संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः २१ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः २१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१ Translation - भाषांतर सुमतिरुवाचएतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम्कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः ॥१॥स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान्शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः ॥२॥चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमःपूजयामास प्रेम्णा च चंदनाद्युपचारकैः ॥३॥तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतःगंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम् ॥४॥एवं क्रमेण संप्राप्तो गंगासागरसंगमम्कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ॥५॥स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान्पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ॥६॥तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेःउवाच विस्मयाविष्टो राजानं प्रति सादरम् ॥७॥राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम्किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ॥८॥पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतःकथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ॥९॥अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराःअनेनैव पथा राजन्नारूढं पर्वतोपरि ॥१०॥इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपःनीलभूधरदर्शाय कुर्वन्नुत्कंठितं मनः ॥११॥उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमःकथं वा दृश्यते नीलस्तदुपायं वदस्व नः ॥१२॥तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेःतापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः ॥१३॥गंगासागरसंयोगे स्नात्वास्माभिर्महीपतेस्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते ॥१४॥गीयते पापहा देवः पुरुषोत्तमसंज्ञितःकरिष्यते कृपामाशु भक्तवत्सलनामधृक् ॥१५॥त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिःअनेके रक्षिता भक्तास्तद्गायस्व महामते ॥१६॥इति वाक्यं समाकर्ण्य राजा व्यथितचेतसास्नात्वा गंगाब्धिसंयोगे ततोनशनमादधात् ॥१७॥करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमःपूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम् ॥१८॥इति कृत्वा स नियमं गंगासागररोधसिगायन्हरिगुणग्राममुपवासमथाचरत् ॥१९॥राजोवाचजय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वयजय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक ॥२०॥अंबरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम्धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः ॥२१॥दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैःश्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः ॥२२॥ग्राहवक्त्रपतितांघ्रिमुद्भटं वारणेंद्रमतिदुःखपीडितम्वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः ॥२३॥त्यक्तपक्षिपतिरात्तचक्रको वेगकंपयुतमालिकांबरःगीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः ॥२४॥यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणापाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः ॥२५॥दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभपापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम ॥२६॥पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शयतावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित ॥२७॥ये वदंति तव नाम निर्मलं ते तरंति सकलाघसागरम्संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक ॥२८॥सुमतिरुवाचएवं गायन्गुणान्रात्रौ दिवा वापि महीपतिःक्षणमात्रं न विश्रांतो निद्रामाप न वै सुखम् ॥२९॥गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम्दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ॥३०॥एवं राज्ञः पंचदिनं गतं गंगाब्धिसंगमेतदा कृपाब्धिः कृपया चिंतयामास गोपतिः ॥३१॥असौ राजा मदीयेन गानेन विगताघकःपश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम् ॥३२॥इति संचिंत्य भगवान्कृपापूरितमानसःसंन्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः ॥३३॥तत्र गत्वा महाराज त्रिदंडियतिवेषधृक्भक्तानुकंपया प्राप्तो वीक्षितस्तापसेन हि ॥३४॥ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमःअर्घ्यपाद्यासनैः पूजां चकार हरिमानसः ॥३५॥उवाच भाग्यमतुलं यद्भवानक्षिगोचरःअतः परं दास्यते मे गोविंदो निजदर्शनम् ॥३६॥इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम्राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम् ॥३७॥अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत्तस्मादहं ब्रुवे किंचिच्छृणुष्वैकाग्रमानसः ॥३८॥श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम्पंचभिः स्वजनैः साकं यास्यसे परमं पदम् ॥३९॥त्वममात्यश्च महिला तव तापस वाडवःपुरे तव करंबाख्यः साधुश्च तं तु वायकः ॥४०॥एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमेयास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम् ॥४१॥इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यतेतदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम् ॥४२॥राजोवाचस्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान्न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः ॥४३॥तापस उवाचराजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात्पुरुषोत्तमनामायं सर्वपापप्रणाशनः ॥४४॥श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिःतमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ॥४५॥इतिवाक्यसुधापूर नाशितस्वांत संज्वरःहर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ॥४६॥तदा दुंदुभयो नेदुर्वीणापणवगोमुखाःमहानंदस्तदा ह्यासीद्राजराजस्य चेतसि ॥४७॥गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन्आनंदं प्राप सुघनं सर्वसंतापनाशनम् ॥४८॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधेसंन्यासिदर्शनंनाम एकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP