पातालखण्डः - अध्यायः ३८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच
एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः
परमं हर्षमापेदे जगाद च फणीश्वरम् ॥१॥
वात्स्यायन उवाच
कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर
रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै ॥२॥
धन्य आरण्यको नाम मुनिर्वेदधरः परः
रघुनाथं समालोक्य देहं तत्याज नश्वरम् ॥३॥
ततो राज्ञो हयः कुत्र गतः केन नियंत्रितः
कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर ॥४॥
सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान्
धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक् ॥५॥
व्यास उवाच
इति वाक्यं समाकर्ण्य प्रहृष्टेनांतरात्मना
उवाच रामचारित्रं तत्तद्गुणकथोदयम् ॥६॥
शेष उवाच
साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः
श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत् ॥७॥
ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः
रेवातीरे मनोज्ञे तु मुनिवृंदनिषेविते ॥८॥
सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः
प्रसर्पंति निरीक्षंतस्तन्मार्गं रणकोविदाः ॥९॥
वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते
भाले स्वर्णभवं पत्रं धारयन्पूजितांगकः ॥१०॥
ततो जले ममज्जासौ रामचंद्र हयो वरः
तदा सर्वे महाशूरास्तत्र विस्मयमागताः ॥११॥
तैः परस्परमेवोचे कथं हयसमागमः
कोऽत्र गंता जले वाहमानेतुं तं महोदयम् ॥१२॥
इति यावत्समुद्विग्ना मंत्रयंते परस्परम्
तावद्वीरशतैः सार्धमाजगाम रघोः पतिः ॥१३॥
तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः
पप्रच्छ मेघगंभीरवाचा वीरशिरोमणिः ॥१४॥
किं स्थितं निखिलैरद्य युष्माभिः संघशो जले
कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः ॥१५॥
जले किं विनिमग्नोऽसौ हृतो वा केन मानिना
तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः ॥१६॥
शेष उवाच
इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि
कथयामासुस्ते सर्वं वीराः शूरशिरोमणिम् ॥१७॥
जना ऊचुः
स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले
निममज्ज ततो नायाद्धयस्तव मनोहरः ॥१८॥
त्वमेव तत्र गत्वेमं वाहमानय वेगतः
अस्माभिस्तत्र गंतव्यं त्वया सार्द्धं महामते ॥१९॥
इति श्रुत्वा वचस्तेषां सैनिकानां रघूद्वहः
खेदं प्राप जनान्पश्यञ्जलसंतरणोद्यतान् ॥२०॥
उवाच मंत्रिमुख्यं स किं कर्तव्यमतः परम्
कथं वाहस्य संप्राप्तिर्भविष्यति वदस्व तत् ॥२१॥
के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम्
को वा नयिष्यते वाहं केनोपायेन तद्वद ॥२२॥
इति राज्ञोवचः श्रुत्वा सुमतिर्मंत्रिसत्तमः
उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव ॥२३॥
स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः
पातालगमने शक्तिर्जलमध्यादिह स्फुटम् ॥२४॥
अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः
हनूमतोऽपि रामस्य पादसेवापरस्य च ॥२५॥
तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम्
यतो भवेद्वाहमेधो रघुनाथस्य धीमतः ॥२६॥
शेष उवाच
इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा
स्वयं विवेश तोयांतर्हनुमत्पुष्कलान्वितः ॥२७॥
यावज्जलं विवेशासौ तावत्पुरमदृश्यत
अनेकोद्यानशोभाढ्यममेयं पुटभेदनम् ॥२८॥
तत्र माणिक्यरचिते स्तंभे स्वर्णमये हयम्
बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम् ॥२९॥
स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः
सेवंते सुंदरीमेकां पर्यंके सुखमास्थिताम् ॥३०॥
तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति
एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः ॥३१॥
भविष्यंति तव श्रेष्ठमाहारस्य फलं महत्
एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम् ॥३२॥
एतद्वचः समाकर्ण्य सेवकीनां वरांगना
जहास किंचिद्वदनं नर्तयंती भ्रुवानघा ॥३३॥
तावत्त्रयस्ते संप्राप्ताः सन्नाहश्री विशोभिताः
शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः ॥३४॥
ता दृष्ट्वा महिलास्तत्र सौंदर्यश्रीसमन्विताः
प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत् ॥३५॥
नमश्चक्रुर्महात्मानः सर्वे देववरांगनाः
किरीटमणिविद्योतद्योतितांघ्रियुगास्ततः ॥३६॥
सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा तु भामिनी
के यूयमत्र संप्राप्ताः कथं चापधरा नराः ॥३७॥
मत्स्थलं सर्वदेवानामगम्यं मोहनं महत्
अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युत ॥३८॥
अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः
स्वर्णपत्रेण शोभाढ्यः कथयंतु ममाग्रतः ॥३९॥
शेष उवाच
इति तस्या वचः श्रुत्वा मोहनाचारसंयुतम्
हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव ॥४०॥
वयं वै किंकरा राज्ञस्त्रैलोक्यस्य शिखामणेः
त्रिलोकीयं प्रणमते सर्वदेवशिरोमणिम् ॥४१॥
रामभद्रस्य जानीहि हयमेधप्रवर्तितुः
प्रमुंच वाहमस्माकं कथं बद्धो वराङ्गने ॥४२॥
वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः
नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान् ॥४३॥
इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना
विवरस्था प्रत्युवाच हसंती वाक्यकोविदा ॥४४॥
मयानीतमिमं वाहं न कोमोचयितुं क्षमः
वर्षायुतेन निशितैर्बाणकोटिभिरुच्छिखैः ॥४५॥
परं रामस्य पादाब्जसैवकी कर्मकारिणी
न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः ॥४६॥
महान विनयो जातो मम नेत्र्याः सुवाजिनः
क्षमताद्रामचंद्रस्तच्छरण्यो भक्तवत्सलः ॥४७॥
यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः
याचध्वं वरमप्राप्यं देवानामपि सत्तमाः ॥४८॥
यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः
व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम् ॥४९॥
तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम्
रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् ॥५०॥
तथापि याचे वरमेकमुत्तमं
विधेहि तन्मे मनसः समीहितम्
भवे भवे नो रघुनायकः पति -
र्वयं च तत्कर्मकराश्च किंकराः ॥५१॥
एतद्वचनमाकर्ण्य प्लवगस्य तदांगना
उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम् ॥५२॥
भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः
तद्भविष्यत्यसंदेहः सेवकास्तद्रघोः पतेः ॥५३॥
अथापि वरमेकं वै दास्यामि कृतहेलना
रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः ॥५४॥
अग्रे वीरमणिर्भूपो महावीरसमन्वितः
ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ॥५५॥
तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलाः
द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान् ॥५६॥
इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि संगरे
अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः ॥५७॥
ज्ञात्वा तं वाजिनं दत्वा चरणे प्रपतिष्यति
तस्माद्गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम् ॥५८॥
तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम्
उदङ्मुखः पवित्रांगो योगिन्या दत्तमद्भुतम् ॥५९॥
तत्प्राप्यास्त्रं महातेजा बभूव रिपुकर्शनः
दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः ॥६०॥
तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम्
गृहीत्वागाज्जलात्तस्माद्रेवातीरे सुखोचिते ॥६१॥
तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टांगा मुदान्विताः
साधुसाधु प्रशंसंतः पप्रच्छुर्हयनिर्गमम् ॥६२॥
हनूमान्कथयामास हयस्यागमनं महत्
वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गताः ॥६३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य योगिनीदर्शनजलमध्याद्वाहप्राप्तिर्नाम अष्टत्रिंशत्तमोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP