संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः १७ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः १७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १७ Translation - भाषांतर शेष उवाचशत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम्प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम् ॥१॥अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमेयः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् ॥२॥क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ॥३॥इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमेक्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान् ॥४॥हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनःपयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ॥५॥योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदाहस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ॥६॥शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतःपृष्ठतोऽनुजगामाशु रथेन हयशोभिना ॥७॥गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेःरत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ॥८॥स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम् ॥९॥तदा गजानां सप्तत्या चंद्रवर्णसमानयाअश्वानामयुतैः सार्धं रथानां कांचनत्विषाम् ॥१०॥सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ॥११॥वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य चकिं करोमीति राजा तं जगाद पुरतः स्थितः ॥१२॥राजापि तं स्वीयपदे प्रणम्रंदोर्भ्यां दृढं संपरिषस्वजे महान्जगाम साकं तनये स्वराज्यंनिक्षिप्य सर्वं बहुधन्विभिर्वृतः ॥१३॥रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् ॥१४॥राजानं पूजयित्वा तु शत्रुघ्नः परया मुदासेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा ॥१५॥एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श हस्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः ॥१६॥जलनिर्झरसंह्रादं नानाधातुकभूतलम्गैरिकादिकसद्धातु लाक्षारंगविराजितम् ॥१७॥यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाःगंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया ॥१८॥गंगातरंगसंस्पर्श शीतवायुनिषेवितम्वीणारणद्धंसशुकक्वणसुंदरशोभितम् ॥१९॥पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः ॥२०॥कोऽयं महागिरिवरो विस्मापयति मे मनःमहारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः ॥२१॥अत्र किं देवतावासो देवानां क्रीडनस्थलम्यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥२२॥इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदावक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः ॥२३॥नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिपमनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः ॥२४॥एनं पश्यंति नो पापाः परदाररता नराःविष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः ॥२५॥श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः ॥२६॥नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाःयो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥२७॥कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिनेविक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः ॥२८॥पत्नीं दूषयते यस्तु कुलशीलवतीं नरःस्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः ॥२९॥भोजने ब्राह्मणार्थे च पाकभेदं करोति यःकृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ॥३०॥अतिथीनवमन्यंते सूर्यतापादितापितान्अंतरिक्षभुजो ये च ये च विश्वासघातकाः ॥३१॥न पश्यंति महाराज रघुनाथ पराङ्मुखाःअसौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ॥३२॥पवित्रयति सर्वान्नो दर्शनेन मनोहरःअत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः ॥३३॥पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमःश्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम् ॥३४॥यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम्वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः ॥३५॥सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमःआरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना ॥३६॥नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजःअत्राप्युदाहरंतीममितिहासं पुरातनम् ॥३७॥तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः ॥३८॥चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्आसीत्कांची महाराज पुरी लोकेषु विश्रुता ॥३९॥महाजनपरीवारसमृद्धबलवाहनायस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम् ॥४०॥सर्वभूतहिते युक्ता रामभक्तिषु लालसाःक्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः ॥४१॥परदार परद्रव्य परद्रोहपराङ्मुखाःवैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ॥४२॥कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदाशूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ॥४३॥कुर्वंति कथनं रामरामेति रसनाग्रतःप्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै ॥४४॥दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशःवदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ॥४५॥न पारक्ये धने लोभं कुर्वंति न हि पातकम्एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥४६॥षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितःएवं पालयमानस्य प्रजाधर्मेण भूपतेः ॥४७॥गतानि बहुवर्षाणि सर्वभोगविलासिनःविशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ॥४८॥पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः ॥४९॥परीवारो महान्मह्यं वर्तते विगतज्वरःहस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥५०॥रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशःमहाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न ॥५१॥एवं मनोरथस्त्वेकस्तिष्ठते मानसे ममपरं तीर्थं मया नाद्य कृतं परमशोभने ॥५२॥गर्भवासविरामाय क्षमं गोविंदशोभितम्वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ॥५३॥करिष्यामि मनोहारि तीर्थसेवनमादृतःयो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः ॥५४॥न करोति हरेः पूजां स नरो गोवृषः स्मृतःतस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ॥५५॥सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम्इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे ॥५६॥अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः ॥५७॥सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान्तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ॥५८॥जटावल्कलकौपीनधारिणं दंडपाणिनम्अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ॥५९॥राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजःअर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ॥६०॥सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम्स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ॥६१॥महांतः कृपणान्पातुं यांति तद्गेहमादरात्तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति ॥६२॥को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ॥६३॥सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाःयथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥६४॥कथयस्व प्रसादेन सर्वतीर्थविचक्षणब्राह्मण उवाचशृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ॥६५॥कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः ॥६६॥पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकःनाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः ॥६७॥अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्अवंती विमला कांची रेवा सागरगामिनी ॥६८॥गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ॥६९॥यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत्पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ॥७०॥मया द्वारवती दृष्टा सुरासुर निषेवितागोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ॥७१॥यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिःयस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ॥७२॥चक्रांका यत्र पाषाणा मानवा अपि चक्रिणःपशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ॥७३॥त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकःसा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ॥७४॥कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्स्यमंतपंचकं यत्र महापातकनाशनम् ॥७५॥वाराणसी मया दृष्टा विश्वनाथकृतालयायत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम् ॥७६॥यस्यां मृताः कीटपतंगभृंगाःपश्वादयो वा सुरयोनयो वास्वकर्मसंभोगसुखं विहायगच्छंति कैलासमतीतदुःखाः ॥७७॥मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनीकरोति संसृतेर्बंधच्छेदं पापकृतामपि ॥७८॥कपर्दिनः कुंडलिनः सर्पभूषाधरावराःगजचर्मपरीधाना वसंति गतदुःखकाः ॥७९॥कालभैरवनामात्र करोति यमशासनम्न करोति नृणां वार्तां यमो दंडधरः प्रभुः ॥८०॥एतादृशी मया दृष्टा काशी विश्वेश्वरांकिताअनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥८१॥परमेकं महच्चित्रं यद्दृष्टं नीलपर्वतेपुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ॥८२॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमोनामसप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP