संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ५० पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ५० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५० Translation - भाषांतर शेष उवाचअथ रामानुजो वेगात्समागत्य स्वसेवकान्पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः ॥१॥तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाःन जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे ॥२॥वयं च धिक्कृताः सर्वे बलिभी राजसेवकैःअत्र प्रमाणं भगवानिति कर्तव्य तां प्रति ॥३॥तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम्दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः ॥४॥उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसिइदानीं पातये बाणैः पुरंजनसमन्वितम् ॥५॥इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम्को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत् ॥६॥शेष उवाचइति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम्जगाद मंत्री सुगिरा स्फुटाक्षरसमन्वितम् ॥७॥विद्धीदं कुंडलं नाम नगरं सुमनोहरम्अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली ॥८॥नित्यं धर्मपरो रामचरणद्वंद्वसेवकःमनसा कर्मणा वाचा हनूमानिव सेवकः ॥९॥चरितान्यस्य शतशो वर्तंते धर्मकारिणःमहाबलपरीवारः सुरथः सर्वशोभनः ॥१०॥महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमःअनेके प्रपतिष्यंति वीरा रणविशारदाः ॥११॥एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रतिउवाच पुनरप्येवं वचनं वदतां वरः ॥१२॥शत्रुघ्न उवाचकथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतःनायाति योद्धुं प्रबलं कटकं वीरसेवितम् ॥१३॥सुमतिरुवाचदूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकःयद्वाक्येन समायाति बलेन बलिनां वरः ॥१४॥नोचेदज्ञानतो वाहो धृतः केनापि मानिनाअर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् ॥१५॥इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बलीअंगदं प्रत्युवाचेदं वचनं विनयान्वितम् ॥१६॥शत्रुघ्न उवाचयाहि त्वं निकटस्थे वै सुरथस्य महापुरेदूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति ॥१७॥त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वाअर्पयतु न वा यातु प्रधनं वीरसंयुतम् ॥१८॥रामस्य दौत्यं लंकायां रावणं प्रति यत्कृतम्तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन् ॥१९॥शेष उवाचएतच्छ्रुत्वांगदो वीर ओमिति प्रोच्य भूमिपम्जगाम संसदो मध्ये वीरश्रेणिसमन्विते ॥२०॥ददर्श सुरथं भूपं तुलसीमंजरीधरम्रामभद्रं रसनया ब्रुवंतं सेवकान्निजान् ॥२१॥राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम्शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत ॥२२॥सुरथ उवाचप्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान्ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत् ॥२३॥शेष उवाचइति संभाषमाणं तं प्रत्युवाच कपीश्वरःविस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् ॥२४॥जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम्शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम् ॥२५॥सेवकैः कैश्चिदागत्य धृतोऽश्वो मम सांप्रतम्अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप ॥२६॥तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितःशत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च ॥२७॥नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहःपृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः ॥२८॥येन लंकापतिर्नाशं प्रापितो लीलया क्षणात्तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि ॥२९॥शेष उवाचइत्यादिभाषमाणं तं प्रत्युवाच महीश्वरःसर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ॥३०॥परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवकमया धृतो महानश्वो रामचंद्रस्य धीमतः ॥३१॥न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम्चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ॥३२॥तदाहं चरणौ नत्वा दास्यामि सुतसंयुतःसर्वं राज्यं कुटुंबं च धनं धान्यं बलं बहु ॥३३॥क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यतेधर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ॥३४॥शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपिजित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत् ॥३५॥शेष उवाचइति श्रुत्वांगदो धीमाञ्जहास नृपतिं तदाउवाच च महद्वाक्यं महाधैर्यसमन्वितम् ॥३६॥अंगद उवाचबुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तवयत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली ॥३७॥यो मांधातृरिपुं दैत्यं लवणं लीलयावधीत्येनानेके जिताः संख्ये वैरिणः प्रबलोद्धताः ॥३८॥विद्युन्माली हतो येन राक्षसः कामगे स्थितःत्वं तं बध्नासि वीरेंद्रं मतिहीनः प्रभासि मे ॥३९॥भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित्येन रुद्रगणः संख्ये वीरभद्रः सुतोषितः ॥४०॥वर्णयामि किमेतस्य पराक्रांतिं बलोर्जिताम्येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया ॥४१॥हनूमान्यस्य निकटे रघुनाथपदाब्जधीःयस्यानेकानि कर्माणि भविष्यंति श्रुतानि ते ॥४२॥सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात्अक्षो येन हतः पुत्रो राक्षसेंद्रस्य दुर्मतेः ॥४३॥द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतःआनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः ॥४४॥जानाति रामश्चारित्रं नान्यो जानाति मूढधीःयं कपींद्रं मनाक्स्वान्तान्न विस्मरति सेवकम् ॥४५॥सुग्रीवाद्याः कपींद्रा ये पृथ्वीं सर्वां ग्रसंति येते शत्रुघ्नं नृपं सर्वे सेवंते प्रेक्षणोत्सुकाः ॥४६॥कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित्प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा ॥४७॥राजा वीरमणिः सत्ययुतो रामस्य सेवकःएतेऽन्येपि नृपा भूमेः पतयः पर्युपासते ॥४८॥तत्र त्वं वीर जलधौ मशकः को भवानितितज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ॥४९॥वाहं समर्प्य गंतासि रामं राजीवलोचनम्दृष्ट्वा कृतार्थी कुरुषे स्वांगानि जनुषा सह ॥५०॥शेष उवाचराजा प्रोवाच तं दूतं प्रब्रुवंतमनेकधाएतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः ॥५१॥यादृशं मद्बलं दूत तादृशं न हनूमतःयो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ॥५२॥यद्यहं मनसा वाचा कर्मणा कुतुकान्वितःभजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् ॥५३॥अन्यथा हनुमन्मुख्या वीरा बध्नंतु मां बलात्गृह्णंतु वाहं तरसा रामभक्तिसमन्विताः ॥५४॥गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम्सज्जीभवंतु सुभटा एष यामि रणे बली ॥५५॥स विचार्य यथायुक्तं करिष्यति रणांगणेमोचयंतु महावाहं न वामा मा ददंतु ते ॥५६॥शेष उवाचइति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपःगत्वा निवेदयामास यथोक्तं सुरथेन वै ॥५७॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेसुरथदूतयोः संवादोनाम पंचाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : November 05, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP