संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५१

पातालखण्डः - अध्यायः ५१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
तच्छ्रुत्वा भाषितं तस्य सुरथस्यांगदाननात्
सज्जीभूता रणे सर्वे रथस्था रणकोविदाः ॥१॥
पटहानां निनादोऽभूद्भेरीनादस्तथैव च
वीराणां गर्जनानादाः प्रादुर्भूता रणांगणे ॥२॥
रथचीत्कारशब्देन गजानां बृंहितेन च
व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः ॥३॥
रणोत्साहेन संयुक्ता वीरा रणविशारदाः
कुर्वंति विविधान्नादान्कातरस्य भयंकरान् ॥४॥
एवं कोलाहले वृत्ते सुरथो नाम भूमिपः
स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे ॥५॥
गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम्
कुर्वन्समुद्रइव तां प्लावयन्ददृशे भटैः ॥६॥
शंखनादेन संघुष्टं जयनादैस्तथैव च
वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः ॥७॥
शत्रुघ्न उवाच
एष राजा समायातो महासैन्यपरीवृतः
अत्र यत्कृत्यमस्माकं तद्वदस्व महामते ॥८॥
सुमतिरुवाच
योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः
पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः ॥९॥
राज्ञा सह समीरस्य पुत्रः परमशौर्यवान्
युद्धं करोतु सुबलः परयुद्धविशारदः ॥१०॥
शेष उवाच
इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः
रणांगणे धनूंष्यद्धा स्फारयामासुरुद्धताः ॥११॥
तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः
अभिजग्मुः स्यंदनैः स्वैर्धनुर्बाणकरा मताः ॥१२॥
चंपकेन महावीरः पुष्कलः परमास्त्रवित्
द्वैरथेनैव युयुधे महावीरेण शालिना ॥१३॥
मोहकं योधयामास जानकिः स कुशध्वजः
रिपुंजयेन विमलो दुर्वारेण सुबाहुकः ॥१४॥
प्रतापिना प्रतापाग्र्यो बलमोदेन चांगदः
हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् ॥१५॥
राजा वीरमणिर्भूरि देवेन युयुधे बली
असुतापेन चोग्राश्वो युयुधे बलसंयुतः ॥१६॥
द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः
सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः ॥१७॥
एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा
अत्यंतं कदनं तत्र बभूव मुनिसत्तम ॥१८॥
पुष्कलश्चंपकं प्राह किं नामासि नृपात्मज
धन्योसि यो मया सार्धं रणमध्यमुपेयिवान् ॥१९॥
इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत्
एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद ॥२०॥
इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली
जगाद पुष्कलं वीरो मेघगंभीरया गिरा ॥२१॥
चंपक उवाच
न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति
तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम् ॥२२॥
मम माता राघवेशो मत्पिता राघवः स्मृतः
मम बंधू रामचंद्र स्वःजनो मम राघवः ॥२३॥
मन्नाम रामदासश्च सदा रामस्य सेवकः
तारयिष्यति मां युद्धे रामो भक्तकृपाकरः ॥२४॥
लोकानां मतमास्थाय प्रब्रवीमि तवाधुना
सुरथस्य सुतश्चाहं माता वीरवतीमम ॥२५॥
मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै
मधुपायंरसावा संत्यजंति मधुमोहिताः ॥२६॥
वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः
तदाख्ययाभिधां वीर जानीहि मम मोहिनीम् ॥२७॥
युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः
इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम् ॥२८॥
शेष उवाच
इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः
तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत् ॥२९॥
शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ
चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत् ॥३०॥
मुमोच निशितान्बाणान्वैरिवृंदविदारणान्
स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान् ॥३१॥
तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे
शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान् ॥३२॥
स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः
आह्वयामास बलिनं पुष्कलं कोपपूरितः ॥३३॥
मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः
पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ॥३४॥
ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः
आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम् ॥३५॥
तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे
सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव ॥३६॥
ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः
आकाशे रचिताश्छिन्नाः शतधा राजसूनुना ॥३७॥
छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली
बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि ॥३८॥
ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना
अपतन्समरोपांते शरवेगप्रपीडिताः ॥३९॥
तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली
सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम् ॥४०॥
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित्
पुनरप्याशु स्वे चापे समाधत्तायुतं शरान् ॥४१॥
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित्
ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत् ॥४२॥
शरवृष्टिं समायांतीं मत्वा चंपक वीरहा
साधुसाधुप्रशंसंतं पुष्कलं समताडयत् ॥४३॥
पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम्
ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित् ॥४४॥
तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश
खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम् ॥४५॥
चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः
तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम् ॥४६॥
द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः
संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम् ॥४७॥
तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च
ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत् ॥४८॥
चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः
रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम् ॥४९॥
तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना
छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः ॥५०॥
बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः
पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः ॥५१॥
हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके
शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः ॥५२॥
भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह
केन वीरेण मे भग्नं बलं वीरैरलंकृतम् ॥५३॥
तदोवाच महीनाथ पुष्कलं परवीरहा
बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः ॥५४॥
तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः
उवाच पवनोद्भूतं मोचयाशु नृपात्मजात् ॥५५॥
महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम्
तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे ॥५६॥
एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन्
जगाम तं मोचयितुं पुष्कलं चंपकाद्भटात् ॥५७॥
हनूमंतमथालोक्य तं मोचयितुमागतम्
बाणैः शतैश्च साहस्रैर्जघान परकोपनः ॥५८॥
बाणांस्तान्स बभंजाशु मुक्तांस्तेन महात्मना
पुनरप्येनमेवाशु बाणान्मुंचन्महानभूत् ॥५९॥
तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान्
शालं करे समाधृत्य जघान नृपनंदनम् ॥६०॥
शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली
गजो हनूमता मुक्तो नृपनंदन मस्तके ॥६१॥
सोऽप्याहतश्चंपकेन मृतो भूमौ पपातसः
शिलाः संमोचयामास हनूमान्परमास्त्रवित् ॥६२॥
चंपकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम्
बाणयंत्रिकया ब्रह्मन्महच्चित्रमभूदिदम् ॥६३॥
स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः
चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन् ॥६४॥
आगत्य च करे धृत्वा नभस्युत्पतितः कपिः
तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् ॥६५॥
चंपकस्तं हनूमंतं युयुधे नभसि स्थितः
बाहुयुद्धेन महता ताडितः कपिपुंगवः ॥६६॥
चुकोप मानसे वीरो गर्वपर्वतदारुणः
पदा धृत्वा चंपकं तं ताडयामास भूतले ॥६७॥
ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान्
हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः ॥६८॥
कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः
भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत् ॥६९॥
पपात भूमौ सुबलो राजसूनुः स चंपकः
मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम् ॥७०॥
तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः
पुष्कलं मोचयामास बद्धं चंपकपाशतः ॥७१॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलमोचनं नामैकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP