पातालखण्डः - अध्यायः २९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
ते तु तातवचः श्रुत्वा हर्षिताः संप्रहारिणः
तथेत्यूचुर्महाराजं रामदर्शनलालसम् ॥१॥
पुत्रा ऊचुः
राजन्भवत्पदांभोजान्नान्यं जानीमहे वयम्
यत्तव स्वांततो जातं तद्भवत्वद्य वेगतः ॥२॥
अश्वोऽयं नीयतां तत्र सितचामरभूषितः
रत्नमालातिशोभाढ्यश्चंदनादिकचर्चितः ॥३॥
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः
वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च ॥४॥
चंदनं चंद्रकं चैव वाजिनः सुमनोहराः
हस्तिनस्तु मदोद्धूता रथाः कांचनकूबराः ॥५॥
विचित्रतरवर्णादि नानाभूषणभूषिताः
दास्यः शतसहस्रं च दासाश्च सुमनोरमाः ॥६॥
मणयः सूर्यसंकाशा रत्नानि विविधानि च
मुक्ताफलानि शुभ्राणि गजकुंभभवानि च ॥७॥
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम्
तत्सर्वं रामचंद्राय देहि राजन्महामते ॥८॥
सुतानस्मान्किंकरान्नः सर्वानर्पय भूपते
कथं न कुरुषेराजंस्तदधीनं नृपासनम् ॥९॥
शेष उवाच
इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः
उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान् ॥१०॥
राजोवाच
आनयंतु हयं सर्वे सन्नद्धाः शस्त्रपाणयः
नानारथपरीवारास्ततो यास्ये नृपं प्रति ॥११॥
शेष उवाच
इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा
सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः ॥१२॥
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम्
सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम् ॥१३॥
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम्
विचित्रमणिभूषाढ्यं मुक्ताजालस्वलंकृतम् ॥१४॥
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः
महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः ॥१५॥
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः
सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः ॥१६॥
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम्
राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः ॥१७॥
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम्
मनोजवं कामरूपं जहर्ष मतिमान्नृपः ॥१८॥
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतः
स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः ॥१९॥
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम्
एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम् ॥२०॥
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम्
चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः ॥२१॥
सुमतिं परिपृच्छंतं रामचंद्रकथानकम्
भयवार्ताविनिर्मुक्तं वीरशोभास्वलंकृतम् ॥२२॥
वीरैः कोटिभिराकीर्णं वाजिपालनकांक्षिभिः
वानराणां सहस्रैश्च समंतात्परिवारितम् ॥२३॥
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः
धन्योऽहमिति संहृष्टो वदन्रामैकमानसः ॥२४॥
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम्
उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे ॥२५॥
दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा
उवाच हर्षमापन्नो गद्गदस्वरया गिरा ॥२६॥
सुबाहुरुवाच
अद्य धन्योस्मि ससुतः सकुटुंबः सवाहनः
यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ ॥२७॥
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः
दमनेनानयं त्वस्य क्षमस्व करुणानिधे ॥२८॥
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम्
लीलया विश्वस्रष्टारं हंतारमपि पालकम् ॥२९॥
इदं राज्यं समृद्धांगं समृद्धबलवाहनम्
इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ॥३०॥
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः
गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् ॥३१॥
क्वासौ हनूमान्रामस्य चरणांभोजषट्पदः
यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम् ॥३२॥
साधूनां संगमे किं किं प्राप्यते न महीतले
यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ॥३३॥
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम्
प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च ॥३४॥
मम तावद्गतं चायुर्बहुरामवियोगिनः
स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ॥३५॥
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम्
यदंघ्रिरजसापूता शिलाभूता मुनिप्रिया ॥३६॥
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः
अनेके यस्य वक्त्राब्जं वीक्ष्य संख्ये पदं गताः ॥३७॥
ये त्वस्य रघुनाथस्य नाम गृह्णंति सादराः
ते यांति परमं स्थानं योगिभिर्यद्विचिंत्यते ॥३८॥
धन्यायोध्याभवा लोका ये राममुखपंजम्
स्वलोचनपुटैः पीत्वा सुखं यांति महोदयम् ॥३९॥
इति संभाष्य नृपतिं वाहं राज्यं धनानि च
सर्वं समर्प्य चावोचत्किंकरोस्मि महीपते ॥४०॥
इति वाक्यं समाकर्ण्य राज्ञः परपुरंजयः
प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः ॥४१॥
शत्रुघ्न उवाच
कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः
सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ॥४२॥
क्षत्त्रियाणामिदं कृत्यं यत्संग्रामविधायकम्
सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया ॥४३॥
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा
तथा त्वमपि मत्पूज्यो भविष्यसि महीपते ॥४४॥
भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति
सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः ॥४५॥
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः
पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः ॥४६॥
महारथैः परिवृतो निजं पुत्रं रणांगणे
पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम् ॥४७॥
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः
ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन् ॥४८॥
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः
आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ॥४९॥
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम्
गंतुं चकार धिषणां हयवर्यस्य पालने ॥५०॥
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः
वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून् ॥५१॥
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः
प्रणतिः क्रियते तस्य न कोपि तमगृह्णत ॥५२॥
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत्
केचिद्धनं जनं केचिदानीय प्रणमंति तम् ॥५३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य
सुबाहुना सह निर्याणंनाम एकोनत्रिंशत्तमोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP