पातालखण्डः - अध्यायः २२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सुमतिरुवाच
अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः
रात्रौ सुष्वाप गंगाया रोधस्युरुफलप्रदे ॥१॥
ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम्
शंखचक्रगदापद्मशार्ङ्गकोदंडधारिणम् ॥२॥
नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह
श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः
विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं
दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम् ॥३॥
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम्
आत्मानं च कृपापात्रममन्यत महामतिः ॥४॥
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः
प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम् ॥५॥
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः
राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः ॥६॥
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः
इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः ॥७॥
दापयामास दानानि दीनानां मानसोचितम्
स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान् ॥८॥
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम्
ततो मध्याह्नसमये दिविदुंदुभयो मुहुः ॥९॥
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः
अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके ॥१०॥
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम् ॥११॥
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम्
तदा स सूर्यकोटीनामधिकांति धरोद्भुतः ॥१२॥
राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः
राजतैः कानकैः शृंगैः समंतात्परिराजितः ॥१३॥
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः
किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक् ॥१४॥
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम्
राज्ञे निवेदयामास एष पुण्यो महागिरिः ॥१५॥
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह
धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः ॥१६॥
अमात्यो राजपत्नी च करम्बस्तंतुवायकः
नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ ॥१७॥
पंचैते विजये काले नीलपर्वतमारुहन्
महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान् ॥१८॥
तस्योपरितने शृंगे चित्रपादपराजिते
ददर्श हाटकाबद्धं देवालयमनुत्तमम् ॥१९॥
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः
नैवेद्यं कुरुते यत्र हरिसंतोषकारकम् ॥२०॥
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम्
प्रविवेश परीवारैः पंचभिः सह संवृतः ॥२१॥
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते
सिंहासने विराजंतं चतुर्भुजमनोहरम् ॥२२॥
चंड प्रचंड विजय जयादिभिरुपासितम्
प्रणनाम सपत्नीको राजा सेवकसंयुतः ॥२३॥
प्रणम्य परमात्मानं महाराजः सुरोत्तमम्
स्नापयामास विधिवद्वेदोक्तैः स्नानमंत्रकैः ॥२४॥
अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः
चंदनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च ॥२५॥
धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम्
नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः ॥२६॥
प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च
यथामतिगुणग्रामगुंफितस्तोत्रसंचयैः ॥२७॥
राजोवाच
एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः
कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः ॥२८॥
त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः
तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसंभवः ॥२९॥
त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम्
त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च ॥३०॥
चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो
तव जन्म तु नास्त्येव नांतस्तव जगत्पते
वृद्धिक्षयपरीणामास्त्वयि संत्येव नो विभो ॥३१॥
तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे
करोषि जन्मकर्माणि ह्यनुरूपगुणानि च ॥३२॥
त्वया मात्स्यं वपुर्धृत्वा शंखस्तु निहतोसुरः
वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज ॥३३॥
शेषो न वेत्ति महि ते भारत्यपि महेश्वरी
किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः ॥३४॥
मनसा त्वां न चाप्नोति वागियं परमेश्वरी
तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो ॥३५॥
इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः
गद्गदस्वरसंयुक्तो रोमहर्षांकितांगकः ॥३६॥
इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः
उवाच वचनं सत्यं राजानं प्रति सार्थकम् ॥३७॥
श्रीभगवानुवाच
तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते
जानीहि त्वं महाराज मां च प्रकृतितः परम् ॥३८॥
नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम्
चतुर्भुजत्वमाप्तः सन्गंतासि परमं पदम् ॥३९॥
त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः
तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम् ॥४०॥
इत्येवं वचनं राजा श्रुत्वा भगवतोदितम्
नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः ॥४१॥
ततो विमानं संप्राप्तं किंकिणीजालमंडितम्
अप्सरोवृंदसंसेव्यं सर्वभोगसमन्वितम् ॥४२॥
पुरुषोत्तमसंज्ञं च पश्यन्राजा स धार्मिकः
ववंदे चरणौ तस्य कृपापात्रकृतात्मकः ॥४३॥
तदाज्ञया विमाने स आरुह्य महिलायुतः
जगाम पश्यतस्तस्य दिवि वैकुंठमद्भुतम् ॥४४॥
मंत्री धर्मपरो राज्ञः सर्वधर्मविदुत्तमः
ययौ साकं विमानेन ललनावृन्दसेवितः ॥४५॥
तापसब्राह्मणस्तत्र सर्वतीर्थावगाहकः
चतुर्भुजत्वं संप्राप्तो ययौ देवैर्विमानिभिः ॥४६॥
करंबोऽपि महाराज गानपुण्येन दर्शनम्
प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्ल्लभम् ॥४७॥
सर्वे प्रचलिता विष्णुलोकं परममद्भुतम्
चतुर्भुजाः शंखचक्रगदापाथोजधारिणः ॥४८॥
सर्वे मेघश्रियः शुद्धा लसदंभोजपाणयः
हारकेयूरकटकैर्भूषितांगा ययुर्दिवम् ॥४९॥
तद्विमानावलीर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा
दुंदुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः ॥५०॥
तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्जवल्लभः
गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः ॥५१॥
तच्चित्रं वीक्ष्य लोकास्ते प्रशंसंतो महोदयम्
गंगासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति ॥५२॥
अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः
जगामानेन देहेन तद्विष्णोः परमं पदम् ॥५३॥
राजन्नसौ नीलगिरिः पुरुषोत्तमसत्कृतः
यं वीक्ष्यैव व्रजंत्यद्धा वैकुंठं परमायनम् ॥५४॥
एतन्नीलस्य माहात्म्यं यः शृणोति स भाग्यवान्
यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम् ॥५५॥
एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः
प्रांते संसारनिस्तारं ददाति पुरुषोत्तमः ॥५६॥
योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः
सीतासाक्षान्महालक्ष्मीः सर्वकारणकारणम् ॥५७॥
हयमेधं चरित्वा स लोकान्वै पावयिष्यति
यन्नामब्रह्महत्यायाः प्रायश्चित्ते प्रदिश्यते ॥५८॥
इदानीं त्वद्धयः प्राप्तो नीलेपर्वतसत्तमे
पुरुषोत्तमदेवं त्वं नमस्कुरु महामते ॥५९॥
तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम्
यस्य प्रसादाद्बहवो निस्तीर्णा भवसागरात् ॥६०॥
एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम्
वायुवेगेन पृथिवीं कुर्वन्संक्षुण्णमंडलाम् ॥६१॥
तदा राजापि तत्पृष्ठचारी नीलाभिधं गिरिम्
प्राप्तो गंगाब्धिसंयोगे स्नात्वागात्पुरुषोत्तमम् ॥६२॥
स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम्
जातं कृतार्थमात्मानममन्यत स शत्रुहा ॥६३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
नीलगिरिमहिमवर्णनंनाम द्वाविंशोऽध्यायः ॥२२॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP