पातालखण्डः - अध्यायः १०१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
यम उवाच-
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः ॥१॥
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः
क्रन्दमानो महारावान्स स्मरन्निजपातकम् ॥२॥
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान्
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ॥३॥
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ॥४॥
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा
अदूरादेव निरयवर्त्मना स समाहितः ॥५॥
स गच्छन्नपि शुश्राव जीवानां क्रंदतां पुनः
निरये पच्यमानानामारावं विविधं तदा ॥६॥
पापिनां क्वथ्यमानानामाक्रंदमतिदारुणम्
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ॥७॥
प्रोवाच दूताः किमयमाक्रंदो दारुणः श्रुतः
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ॥८॥
दूता ऊचु-
जंतवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ॥९॥
कृतपातकिनस्त्वत्र प्राणत्यागादनंतरम्
याम्यं पंथानमाश्रित्य दुःखमश्नंति दारुणम् ॥१०॥
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः
अंधकारे निपतिता भक्ष्यंते ह्यतिदारुणैः ॥११॥
श्वभिः शृगालैः क्रव्यादैः काककंकबकादिभिः
अग्नितुंडैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः ॥१२॥
अग्निना दाह्यमानाश्च तुद्यमानाश्च कंटकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥१३॥
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा
पूयशोणितगंधेन मूर्छ्यमानाः पदेपदे ॥१४॥
क्वाथ्यंते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित्
आयसीषु प्रपच्यंते शिलासु क्वचिदेव च ॥१५॥
क्वचिद्वांतमथाश्नंति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगंधिषु दारुणम् ॥१६॥
कृमिभिर्भक्ष्यमाणाश्च वह्नितुंडैः क्वचित्क्वचित्
केशशोणितमांसासृग्वसास्थिनिकरेषु च ॥१७॥
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम्
काककंकमहागृध्रवदनैर्ध्वंसितेषु च ॥१८॥
शिवदुर्गंधनीरंध्र संघट्टशतकोटिषु
करपत्रशिलापत्रतप्त निस्तैलकेषु च ॥१९॥
लोहतैलवसास्तंभ कूटशाल्मलसद्मसु
क्षुरकंटककीलोग्र ज्वालास्तंभविभातिषु ॥२०॥
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक्
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च ॥२१॥
घोरांधकारग्रहणदारुणेषु मुहुर्मुहुः
पापच्यमानाः क्रंदंतो दारुणैर्विविधैर्वधैः ॥२२॥
कंठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित्
पीड्यमानास्तथा यंत्रैः कृष्यमाणाश्च जानुभिः ॥२३॥
भग्नपृष्ठशिरोग्रीवाः स्तब्धकंठाः सुदारुणाः
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः ॥२४॥
पीड्यंते पापिनो राजन्क्रंदमाना विकर्मिणः
सहितं विषयास्वादैः क्रंदनं तैर्विधीयते ॥२५॥
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जंतुभिः
परस्त्रीषु कृतः संगः प्रीतये दुःखदो हि सः ॥२६॥
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः
वपुषस्तव राजेंद्र प्रातःस्नानस्य माधवे ॥२७॥
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव ॥२८॥
आक्रंदरहितास्तेन जातास्ते निरये स्थिताः
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् ॥२९॥
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ॥३०॥
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः
कोमलं हृदयं नूनं साधूनां नवनीतवत् ॥३१॥
वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम्
राजोवाच-
नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे ॥३२॥
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः
मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि ॥३३॥
जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम्
पवित्रयंति जननीमवनीमपि ते नराः ॥३४॥
परतापच्छिदो ये तु चंदना इव चंदनम्
परोपकृतये ये तु पीड्यंते कृतिनो हि ते ॥३५॥
संतस्त एव ये लोके परदुःखविदारणाः
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ॥३६॥
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ॥३७॥
तस्मात्परसुखेनैव सुखिनः साधवः सदा
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ॥३८॥
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम्
दूता ऊचु-
जंतवो निरये घोरे पच्यंते तेत्र पापिनः ॥३९॥
स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ॥४०॥
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम्
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ॥४१॥
परस्मिन्निह घोरेषु पच्यंते निरयेषु ते
दुःशीला ये दुराचारा विहाराहारनिंदिताः ॥४२॥
परापकारिणः पापकारिणो दुर्विहारिणः
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ॥४३॥
निरये ते विपच्यंते ये परस्त्रीविहारिणः
एहि नूनं महीपाल गच्छामो हरिमंदिरम् ॥४४॥
न ते पुण्यवता युक्तमिहस्था तु मतः परम्
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ॥४५॥
नारके पथि वा नीतः किं वा मे सुकृतं परम्
मयापि न कृतं तादृक्सुकृतं कामशालिना ॥४६॥
कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ॥४७॥
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम्
किंतु माधवमासे यद्विधिना वत्सरत्रयम् ॥४८॥
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया
भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः ॥४९॥
महापापातिपापौघ निहंता भक्तवत्सलः
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ॥५०॥
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः
महतामपि पापानां निहंता माधवोऽर्चितः ॥५१॥
तथैव माधवो मासो मर्त्यानां विधिनोदितः
यथैव विस्फुलिंगेन ज्वाल्यते तृणसंचयः ॥५२॥
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते
तावद्वपुषि पापानि प्रभवंति महान्त्यपि ॥५३॥
यावन्न माधवे मासि तीर्थे मज्जति चोषसि
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ॥५४॥
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत्
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ॥५५॥
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ॥५६॥
स्तूयमानो विमानेन गच्छ गोविंदमंदिरम् ॥५७॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये
एकोत्तरशततमोऽध्यायः ॥१०१॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP