पातालखण्डः - अध्यायः २५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
अथ वीक्ष्य भटान्निजान्नृपो रुधिरौघेण परिप्लुतांगकान्
सुखमाप न वै शुशोच तान्परिपप्रच्छ सुतस्य चेष्टितम् ॥१
गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम्
कथयंतु पुनः कियद्बलं बत वीराः कति योद्धुमागताः ॥२॥
अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात्
विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत् ॥३॥
इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः
क्षतजेन परिक्लिन्न गात्रवस्त्रादिधारिणः ॥४॥
राजन्नश्वं समालोक्य पत्रचिह्नाद्यलंकृतम्
ग्राहयामास गर्वेण तृणीकृत्य रघूत्तमम् ॥५॥
ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः
तेन साकमभूद्युद्धं तुमुलं रोमहर्षणम् ॥६॥
तं मूर्च्छितं ततः कृत्वा तव पुत्रः स्वसायकैः
यावत्तिष्ठत्यथायातः शत्रुघ्नः स्वबलैर्वृतः ॥७॥
ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम्
बहुशो जयमापेदे तव पुत्रो महाबलः ॥८॥
इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना
मूर्च्छितः प्रधने राजन्कृतो वीरः सुतस्तव ॥९॥
इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः
स्थगितांग इवासीत्स समुद्र इव पर्वणि ॥१०॥
उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः
दन्तैर्दताँल्लिहन्नोष्ठं जिह्वया शोककर्शितः ॥११॥
सेनापते कुरुष्वारान्मम सेनां तु सज्जिताम्
योत्स्ये रामस्य सुभटैर्ममपुत्रोपघातकैः ॥१२॥
अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः
पातयिष्ये यदि ह्येनं रक्षितापि महेश्वरः ॥१३॥
सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः
निशम्य च तथा कृत्वा सज्जीभूतो भवत्स्वयम् ॥१४॥
राज्ञे निवेदयामास ससज्जां चतुरंगिणीम्
सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम् ॥१५॥
श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा
निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः ॥१६॥
कुंजरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः
रथैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः ॥१७॥
भूश्चकंपे तदा तत्र सैन्यभारेण भूरिणा
संमर्दः सुमहानासीत्तत्र सैन्ये विसर्पति ॥१८॥
राजानं निर्गतं दृष्ट्वा रथेन कनकांगिना
शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकम् ॥१९॥
सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः
रथेनाश्वा जगामायं सर्वशस्त्रास्त्रपूरितः ॥२०॥
चित्रांगस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः
जगाम स्वरथेनाशु शत्रुघ्नबलमुन्मदम् ॥२१॥
तस्यानुजो विचित्राख्यो विचित्ररणकोविदः
ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः ॥२२॥
अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम् ॥२३॥
राजा सुबाहुः संरोषादागतः प्रधनांगणे
विलोकयामास सुतं मूर्च्छितं शरपीडितम् ॥२४॥
रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम्
वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः ॥२५॥
जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना
संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित् ॥२६॥
उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः
संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः ॥२७॥
इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम्
परमं हर्षमापेदे परिरभ्य सुतं स्वकम् ॥२८॥
दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः
पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः ॥२९॥
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः
जगाद सेनाधिपतिं रणकर्मविशारदः ॥३०॥
व्यूहं रचय संग्रामे क्रौंचाख्यं रिपुदुर्जयम्
यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः ॥३१॥
तद्वाक्यमाकर्ण्य सुबाहुभूपतेः
क्रौंचाख्यसद्व्यूहविशेषमादधात्
यन्नो विशंते सहसा रिपोर्गणा
महाबलाः शस्त्रसमूहधारिणः ॥३२॥
मुखे सुकेतुस्तस्यासीद्गले चित्रांगसंज्ञकः
पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः ॥३३॥
मध्ये सैन्यं महत्तस्य चतुरंगैस्तु शोभितम्
कृत्वा न्यवेदयद्राज्ञे क्रौंचव्यूहं विचित्रितम् ॥३४॥
राजा दृष्ट्वा सुसन्नद्धं क्रौंचव्यूहं सुनिर्मितम्
रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः ॥३५॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुबाहुसैन्यसमागमोनाम पंचविंशोऽध्यायः ॥२५॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP