संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ७४

पातालखण्डः - अध्यायः ७४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ईश्वर उवाच-
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः
सनत्कुमारमेकांते ह्यपृच्छत्पार्षदः प्रभो ॥१॥
यत्र क्रीडति गोविंदो नित्यं नित्यसुरास्पदे
गोपांगनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् ॥२॥
तत्तत्क्रीडनवृत्तांतमन्यद्यद्यत्तदद्भुतम्
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ॥३॥
सनत्कुमार उवाच-
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ॥४॥
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना
दृष्टं कृतं च यद्यत्तत्प्रसंगात्कथितं मयि ॥५
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम्
किंत्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ॥६॥
अर्जुन उवाच-
शंकराद्यैर्विरिंच्याद्यैरदृष्टमश्रुतं च यत्
सर्वमेतत्कृपांभोधे कृपया कथय प्रभो ॥७॥
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः
तास्ताः कतिविधा देव कति वा संख्यया पुनः ॥८॥
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ॥९॥
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः
नित्ये नित्यसुखे नित्यविभवे च वने वने ॥१०॥
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत्
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ॥११॥
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि ॥१२॥
श्रीभगवानुवाच-
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम
अपि प्राणसमानानां सत्यं पुंसामगोचरः ॥१३॥
कथिते दृष्टुमुत्कंठा तव वत्स भविष्यति
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै ॥१४॥
तस्माद्विरम वत्सैतत्किं नु तेन विना तव
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् ॥१५॥
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः ॥१६॥
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् ॥१७॥
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम् ॥१८॥
आराध्य परया भक्त्या तस्यै स्वं च निवेदय
तां विनैतत्पदं दातुं न शक्नोमि कदाचन ॥१९॥
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् ॥२०॥
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम्
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् ॥२१॥
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम्
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः ॥२२॥
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम्
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः ॥२३॥
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम्
यत्र गुंजद्भृंगराज कोलाहलसमाकुलम् ॥२४॥
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम्
श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम् ॥२५॥
रत्नसिंहासनं तत्र महाहैमाभिमोहनम्
तत्र बालार्कसंकाशां नानालंकारभूषिताम् ॥२६॥
नवयौवनसंपन्नां सृणिपाशधनुः शरैः
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् ॥२७॥
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः
विराजितपदांभोजामणिमादिभिरावृताम् ॥२८॥
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम्
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः ॥२९॥
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ॥३०॥
उवाच कृपया देवी तस्य स्मरणविह्वला
भगवत्युवाच-
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ॥३१॥
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम्
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ॥३२॥
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत्
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ॥३३॥
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ॥३४॥
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम्
भक्तानां नैव सर्वेषां नैव नैव च नैव च ॥३५॥
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा
तदेहि भज बुद्ध्वैव कुलकुंडं सरो मम ॥३६॥
सर्वकामप्रदा देवी त्वनया सह गम्यताम्
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ॥३७॥
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ॥३८॥
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ॥३९॥
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता
अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम् ॥४०॥
कोरकैः करवीराणां प्रयोगं च यथातथम्
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ॥४१॥
अनेनैव विधानेन क्रियतां मदुपासनम्
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ॥४२॥
ततस्तु तत्र पर्य्यंतेष्वधिकारो भविष्यति
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ॥४३॥
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत्
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ॥४४॥
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ॥४५॥
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत
अस्मिन्नवसरे देवी तमागत्य स्मितानना ॥४६॥
उवाच गच्छ वत्स त्वमधुना तद्गृहांतरे
ततः ससंभ्रमः पार्थः समुत्थाय मुदान्वितः ॥४७॥
असंख्यहर्षपूर्णात्मा दंडवत्तां ननाम ह
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ॥४८
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम्
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ॥४९॥
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम्
नित्यं वृंदावनं नाम नित्यरासमहोत्सवम् ॥५०॥
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम्
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ॥५१॥
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः
ततः कृच्छ्राल्लब्धसंज्ञो दोर्भ्यामुत्थापितस्तया ॥५२॥
सांत्वनावचनैस्तस्याः कथंचित्स्थैर्यमागतः
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ॥५३॥
इति तद्दर्शनोत्कंठाभरेण तरलोऽभवत्
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ॥५४॥
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ॥५५॥
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम्
चतुःसरश्चतुर्धारमाश्चर्यकुलसंकुलम् ॥५६॥
अस्यांतरे प्रविश्याथ विशेषमिह पश्यसि
एतस्य दक्षिणे देश एष चात्र सरोवरः ॥५७॥
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः
एतच्च फुल्लमुद्यानं वसंते मदनोत्सवम् ॥५८॥
कुरुते यत्र गोविंदो वसंतकुसुमोचितम्
यत्रावतारं कृष्णस्य स्तुवंत्येव दिवानिशम् ॥५९॥
भवेद्यत्स्मरणादेव मुनेः स्वांते स्मरांकुरः
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ॥६०॥
उपस्पृश्य जलं तस्य साधयस्व मनोरथम्
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ॥६१॥
कल्हारकुमुदांभोजरक्तनीलोत्पलच्युतैः
परागैरंजिते मंजुवासिते मधुबिंदुभिः ॥६२॥
तुंदिले कलहंसादि नादैरांदोलिते ततः
रत्नाबद्धचतुस्तीरे मंदानिलतरंगिते ॥६३॥
मग्ने जलांतः पार्थे तु तत्रैवांतर्दधेऽथ सा
उत्थाय परितो वीक्ष्य संभ्रांता चारुहासिनी ॥६४॥
सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम्
स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम् ॥६५॥
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम्
सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम् ॥६६॥
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम्
घनश्यामलसल्लोल खेलल्लोचनखंजनाम् ॥६७॥
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम्
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ॥६८॥
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम्
विदग्धरचितस्वर्णकटिसूत्रकृतांतराम् ॥६९॥
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम्
भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम् ॥७०॥
शिंजानमणिमंजीरसुचारुपदपंकजाम्
स्फुरद्विविधकंदर्पकलाकौशलशालिनीम् ॥७१॥
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम्
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ॥७२॥
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च
मायया गोपिकाप्राणनाथस्य तदनंतरम् ॥७३॥
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता
अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ॥७४॥
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥७५॥
तत्र संति हि सख्यस्ते मा सीद वरवर्णिनि
ता हि संपादयिष्यंति तत्रैव वरमीप्सितम् ॥७६॥
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ॥७७॥
स्फुरत्कैरवकह्लारकमलेंदीवरादिभिः
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ॥७८॥
विविधैः कुसुमोद्दामैर्मंजुकुंजलताद्रुमैः
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ॥७९॥
तत्रांतरे क्वणत्कांची मंजुमंजीररंजितम्
किंकिणीनां झणत्कारं शुश्रावोत्कर्णसंपुटे ॥८०॥
ततश्च प्रमदावृंदमाश्चर्ययुतयौवनम्
आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम् ॥८१॥
अद्भुतांगमपूर्वं सा पृथगाश्चर्यविभ्रमम्
चित्रसंभाषणं चित्रहसितालोकनादिकम् ॥८२॥
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम्
चिल्लावण्यगतानंतमाश्चर्याकुलसुंदरम् ॥८३॥
आश्चर्यस्निग्धसौंदर्यमाश्चर्यानुग्रहादिकम्
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ॥८४॥
दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत्
पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता ॥८५॥
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम्
केयं मदीयजातीया चिरेणानस्तकौतुका ॥८६॥
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम्
आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ॥८७॥
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ॥८८॥
प्रियमुदोवाच-
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ॥८९॥
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु
स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम् ॥९०॥
इति पृष्टा तया सा तु विनयावनतिं गता
उवाच सुस्वरं तासां मोहयंती मनांसि च ॥९१॥
अर्जुन उवाच-
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा
आनीता केन वा चात्र किं वाथ स्वयमागता ॥९२॥
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ॥९३॥
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम्
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ॥९४॥
विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम्
एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम् ॥९५॥
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम्
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ॥९६॥
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि
ताहि संपादयिष्यंति तत्र ते वरमीप्सितम् ॥९७॥
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता
विषादहर्षपूर्णात्मा चिंताकुलसमाकुला ॥९८॥
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम्
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ॥९९॥
एतन्मात्रं विजानामि कायेन मनसा गिरा
एतदेव मया देव्यः कथितं यदि रोचते ॥१००॥
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः
तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत् ॥१०१॥
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे
वृंदावनकलानाथ विहारदारिकाः सुखम् ॥१०२॥
ता आत्ममुदितास्तेन व्रजबाला इहागताः
एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा ॥१०३॥
वयं बल्लवबाला हि कथितास्ते स्वरूपतः
अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः ॥१०४॥
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः
एषा पूर्णरसा देवी एषा च रसमंथरा ॥१०५॥
एषा रसालया नाम एषा च रसवल्लरी
रसपीयूषधारेयमेषा रसतरंगिणी ॥१०६॥
रसकल्लोलिनी चैषा इयं च रसवापिका
अनंगसेना एषैव इयं चानंगमालिनी ॥१०७॥
मदयंती इयं बाला एषा च रसविह्वला
इयं च ललिता नाम इयं ललितयौवना ॥१०८॥
अनंगकुसुमा चैषा इयं मदनमंजरी
एषा कलावती नाम इयं रतिकला स्मृता ॥१०९॥
इयं कामकला नाम इयं हि कामदायिनी
रतिलोला इयं बाला इयं बाला रतोत्सुका ॥११०॥
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ
नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः ॥१११॥
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु
उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया ॥११२॥
एषा कलसुराख्याता बालेयं कलकंठिका
विपंचीयं क्रमपदा एषा बहुहुता मता ॥११३॥
एषा बहुप्रयोगेयं ख्याता बहुकला बला
इयं कलावती ख्याता मता चैषा क्रियावती ॥११४॥
अतःपरं मुनिगणास्तासां कतिपया इह
इयमुग्रतपा नाम एषा बहुगुणा स्मृता ॥११५
एषा प्रियव्रता नाम सुव्रता च इयं मता
सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ॥११६॥
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता
सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ॥११७॥
इयं सौदामिनी सुभ्रूरियं च कामदायिनी
एषा च भोगदाख्या ता इयं विश्वमता सती ॥११८॥
एषा च धारिणी धात्री सुमेधा कांतिरप्यसौ
अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ॥११९॥
सुदतीयं गुणवती चैषासौ कलिनी मता
एषा सुलोचना ख्याता इयं च सुमनाः स्मृता ॥१२०॥
अश्रुता च सुशीला च रतिसुखप्रदायिनी
अतः परं गोपबाला वयमत्रागतास्तु याः ॥१२१॥
तासां च परिचीयंतां काश्चिदंबुरुहानने
असौ चंद्रावली चैषा चंद्रिकेयं शुभा मता ॥१२२॥
एषा चंद्रावली चंद्ररेखेयं चंद्रिकाप्यसौ
एषा ख्याता चंद्रमाला मता चंद्रालिकात्वियम् ॥१२३॥
एषा चंद्रप्रभा चंद्रकलेयमबला स्मृता
एषा वर्णावली वर्णमालेयं मणिमालिका ॥१२४॥
वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा
इयं हारावली तारा मालिनीयं शुभा मता ॥१२५॥
मालतीयमियं यूथी वासंती नवमल्लिका
मल्लीयं नवमल्लीयमसौ शेफालिका मता ॥१२६॥
सौगंधिकेयं कस्तूरी पद्मिनीयं कुमुद्वती
एषैव हि रसोल्लासा चित्रवृंदा समा त्वियम् ॥१२७॥
रंभेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका
एषा कांचनमालेयं सत्यसंततिका परा ॥१२८॥
एताः परिकृताः सर्वाः परिचेयाः परा अपि
सहितास्माभिरेताभिर्विहरिष्यसि भामिनि ॥१२९॥
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि
स्नापयित्वाथ दास्यामि मंत्रं सिद्धिप्रदायकम् ॥१३०॥
इति तां सहसा नीत्वा स्नापयित्वा विधानतः
वृंदावनकलानाथ प्रेयस्या मंत्रमुत्तमम् ॥१३१॥
ग्राहयामास संक्षेपाद्दीक्षाविधिपुरस्सरम्
परं वरुणबीजस्य वह्निबीजपुरस्कृतम् ॥१३२॥
चतुर्थस्वरसंयुक्तं नादबिंदुविभूषितम्
पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम् ॥१३३॥
मंत्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते
पुरश्चर्याविधिर्ध्यानं होमसंख्याजपस्य च ॥१३४॥
तप्तकांचनगौरांगीं नानालंकारभूषिताम्
आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् ॥१३५॥
कल्हारैः करवीराद्यैश्चंपकैः सरसीरुहैः
सुगंधकुसुमैरन्यैः सौगंधिकसमन्वितैः ॥१३६॥
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः
नैवेद्यैर्विविधैर्दिव्यैः सखीवृंदाहृतैर्मुदा ॥१३७॥
संपूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः
हुत्वा च विधिना स्तुत्वा प्रणम्य दंडवद्भुवि ॥१३८॥
ततः सा संस्तुता देवी निमेषरहितांतरा
परिकल्प्य निजां छायां माययात्मसमीहया ॥१३९॥
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव
सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः ॥१४०॥
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा
हेमचंपकवर्णाभा विचित्राभरणोज्ज्वला ॥१४१॥
अंगप्रत्यंगलावण्य लालित्य मधुराकृतिः
निष्कलंक शरत्पूर्णकलानाथ शुभानना ॥१४२॥
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा
निजया प्रभयात्यंतं द्योतयंती दिशो दश ॥१४३॥
अब्रवीदथ सा देवी वरदा भक्तवत्सला
देव्युवाच-
मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी ॥१४४॥
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम्
अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम् ॥१४५॥
पुलकांकुरमुग्धांगी बाष्पाकुलविलोचना
पपात चरणे देव्याः पुनश्च प्रेमविह्वला ॥१४६॥
ततः प्रियंवदां देवीं समुवाच सखीमिमाम्
पाणौ गृहीत्वा मत्संगे समाश्वास्य समानय ॥१४७॥
ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा
तां तथैव समादाय संगे देव्या जगाम ह ॥१४८॥
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः
संकल्पादिकपूर्वं तु पूजयित्वा यथाविधि ॥१४९॥
श्रीगोकुलकलानाथमंत्रं तच्च सुसिद्धिदम्
ग्राहयामास तां देवी कृपया हरिवल्लभा ॥१५०॥
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम्
सर्वसिद्धिप्रदं मंत्रं सर्वतंत्रेषु गोपितम् ॥१५१॥
गोविंदेरितविज्ञासौ ददौ भक्तिमचंचलाम्
ध्यानं च कथितं तस्यै मंत्रराजं च मोहनम् ॥१५२॥
उक्तं च मोहने तंत्रे स्मृतिरप्यस्य सिद्धिदा
नीलोत्पलदलश्यामं नानालंकारभूषितम् ॥१५३॥
कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम्
प्रियंवदामुवाचेदं रहस्यं पावनेच्छया ॥१५४॥
श्रीराधिकोवाच-
अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम्
तावद्धि पालयैनां त्वं सावधाना सहालिभिः ॥१५५॥
इत्युक्त्वा सा ययौ कृष्णपादांबुरुहसन्निधिम्
छायामात्मभवामात्मप्रेयसीनां निधाय च ॥१५६॥
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा
अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम् ॥१५७॥
गोरोचनाभिर्निर्माय कुंकुमेनापि चंदनैः
एभिर्नानाविधैर्द्रव्यैः संमिश्रैः सिद्धिदायकम् ॥१५८॥
लिखित्वा यंत्रराजं च शुद्धं मंत्रं तमद्भुतम्
कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि ॥१५९॥
नानर्तुसंभवैः पुष्पैः कुंकुमैरपि चंदनैः
धूपदीपैश्च नैवेद्यैस्तांबूलैर्मुखवासनैः ॥१६०॥
वासोलंकारमाल्यैश्च संपूज्य नंदनंदनम्
परिवारैः समं सर्वैः सायुधं च सवाहनम् ॥१६१॥
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ
ततो भक्तिवशो देवो यशोदानंदनः प्रभुः ॥१६२॥
स्मितावलोकितापांग तरंगिततरेंगितम्
उवाच राधिकां देवीं तामानय इहाशु च ॥१६३॥
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम्
तामानिनाय सहसा पुरोवासुरसात्मनः ॥१६४॥
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला
पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम् ॥१६५॥
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने
स्वेदांभः पुलकोत्कंप भावभाराकुलासती ॥१६६॥
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम्
ततः कल्पतरुस्तत्र लसन्मरकतच्छदः ॥१६७॥
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः
स्फटिकप्रवालमूलश्च कामदः कामसंपदाम् ॥१६८॥
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम्
रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् ॥१६९॥
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ
चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः ॥१७०॥
परितो नंदनोद्यानं मलयानिलसेवितम्
ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः ॥१७१॥
आमोदैर्वासितं सर्वं कालागुरुपराजितम्
मकरंदकणावृष्टिशीतलं सुमनोहरम् ॥१७२॥
मकरंदरसास्वाद मत्तानां भृंगयोषिताम्
वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम् ॥१७३॥
कलकंठी कपोतानां सारिकाशुकयोषिताम्
अन्यासां पत्रिकांतानां कलनादैर्निनादितम् ॥१७४॥
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम्
रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम् ॥१७५॥
सुस्निग्धनीलकुटिल कषायावासिकुंतलम्
मदमत्तमयूराद्य शिखंडाबद्धचूडकम् ॥१७६॥
भृंगसेवितसव्योपक्रमपुष्पावतंसकम्
लोलालकालिविलसत्कपोलादर्शकाशितम् ॥१७७॥
विचित्रतिलकोद्दाम भालशोभाविराजितम्
तिलपुष्पपतंगेश चंचुमंजुलनासिकम् ॥१७८॥
चारुबिंबाधरं मंदस्मितदीपितमन्मथम्
वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम् ॥१७९॥
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया
सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम् ॥१८०॥
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम्
श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम् ॥१८१॥
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम्
सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम् ॥१८२॥
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः
पीतांशुकलयाविष्ट नितंबघटनायकम् ॥१८३॥
लावण्यैरपि सौंदर्यजितकोटिमनोभवम्
वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः ॥१८४॥
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम्
प्रत्यंगमदनावेशधरं रासरसालसम् ॥१८५॥
चामरं व्यजनं माल्यं गंधंचंदनमेव च
तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम् ॥१८६॥
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक्
रसालं विविधं यंत्रं कलयंतीभिरादरात् ॥१८७॥
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम्
तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात् ॥१८८॥
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम्
आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम् ॥१८९॥
समालोक्यार्जुनी यासौ मदनावेशविह्वला
ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् ॥१९०॥
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे
यथाकामं रहो रेमे महायोगेश्वरो विभुः ॥१९१॥
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः
आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे ॥१९२॥
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम्
ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे ॥१९३॥
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत्
जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः ॥१९४॥
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुंठनायकः
दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम् ॥१९५॥
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः
श्रीकृष्ण उवाच-
धनंजय त्वामाशंसे भवान्प्रियसखो मम ॥१९६॥
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये
यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः ॥१९७॥
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन
सनत्कुमार उवाच-
इति प्रसादमासाद्य शपथैर्जातनिर्णयः ॥१९८॥
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः
इति ते कथितं सर्वं रहो यद्गोचरं मम ॥१९९॥
गोविंदस्य तथा चास्मै कथने शपथस्तव
ईश्वर उवाच-
इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः ॥२००॥
नरनारायणावासं वृंदारण्यमुपाव्रजत्
तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् ॥२०१॥
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम्
प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच ॥२०२॥
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात्
तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् ॥२०३॥
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम्
यः पठेच्छृणुयाद्वापि स रतिं विंदते हरौ ॥२०४॥
इति श्रीपद्मपुराणे पातालखंडे अर्जुन्यनुनयोनाम चतुःसप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP