ॥६७॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे
सैन्यपराजय कालजित्सेनानीमरणंनाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP