पातालखण्डः - अध्यायः १०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः
यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम् ॥१॥
दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः
रामचंद्रं महाराजं प्रत्युवाच यथोचितम् ॥२॥
वसिष्ठ उवाच
रामचंद्र महाबाहो समयः पर्यभूत्तव
हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः ॥३॥
सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः
करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम् ॥४॥
दीनांधकृपणानां च दानं स्वांते समुत्थितम्
ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च ॥५॥
भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर
भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः ॥६॥
मृगशृंगधरः कट्यां मेखलाजिनदंडभृत्
करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम् ॥७॥
इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम्
उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम् ॥८॥
श्रीराम उवाच
शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम्
हयमानय यत्नेन वाजिमेधक्रियोचितम् ॥९॥
शेष उवाच
श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा
सेनापतिमुवाचेदं वचो विविधवर्णनम् ॥१०॥
लक्ष्मण उवाच
वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः
कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया
सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं
सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम् ॥११॥
सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः
सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः ॥१२॥
संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः
शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः ॥१३॥
विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः
विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः ॥१४॥
पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः
हयमेधार्हवाहस्य रक्षणे विततोद्यमाः ॥१५॥
इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः
सेनानी कालजिन्नामा कारयामास सज्जताम् ॥१६॥
दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः ॥१७॥
कलासंशोभितमुखः स्फुरद्रत्नविशोभितः
मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः ॥१८॥
श्वेतातपत्ररचितः सितचामरशोभितः
बहुशोभापरीतांगो निर्ययौ हयराट्ततः ॥१९॥
अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा
देवा हरिं यथापूर्वं सेवंते सेवनोचितम् ॥२०॥
अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा
हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम् ॥२१॥
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः
ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा ॥२२॥
तन्निनादेन शूराणां प्रियेण महता तदा
कंपंति गिरिशृंगाणि प्रासादा विचलंति च ॥२३॥
हेषारवो महानासीद्वाजिनां मुह्यतां नृप
रथांगघातसंघुष्टा धरा संचलतीव सा ॥२४॥
चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः
रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात् ॥२५॥
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम्
सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम् ॥२६॥
गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम्
रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा ॥२७॥
मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः
मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे ॥२८॥
इत्येवं ते महाराजं ययुः सेनाचरा वराः
धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः ॥२९॥
एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम्
हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन् ॥३०॥
रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः
वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति ॥३१॥
वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम्
प्रयोगं कारयामास ब्रह्महत्यापनोदनम् ॥३२॥
ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः
तत्कर्म कारयामास रामः परपुरंजयः ॥३३॥
प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम्
तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित् ॥३४॥
वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः
ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः ॥३५॥
वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः
अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै ॥३६॥
द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित्
पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ ॥३७॥
दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी
पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः ॥३८॥
उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ
एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः ॥३९॥
हयवर्यस्य सत्पूजां कर्तुमारभत द्विज
सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः ॥४०॥
हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम्
नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः ॥४१॥
वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया
एवं संपूज्य विमले भाले चंदनचर्चिते ॥४२॥
कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते
बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम् ॥४३॥
तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम्
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ॥४४॥
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः
तस्यात्मजो वीरबलदर्पहारी रघूद्वहः ॥४५॥
रामचंद्रो महाभागः सर्वशूरशिरोमणिः
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा ॥४६॥
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः
करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः ॥४७॥
रावणाभिधविप्रेंद्र वधपापापनुत्तये
मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः ॥४८॥
महाबलपरीवार परिखाभिः सुरक्षितः
तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणांतकः ॥४९॥
हस्त्यश्वरथपादात सेनासंघसमन्वितः
यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात् ॥५०॥
वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ॥५१॥
मनोवेगं कामजवं सर्वगत्यधिभास्वरम्
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम् ॥५२॥
शरासनविनिर्मुक्त वत्सदंतैः शिखाशितैः ॥५३॥
इत्येवमादि विलिलेख महामुनींद्रः
श्रीरामचंद्र भुजवीर्यलसत्प्रतापम्
शोभानिधानमतिचंचलवायुवेगं
पातालभूतलविशेषगतिं मुमोच ॥५४॥
शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः
याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः ॥५५॥
शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव
भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ ॥५६॥
ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया-
वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम्
सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां-
स्तान्मा हन्याः सुकृतकृतिनो येन शंसंति कर्म ॥५७॥
विरथा भयसंत्रस्ता ये वदंति वयं तव
ते त्वया न हि हंतव्याः शत्रुघ्न सुकृतैषिणा ॥५८॥
यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम्
तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम् ॥५९॥
परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके
नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः ॥६०॥
वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय
पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः ॥६१॥
गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम्
अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः ॥६२॥
विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत्
ये तदीया महाबाहो तद्रूपा विचरंति हि ॥६३॥
ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम्
ते मंतव्या महाविष्णु समरूपा रघूद्वह ॥६४॥
यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः
ते वैष्णवाः क्षणादेव पापिनं पावयंति हि ॥६५॥
येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः
वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे ॥६६॥
येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः
उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः ॥६७॥
येषां वेदाः प्रियतमा न च संसारजं सुखम्
स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान् ॥६८॥
शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः
तेषां पादरजः पूतं वहाम्यघविनाशनम् ॥६९॥
गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया
ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः ॥७०॥
शरणागतरक्षी च मानदानपरायणः
यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः ॥७१॥
यस्य नाम महापापराशिं दहति सत्वरम्
तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः ॥७२॥
इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम्
तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात् ॥७३॥
परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः
एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम् ॥७४॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नशिक्षाकथनंनाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP