संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०२

पातालखण्डः - अध्यायः १०२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


यम उवाच-
ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः
भूपतिः श्रीहरेर्दूतान्विनयेनाह वाडव ॥१॥
ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च
संतः फलं हि गण्यंते यद्भीतपरिरक्षणम् ॥२॥
यद्यस्ति सुकृतं किंचिन्मम तेनैव जंतवः
स्वर्गे गच्छंतु मुक्तौघाः स्थाने तेषां वसाम्यहम् ॥३॥
एवं भूपवचः श्रुत्वा तस्य सत्यवतो हि ते
ध्यायंतः सत्यमौदार्यमब्रुवंस्ते वचो नृपम् ॥४॥
दूता ऊचु-
अनेन तव कारुण्यकर्मणा वचसा नृप
बभूव वृद्धिर्धर्मस्य संचितस्य विशेषतः ॥५॥
स्नानं दानं जपो होमस्तपो देवार्चनादिकम्
कृतं यन्माधवे मासि तदनंतफलं विदुः ॥६॥
स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह
वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च ॥७॥
गीयमानो मुदं याति गीर्वाणरमणीगणैः
जलान्नदानतो लोकं लभते वारुणं शुभम् ॥८॥
कुलानि हेलया सप्त संतारयति गोप्रदः
हयं दत्वा रवेर्लोकं याति विद्याप्रदो नरः ॥९॥
ब्रह्मलोकं तथा हेमदानाद्याति सुरालये
यो ददाति तथा कन्यां विष्णुलोकं स गच्छति ॥१०॥
माधवेमासि यः स्नात्वा दत्वा संपूज्य माधवम्
अवाप्य सकलान्कामान्प्रयाति पदमव्ययम् ॥११॥
एकतोऽपि तपो दान क्रतु सुत्यादिकाः क्रियाः
एकतो विधिवन्मासो माधवश्चरितो महान् ॥१२॥
तस्य माधवमासस्य दिनैकस्यापि भूपते
कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा ॥१३॥
कारुण्येन दिनैकस्य पुण्यं देहि धरापते
निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे ॥१४॥
न दयासदृशो धर्मो न दयासदृशं तपः
न दयासदृशं दानं न दयासदृशः सखा ॥१५॥
पुण्यदः पुण्यमाप्नोति नरो लक्षगुणं सदा
कारुण्येन विशेषात्ते धर्मवृद्धिस्ततो भवेत् ॥१६॥
दुःखितानां हि भूतानां दुःखोद्धर्त्ता नरो हि यः
स एव सुकृती लोके ज्ञेयो नारायणांशजः ॥१७॥
वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया
यत्तीर्थे विहितं वीर सर्वाघविनिषूदनम् ॥१८॥
तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम्
त्रिवाचिकं च निरयाद्येनामी स्वर्गमाप्नुयुः ॥१९॥
कपोतार्थं स्वमांसानि कारुण्येन पुरा शिबिः
दत्वा दयानिधिः स्वर्गे राजते कीर्तिवारिधिः ॥२०॥
दधीचिरपि राजर्षिर्दत्वास्थि च यमात्मनः
त्रैलोक्यकौमुदीं कीर्तिं लब्धवान्स्वर्गमक्षयम् ॥२१॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥२२॥
न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः
यदार्तजंतुनिर्व्वाणदानोत्थमिति नो मतिः ॥२३॥
सर्वेषु दातृजातेषु पुरा जातोसि भूपते
कर्मणानेन संख्यासु धीर धैर्यं नियोज्य च ॥२४॥
दृष्ट्वा तवधियं धर्म दया दानं सुनिश्चलम्
अस्माभिरपि तूत्साहः क्रियते धर्म्मवादिभिः ॥२५॥
यदि ते रोचते राजन्न विलंबतया ततः
तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम् ॥२६॥
इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम्
तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ ॥२७॥
दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे
स्वकृते जंतवो याम्ययातनापरिवर्जिताः ॥२८॥
विमानवरमारूढाः सर्वे ते त्रिदिवं ययुः
प्रणमंतः स्तुवंतश्च पश्यंतस्तं प्रहर्षिताः ॥२९॥
नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम्
सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता हि चित्रम् ॥३०॥
नूनं विचित्रो भुवि भूतवर्गः संभूतभावो बहुधा विचित्रः
तथा विचित्रोऽखिलकर्मयोगस्तत्कर्मशक्तिप्रचयो विचित्रः ॥३१॥
संस्तूयमानो मुनिदेवसंघैर्यस्तद्विशेषाधिकलब्धपुण्यः
परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवंद्यः ॥३२॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये
द्व्युत्तरशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP