संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५९

पातालखण्डः - अध्यायः ५९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा
जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ ॥१॥
सा चलंती पथि तदा शुष्यद्वदनलक्षिता
कंटकक्षतसत्पादा स्खलंती च पदे पदे ॥२॥
लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि
प्रवेशयामास तदा राघवाज्ञाविधायकः ॥३॥
यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः
श्लेष्मातकाश्चिंचिणीकाः शुष्का दावेन वह्निना ॥४॥
कोटरस्था महासर्पाः फूत्कुर्वंति सुकोपिताः
घूका घूत्कुर्वते यत्र लोकचित्तभयंकराः ॥५॥
व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयंकराः
दृश्यंते यत्र सरला मनुष्यादाः सुकोपनाः ॥६॥
महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः
कुर्वंति प्राणिनां तापं मानसस्य मदोद्धुराः ॥७॥
ईदृग्वनं प्रपश्यंती भयेनोपगतज्वरा
कंटकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ॥८॥
जानक्युवाच
वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान्
नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः ॥९॥
पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान्
दावानलेन तत्सर्वं दह्यमानमिदं वनम् ॥१०॥
त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम्
शकुनेतरसाहस्रं भवेन्मम पदे पदे ॥११॥
तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना
रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् ॥१२॥
इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः
संरुद्धबाष्पवदनो न किंचित्प्रोक्तवांस्तदा ॥१३॥
तदेव विपिनं घोरं गच्छंती लक्ष्मणान्विता
पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम् ॥१४॥
तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः
तदा सात्यंतनिर्बंधं चकार परिपृच्छती ॥१५॥
आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा
रुद्धकंठो मुहुः शोचन्नवदत्त्यागसंभवम् ॥१६॥
तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम
सुलताकृत्तमूलेव बभूवाकल्पवर्जिता ॥१७॥
तदैव पृथिवी तां न जग्राह तनयामिमाम्
रामो विपापिनीं सीतां न जह्यादिति शंकिनी ॥१८॥
पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः
पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः ॥१९॥
संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर
कथं मां पापरहितां त्यजते स रघूद्वहः ॥२०॥
एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम्
संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता ॥२१॥
मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता
जगाद रामचरणौ स्मंरती शोकविक्षता ॥२२॥
रघुनाथो महाबुद्धिस्त्यजते मां कथं महान्
यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः ॥२३॥
स कथं मां महावीरो निष्पापां रजकोक्तितः
त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् ॥२४॥
एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा
मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः ॥२५॥
पुनः संज्ञामवाप्यैवं सौमित्रिं निजगाद सा
दुःखातुरं वीक्षमाणा रुद्धकंठं सुदुःखिता ॥२६॥
सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम्
मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः ॥२७॥
मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम्
कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम् ॥२८॥
नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम्
भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम् ॥२९॥
कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम
अहं तावद्वने त्वां हि स्मरंती प्राणधारिका ॥३०॥
मनसा कर्मणा वाचा भवानेव ममोत्तमः
अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ॥३१॥
भवेभवे भवानेव पतिर्भूयान्महीश्वर
त्वत्पदस्मरणानेक हतपापा सतीश्वरी ॥३२॥
श्वश्रूजनं ब्रूहि सर्वं मत्संदेशं रघूत्तम
त्यक्ता वने महाघोरे रामेण निरघा सती ॥३३॥
स्मरामि चरणौ युष्मद्वने मृगगणैर्युते
अंतर्वत्नी वने त्यक्ता रामेण सुमहात्मना ॥३४॥
सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे
इदानीं संत्यजे प्राणान्रामवीर्यं सुरक्षती ॥३५॥
त्वं रामवचनं तथ्यं यत्करोषि शुभं तव
परतंत्त्रेण तत्कार्यं रामपादाब्जसेविना ॥३६॥
गच्छ त्वं राम सविधे शिवाः पंथान एव ते
ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा ॥३७॥
इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा
लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम् ॥३८॥
वीजयामास वासोग्रैः संज्ञां प्राप्तां प्रकृत्य च
सौमित्रिः सांत्वयामास वचनैर्मधुरैर्मुहुः ॥३९॥
लक्ष्मण उवाच
एष गच्छामि रामं वै गत्वा शंसामि सर्वशः
समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ॥४०॥
इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः
मुंचन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम् ॥४१॥
जानकी देवरं यांतं वीक्ष्य विस्मितलोचना
हसत्ययं महाभागो लक्ष्मणो देवरो मम ॥४२॥
कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत्
इति संचिंतयंती सा तमैक्षदनिमेषणा ॥४३॥
जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम्
पतिता प्राणसंदेहं प्राप्ता मूर्च्छां गता तदा ॥४४॥
तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः
सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगंधिमान् ॥४५॥
करिणः पुष्करैः स्वीयैर्जलपूर्णैः समंततः
व्याप्तं शरीरं रजसा क्षालयंत इवागताः ॥४६॥
मृगास्तदंतिकं प्राप्य संतस्थुर्विस्मितेक्षणाः
नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ॥४७॥
एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती
विललाप सुदुःखार्ता रामरामेति जल्पती ॥४८॥
हा नाथ दीनबंधो हे करुणामयसंनिधे
अपराधादृते मां त्वं कथं त्यजसि वै वने ॥४९॥
इत्येवमादिभाषंती विलपंती मुहुर्मुहुः
इतस्ततः प्रपश्यंती संमूर्च्छंती पुनःपुनः ॥५०॥
तदा स्वशिष्यैर्भगवान्वाल्मीकिः संगतो वनम्
शुश्राव रुदितं तत्र करुणास्वरभाषितम् ॥५१॥
शिष्यान्प्रति जगादाथ पश्यंतु वनमध्यतः
को रोदिति महाघोरे विपिने दुःखितस्वरः ॥५२॥
ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी
रामरामेति भाषंती बाष्पपूरपरिप्लुता ॥५३॥
तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम्
श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः ॥५४॥
दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता
नमोस्तु मुनये वेदमूर्तये व्रतवार्धये ॥५५॥
इत्युक्तवंतीं तां सीतामाशीर्भिरभ्यनंदयत्
भर्त्रा सह चिरंजीव पुत्रौ प्राप्नुहि शोभनौ ॥५६॥
कासि त्वं किं वने घोरे संगतासि किमीदृशी
सर्वं मे शंस जानीयां तव दुःखस्य कारणम् ॥५७॥
सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम्
निःश्वसंती करुणया गिरासंजातवेपथुः ॥५८॥
शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम्
जानीहि मां भूमिपते रघुनाथस्य सेवकीम् ॥५९॥
अपराधं विना त्यक्ता न जाने तत्र कारणम्
लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया ॥६०॥
इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपंकजम्
वाल्मीकिः सांत्वयन्प्राह जानकीं कमलेक्षणाम् ॥६१॥
वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम्
दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम् ॥६२॥
भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते
ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः ॥६३॥
एवं वचः समाकर्ण्य जानकी पतिदेवता
दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा ॥६४॥
शेष उवाच
वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम्
निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम् ॥६५॥
सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः
रराजेंदोः पृष्ठतो वै तारकेव मनोहरा ॥६६॥
वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम्
तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम् ॥६७॥
वैदेही तापसीः सर्वा नमश्चक्रे महामनाः
परस्परं प्रहृषिताः परिरंभं समाचरन् ॥६८॥
वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः
रच्यतां बत जानक्याः पर्णशाला मनोरमा ॥६९॥
इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम्
व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम् ॥७०॥
तत्रावसद्धि वैदेही पतिव्रतपरायणा
वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका ॥७१॥
जपंती रामरामेति मनसा वचसा स्वयम्
निनाय दिवसांस्तत्र जानकी पतिदेवता ॥७२॥
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ
रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी ॥७३॥
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम्
चकार जातकर्मादि संस्कारान्मंत्रवित्तमः ॥७४॥
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत्
तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा ॥७५॥
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत्
अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा ॥७६॥
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः
आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने ॥७७॥
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम्
मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ॥७८॥
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ
कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ ॥७९॥
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ
कालेन संस्कृतौ जातावुपनीतौ मनोहरौ ॥८०॥
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ
सरहस्यं धनुर्वेदं रामायणमपाठयत् ॥८१॥
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते
अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे ॥८२॥
इषुधी बाणसंपूर्णौ अक्षये करवालके
चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ॥८३॥
धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा
चरंतौ तत्र रेजाते अश्विनाविव शोभनौ ॥८४॥
जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ
परमं हर्षमापन्ना विरहोद्भवमत्यजत् ॥८५॥
एष ते कथितो विप्र जानक्याः पुत्रसंभवः
अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम् ॥८६॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
कुशलवोत्पत्तिकथानकंनामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP