पातालखण्डः - अध्यायः २३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः
वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः ॥१॥
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च
पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः ॥२॥
ययौ पुरीं स चक्रांकां सुबाहुपरिरक्षिताम्
अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ॥३॥
तदा पुत्रोस्य दमनो मृगयामास्थितो महान्
ददर्शाश्वं भालपत्रं चंदनादिकचर्चितम् ॥४॥
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः
भाले पत्रं धृतं किं नु चामरं किंतु शोभनम् ॥५॥
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः
यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ॥६॥
गृहीत्वा तं केशसंघे रत्नमालाविभूषितम्
निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ॥७॥
स पत्रं वाचयामास सुंदराक्षरशोभितम्
अयोध्याधिपतिश्चासीद्राजा दशरथो बली ॥८॥
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः
नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ॥९॥
तेनासौ मोचितो वाजी चंदनादिकचर्चितः
तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा ॥१०॥
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम्
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ॥११॥
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः
अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः ॥१२॥
इत्यभिप्रायमालोक्य जगाद नृपनंदनः
राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः ॥१३॥
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि
प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः ॥१४॥
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा
पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् ॥१५॥
दारयंतु कपोलांश्च सायका मम दंतिनाम्
अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् ॥१६॥
पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः
शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः ॥१७॥
पश्यंतु सुभटास्तस्य मम बाहुबलं महत्
कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः ॥१८॥
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः
स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः ॥१९
सेनापतिमुवाचेदं सज्जीकुरु महामते
सेनां परिमितां मह्यं वैरिवृंदनिवारणे ॥२०॥
सज्जां सेनां विधायाशु संमुखो रणमंडले
स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः ॥२१॥
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः
पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः ॥२२॥
तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः
सज्जीभूतं तु कटकं वीरशब्दनिनादितम् ॥२३॥
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते
अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः ॥२४॥
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम्
स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः ॥२५॥
केन नीतः कुतो नीतो रामं जानाति नो कुधीः
यं शक्रप्रमुखा देवा बलिमादाय सन्नताः ॥२६॥
तस्य वै धर्मराजस्य कुपितं तु बलं महत्
सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति ॥२७॥
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली
तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः ॥२८॥
मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः
ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह ॥२९॥
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ
राज्ञे निवेदयामास यथावदुपवर्णितम् ॥३०॥
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः
ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ॥३१॥
रथेन कनकांगेन चतुर्वाजिसुशोभिना
सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ॥३२॥
धनुष्टंकारयामास महाबलसमन्वितः
पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ॥३३॥
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः
अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ॥३४॥
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः
चिरकालमभीप्संतो रणं वीरेणकारितम् ॥३५॥
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः
प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ॥३६॥
सन्नद्धः कवची खड्गी शरासनधरो युवा
लीलयैव ययौ योद्धुं मृगराड्गजतामिव ॥३७
तदा योधाः प्रकुपिताः परस्परवधैषिणः
छिंधि भिंधीति भाषंतो रणकार्यविशारदाः ॥३८॥
पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः
रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ॥३९॥
गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः
अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ॥४०॥
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः
स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ॥४१॥
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम
सैन्यस्य कदनासक्तो राजपुत्रो महारथः ॥४२॥
अथ वीरशिरोरत्न नमितांघ्रिर्नृपात्मजः
ययौ संमुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ॥४३॥
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः
यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ॥४४॥
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम्
रथे पुरटनिर्णिक्ते तिष्ठन्कोदंडदंडभृत् ॥४५॥
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः
न ज्ञातोसि महाराजः सर्ववीरेंद्र सेवितः ॥४६॥
यस्य प्रतापं दैत्येंद्रो न शक्तः सोढुमद्भुतम्
तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ॥४७॥
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम्
मुंचाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ॥४८॥
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना
धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि ॥४९॥
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः
उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ॥५०॥
दमन उवाच
मया बद्धो बलादश्वो नीतः स्वपुटभेदनम्
नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ॥५१॥
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु
तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ॥५२॥
शेष उवाच
इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः
शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ॥५३॥
संधाय बाणशतकं शंखं दध्मौ प्रतापवान्
तेन शंखनिनादेन कातराणां भयं ह्यभूत् ॥५४॥
ताडयामास हृदये बाणानां शतकेन सः
प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ॥५५॥
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान्
कंकपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ॥५६॥
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः
स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ॥५७॥
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून्
सृजंतः कुर्वते सैन्यदाहनं तदभून्महत् ॥५८॥
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन्
शरेण दशसंख्येन ताडयामास मूर्धनि ॥५९॥
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः
विराजंते स्म च मुने दशशाखास्तरोरिव ॥६०॥
तेन बाणप्रहारेण विव्यथेन महामनाः
यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः ॥६१॥
बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान्
सुवर्णपुंखरचितान्महाकालानलोपमान् ॥६२॥
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः
शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः ॥६३॥
प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः
अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ॥६४॥
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत्
एकेन सारथेः कायाच्छिरो मह्यामपातयत् ॥६५॥
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः
तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ॥६६॥
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम्
धनुः करे समादाय सज्यं चक्रे महामनाः ॥६७॥
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम्
पश्येदानीं पराक्रांतिं धनुषो मम सद्भट ॥६८॥
एवमुक्त्वा तु दमनो बाणान्दश समाददे
चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ॥६९॥
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः
एकेन हृदि विव्याध बाणेनैकेन सारथिम् ॥७०॥
जगर्ज शंखमापूर्य शंखशब्दसमन्वितः
तत्कर्म पूजयामास साधु वीर महाबल ॥७१॥
इति विक्रांतमालोक्य प्रतापाग्र्यो रुषान्वितः
अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ॥७२॥
उवाच वीर पश्य त्वं मम विक्रांतमद्भुतम्
इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ॥७३॥
शराः सर्वत्र दृश्यंते कुंजरेषु हयेषु च
परब्रह्मेव सर्वत्र व्याप्ताश्चांतरगोचराः ॥७४॥
तं राजपुत्रं शितबाणकोटिभि -
र्व्याप्तं विधायाशु जगर्ज विक्रमी
संहर्षयन्स्वीयगणान्परान्महान्
कुर्वन्हृदा शून्यतमान्गतासुकान् ॥७५॥
स राजपुत्रः शितसायकव्रजैः
संपूर्णमात्मानमवेक्ष्य रोषितः
जग्राह शस्त्राणि दुरंतविक्रमो
धनुश्च धुन्वन्भुजदंडयोर्महान् ॥७६॥
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः
रोषताम्रेक्षणो मुंचञ्छरान्वैरिविदारिणः ॥७७॥
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम्
क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ॥७८॥
यद्यनेन भवंतं वै रथाच्चेत्पातयामि न
प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ॥७९॥
वेदं निंदंति ये मत्ता हेतुवादविचक्षणाः
तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ॥८०॥
इत्युक्त्वा बाणमासाद्य कोदंडे कालसन्निभम्
ज्वालामालाकुलं तीक्ष्णं निषंगादुद्धृतं वरम् ॥८१॥
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः
जगाम तरसा तं वै कालानलसमप्रभः ॥८२॥
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम्
बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ॥८३॥
स बाणः सर्वबाणांस्तांश्छिंदन्मध्यत एव हि
जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ॥८४॥
संलग्नो हृदि नालीकः प्रविवेश तदंतरम्
राजाकृतप्रहारस्तु पपात धरणीतले ॥८५॥
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि
सारथिस्तं समादायापोवाह रणमंडलात् ॥८६॥
हाहाकारोमहानासीद्बलं भग्नं गतं ततः
यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ॥८७॥
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः
प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ॥८८॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
राजपुत्रयुद्धकथनंनाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP