संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः २७

पातालखण्डः - अध्यायः २७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः
गाहयामास तत्सैन्यं वाराह इव वारिधिम् ॥१॥
धनुर्विस्फार्य सुदृढं मेघनादनिनादितम्
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् ॥२॥
तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम्
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः ॥३॥
एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः
मणिचित्रितमादाय चापं वैरिप्रतापनम् ॥४॥
तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम्
पुरा तारकसंग्रामे स्कंदतारकयोर्यथा ॥५॥
विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः ॥६॥
चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान्
दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि ॥७॥
नादानं न च संधानं न मोचनमथापि वा
दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ ॥८॥
तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम्
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ॥९॥
चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात्
ताडयामास चांगेषु पुष्कलं शितसायकैः ॥१०॥
पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना
नभसि भ्रामयामास तदद्भुतमिवाभवत् ॥११॥
भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः
स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले ॥१२॥
स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम्
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः ॥१३॥
चित्रांग उवाच
त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम्
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् ॥१४॥
पराक्रमं समीक्षस्व ममापि सुभटेरितम्
आकाशचारी तु भवान्भवत्वमरपूजितः ॥१५॥
इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम्
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः ॥१६॥
तेन बाणेन संविद्धः खे बभ्राम पतंगवत्
सरथः सहयः संख्ये सध्वजश्च ससारथिः ॥१७॥
भ्रांत्वा सरथवर्यस्तु नभसि त्वरयान्वितः
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः ॥१८॥
पुनश्च परिबभ्राम रथः सूतसमन्वितः
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः ॥१९॥
कथंचित्स्थितिमप्याप पुष्कलः परवीरहा
रथं जघान बाणैश्च ससूतहयमस्य च ॥२०॥
सभग्नस्यंदनो वीरः पुनरन्यं समाश्रितः
सोऽपि भग्नः शरैराशु पुष्कलेन रणांगणे ॥२१॥
पुनरन्यं समास्थाय यावदायाति संमुखम्
तावद्बभंज निशितैः सायकैस्तद्रथं पुनः ॥२२॥
एवं दश रथा भग्ना नृपतेरात्मजस्य हि
पुष्कलेन तु वीरेण महासंयुगशालिना ॥२३॥
तदा चित्रांगकः संख्ये रथे स्थित्वा विचित्रिते
आजगाम ह वेगेन पुष्कलं प्रति योधितुम् ॥२४॥
पुष्कलं पंचभिर्बाणैस्ताडयामास संयुगे
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः ॥२५॥
सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान्
मुमोच हृदये तस्य स्वर्णपुंखसुशोभितान् ॥२६॥
ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव ॥२७॥
तदा चित्रांगकः क्रुद्धो भल्लान्पंच समाददे
मुमोच भाले पुत्रस्य भरतस्य महौजसः ॥२८॥
तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम्
दधत्प्रतिज्ञामकरोच्चित्रांगनिधनं प्रति ॥२९॥
शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम्
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि ॥३०॥
बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम्
सतीं संदूष्य वनितां शीलाचारसुशोभिताम् ॥३१॥
यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ॥३२॥
इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ॥३३॥
मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे ॥३४॥
प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ॥३५॥
त्वद्बाणं मद्वधोद्युक्तं न च्छिंद्यां यदि चेदहम्
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ॥३६॥
तीर्थं जिगमिषोर्यो वै कुर्यात्स्वांतविखंडनम्
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ॥३७॥
तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः
इति वाक्यमुदीर्यैव तूष्णींभूतो धनुर्दधे ॥३८॥
तदानेन निषंगात्स्वादुद्धृत्य सायकं वरम्
कथयामास विशदं वाक्यं शत्रुवधावहम् ॥३९॥
पुष्कल उवाच
यदि रामांघ्रियुगुलं निष्कापट्येन चेतसा
उपासितं मया तर्हि मम वाक्यमृतं भवेत् ॥४०॥
यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा
तेन सत्येन मे वाक्यं सत्यं भवतु संगरे ॥४१॥
इति वाक्यमुदीर्याशु बाणं धनुषि संधितम्
कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ॥४२॥
तं बाणं मुक्तमालोक्य स तु राजसुतो बली
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् ॥४३॥
तेन बाणेन संछिन्नो बाणः स्ववधउद्यतः
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा ॥४४॥
परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम्
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात् ॥४५॥
तदा भूमौ पतंतं तु दृष्ट्वा तत्तस्यसैनिकाः
हाहाकृत्वा भृशं सर्वे पलायनपरागताः ॥४६॥
पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुंडलम्
शुशुभेऽतीव पतितं चंद्रबिंबं दिवो यथा ॥४७॥
तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ॥४८॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
चित्रांगवधोनाम सप्तविंशतितमोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP