पातालखण्डः - अध्यायः ८५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
अंबरीष उवाच-
साधुसाधु मुनिश्रेष्ठ लोकानुग्रहकारक
विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत् ॥१॥
अधुना लक्षणं ब्रूहि भक्तेः साधु कृपाकर
यादृशी क्रियते येन यथा यत्र यदा तथा ॥२॥
सूत उवाच-
इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम्
शृणुष्व राजन्निखिलाघहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक् ॥३॥
अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम्
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा ॥४॥
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा
ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यत् ॥५॥
विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते
मंत्रवेदसमुच्चारैरविश्रांतविचिंतनैः ॥६॥
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते
व्रतोपवासनियमैः पञ्चेंद्रियजयेन च ॥७॥
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी
भूषणैर्हेमरत्नांकैश्चित्राभिर्वाग्भिरेव च ॥८॥
वासः प्रतिसरैः सूत्रैः पावकव्यजनोच्छ्रितैः
नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः ॥९॥
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः
नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता ॥१०॥
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ॥११॥
क्रियंते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते
वेदमंत्रहविर्यागैः क्रियाया वैदिकी मता ॥१२
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम्
प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया ॥१३
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः
अग्निभूम्यनिलाकाश द्युति शंकर भास्करम् ॥१४
तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम्
आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप ॥१५
सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम्
चतुर्विंशति तत्त्वानि प्रधानादीनि संख्यया ॥१६
अचेतनानि भोग्यानि पुरुषः पंचविंशकः
चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम् ॥१७॥
आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः
पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः ॥१८॥
तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः
संख्यायाः परिसंख्यायाः प्रधानं च गुणात्मकम् ॥१९॥
ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च
कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते ॥२०॥
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते
सर्वत्र कर्तृता ब्रह्म पुरुषस्याप्यकर्तृता ॥२१॥
अचेतनप्रधानेन समत्वमिदमुच्यते
तत्त्वांतरं च तत्त्वानां कार्यकारणमेव च ॥२२॥
प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसंख्यया
संख्यातमुच्यते प्राज्ञैर्विजयार्थविचिंतकैः ॥२३॥
इति मत्वास्य सद्भावं तत्त्वं संख्यां च तत्त्वतः
ब्रह्मतत्त्वाधिकं चापि भूततत्त्वं विदुर्बुधाः ॥२४॥
सांख्यैः कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता
योगजामपि ते भूप शृणु भक्तिं वदाम्यहम् ॥२५॥
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः
भैक्ष्यभक्षव्रती चापि सर्वप्रत्याहृतेन्द्रियः ॥२६॥
धारणं हृदये कृत्वा ध्यायमानो महेश्वरम्
हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम् ॥२७॥
पश्यन्नुद्योतितमुखं ब्रह्मसूत्रकटीतटम्
श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकम् ॥२८॥
योगजा मानसीसिद्धिर्विष्णुभक्तिः परा स्मृता
य एवं भक्तिमान्देवं विष्णुभक्तिः स उच्यते ॥२९॥
एवं भक्तिः समुद्दिष्टा विविधा नृपनंदन
सात्विकी राजसी चैव तामसीभेदतस्त्विमाः ॥३०॥
नानाप्रकारा विज्ञेया विष्णोरमिततेजसः
यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात् ॥३१॥
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ॥३२॥
यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम्
तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ॥३३॥
संकीर्तितश्चिंतितकीर्तिरंतः श्रुतानुभावो भगवाननंतः
समंततोऽघविनिहंति मेघं वायुर्यथाभानुरिवांधकारम् ॥३४॥
न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः
तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनंते ॥३५॥
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः
संकीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः ॥३६॥
धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य
यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता ॥३७॥
अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम्
कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः ॥३८॥
मायाजनिरमायोऽसौ भक्त्या राजन्नमायया
साध्यते साधुपुरुषः स्वयं जानाति तद्भवान् ॥३९॥
न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम्
त्वं पृच्छसे तीर्थपदं प्रसंगात्कथारसं वैष्णव गौरवेण ॥४०॥
नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण
संतः प्रसह्य यदनंतगुणाननंतश्रेयोनिधीनधिकभावभुजो भुजंति ॥४१॥
ब्राह्मणाः सुरभी सत्य श्रद्धा याग तपांसि च
श्रुति स्मृति दया दीक्षा शांतयस्तनवो हरेः ॥४२॥
आदित्यश्चंद्रमा वायुर्भूमिरापोंऽबरं दिशः
ब्रह्माविष्णुश्च रुद्रश्च सर्वभूतमयो विभुः ॥४३॥
विश्वरूपः स्वयं चक्रे जगदेतच्चराचरम्
स्वयं ब्राह्मणमाविश्य सदान्नमुपभुंजते ॥४४॥
ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालय भूमिदेवान्
परात्मनः पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान् ॥४५॥
ब्राह्मणं विष्णुबुद्ध्य्या यो विद्वांसं साधु पश्यति
स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः ॥४६॥
किंचिदेतन्मयाप्रोक्तं रहस्यं समयो हि मे
स्नातुं गंतुं च गंगायां न कथावसरोऽधिकः ॥४७॥
प्राप्तोऽयं माधवो मासः पुण्यो माधववल्लभः
तस्यापि सप्तमी शुक्ला गंगायामतिदुर्ल्लभा ॥४८॥
वैशाख शुक्ल सप्तम्यां जाह्नवी जह्नुना पुरा
क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात् ॥४९॥
तस्यां समर्चयेद्देवीं गंगां गगनमेखलाम्
स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥५०॥
तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि
साक्षात्पश्यति तं गंगा स्नातकं गतपापकम् ॥५१॥
न माधव समो मासो न गंगा सदृशी नदी
दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते ॥५२॥
विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता
त्रिभिः स्रोतोभिरश्रांता या पुनाति जगत्त्रयम् ॥५३॥
स्वर्गारोहणनिःश्रेणी सततानंदकारिणी
अनेकदुरितोद्गारहारिणी दुर्गतारिणी ॥५४॥
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी
भजमानजनस्वांतकान्तकेलि विनाशिनी ॥५५॥
सगरान्वयनिर्वाणकारिणी धर्मधारिणी
त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी ॥५६॥
दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः
पुण्यानपुण्यान्पुरुषान्पावयंती सहस्रशः ॥५७॥
गंगा गंगेति गंगेति यैस्त्रिसंध्यमितीरितम्
सुदूरस्थैश्च तत्पापं हंति जन्मत्रयार्जितम् ॥५८॥
योजनानां सहस्रेषु गंगां यः स्मरते नरः
अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥५९॥
वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः
प्राप्यते जगतीपाल हरि विप्र प्रसादतः ॥६०॥
न माधवसमो मासो न माधवसमो विभुः
गतोहि दुरितांभोधौ मज्जमानजनस्य यः ॥६१॥
दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे
तदक्षयं भवेद्भूप पुण्यं कोटिशताधिकम् ॥६२॥
यथा देवेषु विश्वात्मा देवो नारायणो हरिः
यथा जप्येषु गायत्री सरितां जाह्नवी तथा ॥६३॥
यथोमा सर्वनारीणां तपतां भास्करो यथा
आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा ॥६४॥
परोपकारः पुण्यानां विद्यानां निगमो यथा
मंत्राणां प्रणवो यद्वद्ध्यानानामात्मचिंतनम् ॥६५॥
सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम्
शौचानामर्थशौचं च दानानामभयं यथा ॥६६॥
गुणानां च यथा लोभक्षयो मुख्यो गुणः स्मृतः
मासानां प्रवरो मासस्तथासौ माधवो मतः ॥६७॥
तत्र यत्क्रियते श्राद्धं यज्ञ दानमुपोषणम्
तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम् ॥६८॥
वैशाखांतानि पापानि सूर्यांतानि तमांसि च
परापकारपैशुन्य प्रांतानि सुकृतानि च ॥६९॥
कार्तिके मासि यत्किंचित्तुलासंस्थे दिवाकरे
स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत् ॥७०॥
तस्मात्सहस्रगुणितं माघे मकरगे रवौ
ततोऽपि शतसंख्यातं वैशाखेमेषगे रवौ ॥७१॥
ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये
प्रातः स्नात्वा विधानेन पूजयंति मधुद्विषम् ॥७२॥
प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम्
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ॥७३॥
पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति
अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत् ॥७४॥
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते
एष माधवमासस्य हयमेध समो विधिः ॥७५॥
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम्
न वेत्स्यंति कलौ पापा जना दुरितबुद्धयः ॥७६॥
तस्मिन्भवैर्नरैः पापैर्गंतव्यं नरकार्णवे
अतस्तु विरलस्तस्य प्रचारो येन निर्मितः ॥७७॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये पंचाशीतितमोऽध्यायः ॥८५॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP