संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ९२ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ९२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९२ Translation - भाषांतर सूत उवाच-इति तस्य वचः श्रुत्वा नारदस्य स भूपतिःप्रणम्य विस्मितः प्राहचिंतयन्मनसा हरिम् ॥१॥अंबरीष उवाच-कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुनेशूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् ॥२॥ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपिकथं माधवमासस्य स्नानेनैवाप सोऽधमः ॥३॥न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीशअस्मादृशो भूपतयोऽर्थवंतो न ते लभंतेऽवनिदैवतत्वम् ॥४॥स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम्कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथंचिद्बहुभिः प्रयत्नैः ॥५॥कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दातापुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ॥६॥नारद उवाच-सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम्तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ॥७॥विचित्राणि च कर्माणि विचित्रा भूतभावनाविचित्राणि च भूतानि विचित्राः कर्मशक्तयः ॥८॥कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम्केनचित्कर्मणा भूप शुभेन परिवर्धते ॥९॥फलं ददाति सुमहत्तस्मिन्नपि च जन्मनिधर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा ॥१०॥न तस्य फलदानस्य श्रूयते कालनिश्चयःयत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि ॥११॥तदागत्य कुतः क्वापि सुफलं च प्रयच्छतिकृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च ॥१२॥तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥१३॥तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम्अनायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥१४॥महाव्रतास्ततस्ते स्युः सततं कर्मकादयःसिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः ॥१५॥पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत्इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता ॥१६॥जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात्इदमल्पं महत्त्वं तदिति नैव नियामकः ॥१७॥फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम्यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥१८॥किंत्वल्पविस्फुलिंगेन तृणनाशः प्रदृश्यतेअजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः ॥१९॥धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितःम्रियमाणः सुताह्वानं चक्रे नारायणेति च ॥२०॥तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम्अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ॥२१॥तथा दहति गोविंदनामव्याजादपीरितम् ॥२२॥हत्यायुतं शपनहा सहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं चस्तेयान्यशेषाणि हरेः प्रियेण गोविंदनाम्ना निहतानि सद्यः ॥२३॥विष्णुभक्तिमयं वीर यत्किंचित्क्रियतेऽल्पकम्सुकृतं साधु विदुषा तदक्षयफलं भवेत् ॥२४॥संदेहो न च कर्तव्यो माधवे मासि माधवम्समाराध्य जनो भक्त्या तत्तद्वांछितमाप्नुयात् ॥२५॥अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाःसुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥२६॥एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयःपापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः ॥२७॥फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोःसूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि ॥२८॥प्रियो माधवमासोऽयं माधवस्य महात्मनःएकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः ॥२९॥पुण्येन गांगेन जलेन काले देशे बुधः स्नानपरः कथंचित्आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ॥३०॥प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकालेप्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥३१॥गंगादितीर्थेषु वसंति देवा देवालये यक्षगणाश्च नित्यम्विनाशनं यांति कृतोपवासा भावोज्झितास्तेन फलं लभंते ॥३२॥भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्यायजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥३३॥इहार्थेऽपि पुरावृत्तमाकर्णय महीपतेविचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ॥३४॥तस्य माधवमासस्य प्रसादान्माधवस्य चयथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ॥३५॥दिवोदासेति विख्यातः पुरा कांतीश्वरोऽभवत्तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ॥३६॥गुणरूपसमायुक्ता सुशीला चारुमंगलादिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ॥३७॥ पित्रा त्वालोकिता सा तु रूपलावण्यसंयुतास तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ॥३८॥कस्मै च दीयते कन्या सुवराय महात्मनेइति चिंतापरो भूत्वा समालोक्य नरोत्तमः ॥३९॥रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिःचित्रसेनं महात्मानं समाहूय ततो नृपः ॥४०॥कन्यां ददौ दिवोदासश्चित्रसेनाय धीमतेतस्या विवाहकालस्य संप्राप्ते समये नृप ॥४१॥मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किलदिवोदासश्च धर्मात्मा चिंतयामास भूपतिः ॥४२॥ब्राह्मणांश्च समाहूय पप्रच्छ नृपनंदनअस्या विवाहकाले तु चित्रसेनो दिवं गतः ॥४३॥अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवंतु मेब्राह्मण उवाच-विवाहो जायते राजन्कन्यायास्तु विधानतः ॥४४॥पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति चमहाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ॥४५॥प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यतेतस्यां रजस्वलायां च अन्यः पतिर्विधीयते ॥४६॥विवाहं तु प्रधानेन पिता कुर्यान्न संशयःएवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ॥४७॥विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाःदिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ॥४८॥विवाहार्थं महाराज मानसं कृतवान्नृपपुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ॥४९॥पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मनेमृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ॥५०॥यदा यदा महाभागो दिव्यादेव्याश्च भूपतिःकरोति स पितोद्योगं विवाहस्यातिदुःखितः ॥५१॥भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदाएकविंशतिभर्तारः कालेकाले मृतास्ततः ॥५२॥ततो राजा महादुःखी संजातः ख्यातविक्रमःसमालोक्य तमाहूय मंत्रिभिः सह निश्चलः ॥५३॥स्वयंवरे महाबुद्धिं चकार पृथिवीपतिःअथ तेन समाहूता राजानो विविधा नृपाः ॥५४॥स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराःतस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः ॥५५॥संग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम्एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ॥५६॥दिव्यादेवी च दुःखार्ता रुरोद करुणं ततःबालामालोक्य तां राजा रुदंतीं चातिदुःखिताम् ॥५७॥पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम्जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः ॥५८॥दिवोदास उवाच-कथयस्व प्रसादेन किमेतस्याहि पातकम्दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ॥५९॥जातूकर्ण उवाच-तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम्पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥६०॥आस्ते वाराणसी पुण्या नगरी पापनाशिनीतस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥६१॥वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलःतस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ॥६२॥कुलाचारं परित्यज्य दुराचारेण वर्ततेन मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ॥६३॥पुण्यकार्यविहीना तु पापं चरति दुर्मतिःभर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ॥६४॥नित्यं परगृहे वास निरता भ्रमतेऽधिकम्परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ॥६५॥साधुनिंदारता पापा बहुहास्यकरी सदाकुसंगतिरता वाचा दुराचारजनप्रिया ॥६६॥धूर्ताधर्मजनद्वेषकरी चानृतभाषिणीविज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ॥६७॥तया नवीनया वीरो भार्यया सहितोऽनिशम्यथासुखं स बुभुजे विषयान्मनसः प्रियान् ॥६८॥धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदासत्ययामितया सत्या सुमत्याराधितो बभौ ॥६९॥निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनीस्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ॥७०॥भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपासा पापरतसंयुक्ता रक्ता दूती विकर्मणि ॥७१॥कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम्गृहभंगमसौ चक्रे वक्रेण मनसा हिता ॥७२॥साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत्नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ॥७३॥मनांसि चालयेत्पापा पुरुषाणां च योषिताम्साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ॥७४॥कारयत्येव कपटं धर्मग्रामविवर्जनम्एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ॥७५॥कालेन निधनं प्राप्ता सततं पापनिश्चयाजाता तव गृहे पुत्री दिव्यादेवीति सा सुता ॥७६॥सुंदरी रूपसंपन्ना पुरा दृष्टेन नोदितानारद उवाच-इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितःउवाच राजा मधुरं जातूकर्णं मुनिं वचः ॥७७॥दिवोदास उवाच-यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाताकथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ॥७८॥सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम्पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ॥७९॥नारद उवाच-इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततःकिञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ॥८०॥जातूकर्ण उवाच-चित्रा विचित्रसुरतैरथ वंचयंती प्रच्छन्नकामुकविटान्धनधीविहीनान्वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ॥८१॥कोऽपि तत्र समायातः सायं विप्रः समार्दितःअर्दमानो विशुद्धात्मा नगरे नागसंज्ञके ॥८२॥अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौतया संमोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ॥८३॥पादसंवाहनस्नानतांबूलासनभोजनैःविलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ॥८४॥ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रःसंसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ॥८५॥प्रातः प्रयाणाभिमुखः कथंचिदुवाच चित्रामनुरक्तचित्तःसंतोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ॥८६॥ब्राह्मण उवाच-कार्यः प्रत्युपकारस्ते तोषितेन मया प्रियेस्वदृढं च निजं दुःखं कथयाम्यविशेषतः ॥८७॥पुरा कथां हि वदतां विप्राणां नर्मदातटेशुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ॥८८॥यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करेभास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ॥८९॥संपूर्णमपि वैशाखे यो बहिः स्नानमाचरेत्विधिना माधवं देवमर्चयेत्सोपि पापहा ॥९०॥पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिःमहापापैर्विमुच्येत मानवो मासि माधवे ॥९१॥तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशंकःयावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ॥९२॥एवमाकर्णितस्तेषां विप्राणां वदतां मयाअनेकदुरितांभोधि तरणे पोत उत्तमः ॥९३॥अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरातत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ॥९४॥यदि ते रोचते कांते विरक्तं वामनो भवेत्तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ॥९५॥अनित्यं जीवितमिदं यौवनं चातिसुंदरम्हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ॥९६॥आराधितस्त्वयाहं च पातितो दुरितार्णवेमहतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ॥९७॥किमत्र बहुनोक्तेन न विलंबोचितः क्षणःउद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ॥९८॥चित्रोवाच-स्वामिन्न दृष्टयोगेन तव संगतिधर्मतःध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति ॥९९॥नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमःअचिंत्यायै नमस्तस्यै ततो नियतायै पुनः ॥१००॥जातूकर्ण उवाच-इति भाष्यततस्तेन समं चित्रा ययौ तदाविद्यमानं धनं किंचिदादाय मुनिनोदिता ॥१०१॥ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम्अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः ॥१०२॥हृदयालुरयं विप्रः स्नापयामास तां तदायथोचितविधानेन चित्रामुच्चित्रभाषिणीम् ॥१०३॥वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदापठमानेषु विप्रेषु पुराणानि पृथक्पृथक् ॥१०४॥यस्य श्रवणमात्रेण क्षीयते दुरितांधकःयथा सूर्योदये नैव तिमिरौघः प्रणश्यति ॥१०५॥सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतःस्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ ॥१०६॥तत्र मज्जंति रेवायां सेवायां निरता हरेःवैशाखे विविधा लोका लोकानंत्यमभीप्सवः ॥१०७॥ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंतिविशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः ॥१०८॥आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनःस्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम् ॥१०९॥सकलं माधवं मासं सा चित्रा नर्मदाजलेसस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः ॥११०॥सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेःविप्राणां तत्र पठतां संगादस्य द्विजन्मनः ॥१११॥निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यःअच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम् ॥११२॥कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवःउवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः ॥११३॥अथ कालेन कियता कालधर्ममुपेयिवान्विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप ॥११४॥तेन माधवमासस्य सुकृतेन तदैव सापुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम् ॥११५॥तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम्वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः ॥११६॥दिव्यादेवी वरं नाम जातं चास्यां नरोत्तमयच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च ॥११७॥ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि संगतास्नात्वा च माधवे मासि किंचित्तत्रापि यद्ददौ ॥११८॥तस्य दानस्य सा भुंक्ते स्नानस्य च फलोदयम्पिबते शीतलं तोयं मिष्टान्नं च तथानिशम् ॥११९॥दिव्यान्भोगान्प्रभुंजाना वर्तते च प्रभोर्गृहेभुंजते विधिदत्तं च दुःखशोकादिपीडिता ॥१२०॥यत्पुरा नरनारीणां गृहभंगरताऽभवत्तस्यकर्मविपाकोऽयमस्याः किंचिदुपस्थितः ॥१२१॥माधवस्नानमाहात्म्याद्विनैव यमयातनाम्महापापापि ते वीर सुंदरी सा सुताभवत् ॥१२२॥एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम्सर्वजन्मभवं वीर कर्म दुष्कर्मसंभवम् ॥१२३॥इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्यानेद्विनवतितमोऽध्यायः ॥९२॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP