संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५५

पातालखण्डः - अध्यायः ५५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.

व्यास उवाच
एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः
संशयानः पर्यपृच्छन्नागं दशशताननम् ॥१॥
श्रीवात्स्यायन उवाच
त्वयोक्तं तु पुरा रामः सीतामेकाकिनीं वने
रजकस्य दुरुक्त्यासौ तत्याज महि लोलुपः ॥२॥
जानक्यां क्व सुतौ जातौ क्व धनुर्धरतां गतौ
कथं च शिक्षिता विद्या यो रामहयमाहरत् ॥३॥
व्यास उवाच
इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः
प्रशस्य विप्रं जगदे रामचारित्रमद्भुतम् ॥४॥
शेष उवाच
रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोत्
धर्मेण पालयन्सर्वं क्षितिखंडं स्वया स्त्रिया ॥५॥
सीता दधार तद्वीर्यं मासाः पंचाभवंस्तदा
अत्यंतं शुशुभे देवी त्रयीव पुरुषं धरा ॥६॥
कदाचित्समये रामः पप्रच्छ च विदेहजाम्
कीदृशो दोहदः साध्वि मया ते साध्यते हि सः ॥७॥
रहस्येव तु सा पृष्टा त्रपमाणा पतिं सती
लज्जा गद्गद वाग्रामं निजगाद वचोऽमृतम् ॥८॥
सीतोवाच
त्वत्कृपातो मया सर्वं भुक्तं भोक्ष्यामि शोभनम्
न कश्चिन्मानसे कांत विषयो ह्यतिरिच्यते ॥९॥
यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः
तस्याः सर्वं वरीवर्ति न किंचिदवशिष्यते ॥१०॥
त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम्
ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर ॥११॥
चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः
दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुंदरीः ॥१२॥
राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता
कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा ॥१३॥
तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये
रत्नानि चैव भास्वंति भूषा अपि समर्पये ॥१४॥
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः
एष मे दोहदः कांत परिपूरय मानसः ॥१५॥
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम्
जगाद परमप्रीतो रामचंद्रः प्रियां प्रति ॥१६॥
धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः
प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम् ॥१७॥
इति रामवचः श्रुत्वा परमां प्रीतिमाप सा
प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम् ॥१८॥
अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम्
प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः ॥१९॥
ते प्रत्यहं रामकथाः शृण्वंतः सुमनोहराः
तद्दिने गतवंतस्तु धनाढ्यस्य गृहं महत् ॥२०॥
दीपं वीक्ष्य प्रज्वलंतं वचनं वीक्ष्य मानुषम्
स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम् ॥२१॥
तत्र काचन वामाक्षी बालकं प्रति हर्षिता
स्तनं धयंतं निजगौ वाक्यं तु सुमनोहरम् ॥२२॥
पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम्
पश्चात्तव सुदुष्प्रापं भविष्यति ममात्मज ॥२३॥
एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः
तत्पुरीस्थजनानां तु न भविष्यति वै जनुः ॥२४॥
जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते
तस्मात्पिब मुहुः स्तन्यं दुर्ल्लभं हृदि मन्य च ॥२५॥
ये श्रीरामं स्मरिष्यंति ध्यायंति च वदंति ये
तेषामपि पयःपानं न भविष्यति जातुचित् ॥२६॥
इत्यादिवाक्यं संश्रुत्य श्रीरामयशसोऽमृतम्
हर्षिताः प्रययुर्गेहमन्यद्भाग्यवतो महत् ॥२७॥
तावदन्यश्चरस्तत्र मनोरममिदं गृहम्
मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः ॥२८॥
तत्र काचिन्निजं कांतं पर्यंकोपरि सुस्थितम्
तांबूलं चर्वती दत्तं भर्त्तास्नेहेन सुंदरी ॥२९॥
कंकणस्वरशोभाढ्या कर्पूरागरुधूपिता
कांतं वीक्ष्य चलन्नेत्रा कामरूपमवोचत ॥३०॥
नाथ त्वं तादृशो मह्यं भासि यादृग्रघोः पतिः
अत्यंतं सुंदरतरं वपुर्बिभ्रत्सुकोमलम् ॥३१॥
पद्मप्रांतं नेत्रयुग्मं वक्षो मोहनविस्तृतम्
भुजौ च सांगदौ बिभ्रत्साक्षाद्राम इवासि मे ॥३२॥
इति वाक्यं समाकर्ण्य कांतायाः सुमनोहरम्
उवाच नेत्रयोः प्रांतं नर्तयन्कामसुंदरः ॥३३॥
शृणु कांते त्वया प्रोक्तं साध्व्या तु सुमनोहरम्
पतिव्रतानां तद्योग्यं स्वकांतो राम एव हि ॥३४॥
परं क्वाहं मंदभाग्यः क्व रामो भाग्यवान्महान्
क्व चाहं कीटवत्तुच्छः क्व ब्रह्मादिसुरार्चितः ॥३५॥
खद्योतः क्व नभोरत्नं शलभः क्व नु पामरः
गजारिः क्व मृगेंद्रोऽसौ शशकः क्व नु मंदधीः ॥३६॥
क्व च सा जाह्नवी देवी क्व रथ्या जलमुत्पथम्
क्व मेरुः सुरसंवासः क्व गुंजापुंजकोल्पकः ॥३७॥
तथाहं क्व क्व रामोऽसौ यत्पादरजसांगना
शिलीभूता क्षणाज्जाता ब्रह्ममोहनरूपधृक् ॥३८॥
इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम्
जातकामा हृतप्रेम्णा नर्तित भ्रू धनुर्धरा ॥३९॥
इत्यादि वाक्यं संश्रुत्य गतश्चान्यनिवेशनम्
तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितम् ॥४०॥
काचित्पुष्पमयीं शय्यां चंदनं सह चंद्रकम्
सर्वं विधाय कामार्हं जगाद वचनं पतिम् ॥४१॥
पते कुरुष्व भोगार्हे शयनं पुष्पमंचके
चंदनादिकलेपं च तथा भोगमनेकधा ॥४२॥
त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः
सर्वं रामकृपाप्राप्तमुपभुंक्ष्व यथातथम् ॥४३॥
मत्सदृशी कामिनी ते चंदनं तापहारकम्
पर्यंकः पुष्परचितः सर्वं रामकृपाभवम् ॥४४॥
ये रामं न भजिष्यंति ते नरा जठरं स्वयम्
न भर्तुं शक्नुवंत्येव वस्त्रभोगादि वर्जिताः ॥४५॥
इति ब्रुवंतीं महिलां हर्षितः पतिरब्रवीत्
सर्वं तथ्यं ब्रवीषि त्वं मम रामकृपाभवम् ॥४६॥
इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्चरः
तावदन्यस्य वेश्मस्थश्चरोऽन्य शुश्रुवे वचः ॥४७
काचित्कांतेन पर्यंके वीणावादनतत्परा
कांतेन रामसत्कीर्तिं गायमाना पतिं जगौ ॥४८॥
स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः
श्रीरामः स्वप्रजाः पुत्रानिव पाति च रक्षकः ॥४९॥
यो महत्कर्मदुःसाध्यं कृतवान्सुलभं न तत्
समुद्रं यो निजग्राह सेतुं तत्र बबंध च ॥५०॥
रावणं यो रिपुं हत्वा लंकां संभज्य वानरैः
जानकीमाजहारात्र महदाचारमाचरत् ॥५१॥
इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम्
पतिः स्मितं चकारेमां वाक्यं पुनरथाब्रवीत् ॥५२॥
मुग्धेनेदं महत्कर्म रामचंद्रस्य भामिनी
दशाननवधादीनि समुद्र दमनानि च ॥५३॥
लीलयायोऽवनिं प्राप्तो ब्रह्मादिप्रार्थितो महान्
करोति सच्चरित्राणि महापापहराणि च ॥५४॥
मा जानीहि नरं रामं कौसल्यानंददायकम्
सृजत्यवति हंत्येतद्विश्वं लीलात्तमानुषः ॥५५॥
धन्या वयं ये रामस्य पश्यामो मुखपंकजम्
ब्रह्मादिसुरदुर्दर्शं महत्पुण्यकृतो वयम् ॥५६॥
अशृणोद्रामचंद्रस्य चरित्रं श्रुतिसौख्यदम्
इत्यादिवाक्यं शुश्राव चारो द्वारिस्थितो मुहुः ॥५७॥
अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः
तत्रापि रामभद्रस्य यशः शुश्राव शोभनम् ॥५८॥
खेलंती स्वामिना सार्धं द्यूतेन सुमनोहरा
उवाच वाक्यं मधुरं नर्तयंतीव कंकणे ॥५९॥
जितं मया कांत जवेन सर्वं
करिष्यसि त्वं किमु हारिमानसः
इत्यादि वाक्यं परिहासपूर्वकं
कृत्वा स्वकांतं परिषस्वजे मुदा ॥६०॥
उवाच कांतश्चार्वंगि जितमेव सुशोभने
रामं मे स्मरतो नित्यं न कुत्रापि पराजयः ॥६१॥
इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम्
देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात् ॥६२॥
एवमुक्त्वा पाशकानां परिवर्तनमाकरोत्
तावज्जयं प्रपेदेऽसौ हर्षितो वाक्यमब्रवीत् ॥६३॥
मम प्रोक्तमृतं जातं जिता त्वं नवयौवना
रामस्मारी कदाप्येव न भवेद्रिपुतो भयी ॥६४॥
इत्येवं तौ वदंतौ च परस्परमथोत्सुकौ
परिरभ्य दृढं प्रेम्णा ततश्चारो गतो गृहम् ॥६५॥
एवं पंचमहाचारा राज्ञः संश्रुत्य वै यशः
परस्परं प्रशंसंतो गेहं स्वं स्वं ययुर्मुदा ॥६६॥
एकः षष्ठश्चरः कारुगेहानालोक्य तत्र ह
जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ॥६७॥
रजकः क्रोधसंस्पृष्टो भार्यामन्यगृहोषिताम्
पदा संताडयामास धिक्कुर्वञ्छोणनेत्रवान् ॥६८॥
गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषिता दिनम्
नाहं गृह्णामि भवतीं दुष्टां वचनलंघिनीम् ॥६९॥
तदास्य माता प्रोवाच मा त्यजैनां गृहागताम्
अपराधेन रहितां दुष्टकर्मविवर्जिताम् ॥७०॥
मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः
नाहं रामइव प्रेष्ठां गृह्णाम्यन्यगृहोषिताम् ॥७१॥
स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेत्
अहं गृह्णामि नो भार्यां परवेश्मनि संस्थिताम् ॥७२॥
पुनःपुनरुवाचेदं नाहं रामो महीश्वरः
यः परस्य गृहे संस्थां जानकीं वै ररक्ष सः ॥७३॥
इति वाक्यं समाश्रुत्य चारः क्रोधपरिप्लुतः
खड्गं गृहीत्वा स्वकरे तं हंतुं विदधे मनः ॥७४॥
स रामोक्तं च सस्मार न वध्यः कोपि मे जनः
इति ज्ञात्वा सरोषं तु संजहार महामनाः ॥७५॥
तदा श्रुत्वा सुदुःखार्तः पंचचारा यतः स्थिताः
ततो गतः प्रकुपितो निःश्वसन्मुहुरुच्छ्वसन् ॥७६॥
ते वै परस्परं तत्र मिलितास्तु समब्रुवन्
स्वश्रुतं रामचरितं सर्वलोकैकपूजितम् ॥७७॥
ते तद्भाषितमाकर्ण्य परस्परममंत्रयन्
न वाच्यं रघुनाथाया वाच्यं दुष्टजनोदितम् ॥७८॥
इति संमंत्र्य ते गेहं गत्वा सुषुपुरुत्सुकाः
प्राता राज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः ॥७९॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
चारनिरीक्षणंनाम पंचपंचाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP