संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ६९

पातालखण्डः - अध्यायः ६९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः -
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ॥१॥
सूत उवाच-
शृण्वंतु मुनिशार्दूलाः श्रीकृष्णचरितामृतम्
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् ॥२॥
एकदा पार्वती देवी शिवं संस्निग्धमानसा
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ॥३॥
पार्वत्युवाच-
अनंतकोटिब्रह्मांड तद्बाह्याभ्यंतरस्थितेः
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥४॥
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम्
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५॥
ईश्वर उवाच-
गुह्याद्गुह्यतरं गुह्यं परमानंदकारकम्
अत्यद्भुतं रहःस्थानमानंदं परमं परम् ॥६॥
दुर्लभानां च परमं दुर्लभं मोहनं परम्
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ॥७॥
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यंतदुर्लभम्
नित्यं वृंदावनं नाम ब्रह्मांडोपरि संस्थितम् ॥८॥
पूर्णब्रह्मसुखैश्वर्यं नित्यमानंदमव्ययम्
वैकुंठादि तदंशांशं स्वयं वृंदावनं भुवि ॥९॥
गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम्
वैकुंठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥१०॥
यद्ब्रह्मपरमैश्वर्यं नित्यं वृंदावनाश्रयम्
कृष्णधामपरं तेषां वनमध्ये विशेषतः ॥११॥
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता
यस्मान्माथुरकं नाम विष्णोरेकांतवल्लभम् ॥१२॥
स्वस्थानमधिकं नामधेयं माथुरमंडलम्
निगूढं विविधं स्थानं पुर्यभ्यंतरसंस्थितम् ॥१३॥
सहस्रपत्रकमलाकारं माथुरमंडलम्
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ॥१४॥
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम्
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥१५॥
भद्र श्री लोह भांडीर महाताल खदीरकाः
बकुलं कुमुदं काम्यं मधु वृंदावनं तथा ॥१६॥
द्वादशैतावती संख्या कालिंद्याः सप्त पश्चिमे
पूर्वे पंचवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥१७॥
महारण्यं गोकुलाख्यं मधु वृंदावनं तथा
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥१८॥
कदंबखंडनं नंदवनं नंदीश्वरं तथा
नंदनंदनखंडं च पलाशाशोककेतकी ॥१९॥
सुगंधमानसं कैलममृतं भोजनस्थलम्
सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥२०॥
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा
संकेतं द्विपदं चैव बालक्रीडनधूसरम् ॥२१॥
कामद्रुमं सुललितमुत्सुकं चापि काननम्
नानाविधरसक्रीडा नानालीलारसस्थलम् ॥२२॥
नागविस्तारविष्टंभं रहस्यद्रुममीरितम्
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥२३॥
कर्णिकातन्महद्धाम गोविंदस्थानमुत्तमम्
तत्रोपरि स्वर्णपीठे मणिमंडपमंडितम् ॥२४॥
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम्
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥२५॥
तस्मिन्दले महापीठं निगमागमदुर्गमम्
योगींद्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ॥२६॥
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा
संकेतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ ॥२७॥
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम्
गंगादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ॥२८॥
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम्
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥२९॥
वस्त्रालंकारहरणं तद्दले समुदाहृतम्
उत्तरे पंचमं प्रोक्तं दलं सर्वदलोत्तमम् ॥३०॥
द्वादशादित्यमत्रैव दलं च कर्णिकासमम्
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ॥३१॥
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥३२॥
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम्
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ॥३३॥
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम्
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ॥३४॥
शंखचूडवधस्तत्र नानाकेलिरसस्थलम्
श्रुतमष्टदलं प्रोक्तं वृंदारण्यांतरस्थितम् ॥३५॥
श्रीमद्वृंदावनं रम्यं यमुनायाः प्रदक्षिणम्
शिवलिंगमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥३६॥
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम्
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ॥३७॥
महत्पदं महद्धाम स्वधामाधावसंज्ञकम्
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ॥३८॥
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये
कर्णिकायां महालीला तल्लीला रसगह्वरौ ॥३९॥
यत्र कृष्णो नित्यवृंदाकाननस्य पतिर्भवेत्
कृष्णो गोविंदतां प्राप्तः किमन्यैर्बहुभाषितैः ॥४०॥
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम्
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ॥४१॥
नंदीश्वरवनं रम्यं तत्र नंदालयः स्मृतः
कर्णिकादलमाहात्म्यं पंचमं दलमुच्यते ॥४२॥
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः
षष्ठं दलं यदाख्यातं तत्र नंदवनं स्मृतम् ॥४३॥
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम्
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥४४॥
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम्
कामारण्यं च दशमं प्रधानं सर्वकारणम् ॥४५॥
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम्
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥४६॥
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्
निर्माणं सेतुबंधस्य नानावनमयस्थलम् ॥४७॥
भांडीरं द्वादशदलं वनं रम्यं मनोहरम्
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥४८॥
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम्
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ॥४९॥
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम्
कृष्णक्रीडादलमयं श्रीकांतिकीर्तिवर्द्धनम् ॥५०॥
दलं पंचदशं श्रेष्ठं तत्र लोहवनं स्मृतम्
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ॥५१॥
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम्
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ॥५२॥
पूतनादिवधस्तत्र यमलार्जुनभंजनम्
अधिष्ठाता तत्र बालगोपालः पंचमाब्दिकः ॥५३॥
नाम्ना दामोदरः प्रोक्तः प्रेमानंदरसार्णवः
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥५४॥
कृष्णक्रीडा च किंजल्की विहारदलमुच्यते
सिद्धप्रधानकिंजल्क दलं च समुदाहृतम् ॥५५॥
पार्वत्युवाच-
वृंदारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम्
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५६॥
ईश्वर उवाच-
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम्
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ॥५७॥
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम्
ब्रह्मादिवांछितं स्थानं सुरसिद्धादिसेवितम् ॥५८॥
योगींद्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः
अप्सरोभिश्च गंधर्वैर्नृत्यगीतनिरंतरम् ॥५९॥
श्रीमद्वृंदावनं रम्यं पूर्णानंदरसाश्रयम्
भूरिचिंतामणिस्तोयममृतं रसपूरितम् ॥६०॥
वृक्षं गुरुद्रुमं तत्र सुरभीवृंदसेवितम्
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ॥६१॥
तत्र कैशोरवयसं नित्यमानंदविग्रहम्
गतिनाट्यं कलालापस्मितवक्त्रं निरंतरम् ॥६२॥
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम्
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ॥६३॥
मत्तकोकिलभृंगाद्यैः कूजत्कलमनोहरम्
कपोलशुकसंगीतमुन्मत्तालि सहस्रकम् ॥६४॥
भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम्
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥६५॥
पूर्णेंदुनित्याभ्युदयं सूर्यमंदांशुसेवितम्
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ॥६६॥                                                                             "
अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम्
पूर्णानंदामृतरसं पूर्णप्रेमसुखार्णवम् ॥६७॥॥
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम्
वृक्षादिपुलकैर्यत्र प्रेमानंदाश्रुवर्षितम् ॥६८॥
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते
गोविंदांघ्रिरजः स्पर्शान्नित्यं वृंदावनं भुवि ॥६९॥
सहस्रदलपद्मस्य वृंदारण्यं वराटकम्
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ॥७०॥
गुह्याद्गुह्यतरं रम्यं मध्ये वृंदावनं भुवि
अक्षरं परमानंदं गोविंदस्थानमव्ययम् ॥७१॥
गोविंददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम्
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ॥७२॥
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु
वृंदावनविहारेषु कृष्णं कैशोरविग्रहम् ॥७३॥
कालिंदी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम्
लीलानिर्वाणगंभीरं जलं सौरभमोहनम् ॥७४॥
आनंदामृत तन्मिश्रमकरंदघनालयम्
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ॥७५॥
चक्रवाकादिविहगैर्मंजुनानाकलस्वनैः
शोभमानं जलं रम्यं तरंगातिमनोरमम् ॥७६॥
तस्योभयतटी रम्या शुद्धकांचननिर्मिता
गंगाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ॥७७॥
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः
कालिंदीकर्णिका कृष्णमभिन्नमेकविग्रहम् ॥७८॥
पार्वत्युवाच
गोविंदस्य किमाश्चर्यं सौंदर्याकृतविग्रह
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥७९॥
ईश्वर उवाच
मध्ये वृंदावने रम्ये मंजुमंजीरशोभिते
योजनाश्रितसद्वृक्ष शाखापल्लवमंडिते ॥८०॥
तन्मध्ये मंजुभवने योगपीठं समुज्जवलम्
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥८१॥
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम्
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥८२॥
गोविंदस्य परं स्थानं किमस्य महिमोच्यते
श्रीमद्गोविंदमंत्रस्थ बल्लवीवृंदसेवितम् ॥८३॥
दिव्यव्रजवयोरूपं कृष्णं वृंदावनेश्वरम्
व्रजेंद्रं संततैश्वर्यं व्रजबालैकवल्लभम् ॥८४॥
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम्
अनादिमादिं सर्वेषां नंदगोपप्रियात्मजम् ॥८५॥
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम्
परंधाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥८६॥
बल्लवीनंदनं ध्यायेन्निर्गुणस्यैककारणम्
सुश्रीमंतं नवं स्वच्छं श्यामधाममनोहरम् ॥८७॥
नवीननीरदश्रेणी सुस्निग्धं मंजुकुंडलम्
फुल्लेंदीवरसत्कांति सुखस्पर्शं सुखावहम् ॥८८॥
दलितांजनपुंजाभ चिक्कणं श्याममोहनम्
सुस्निग्धनीलकुटिलाशेषसौरभकुंतलम् ॥८९॥
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम्
नानावर्णोज्ज्वलं राजच्छिखंडिदलमंडितम् ॥९०॥
मंदारमंजुगोपुच्छाचूडं चारुविभूषणम्
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमंडितम् ॥९१॥
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित्
लोलालकवृतं राजत्कोटिचंद्रसमाननम् ॥९२॥
कस्तूरीतिलकं भ्राजन्मंजुगोरोचनान्वितम्
नीलेंदीवरसुस्निग्ध सुदीर्घदललोचनम् ॥९३॥
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम्
सुचारून्नतसौंदर्य नासाग्राति मनोहरम् ॥९४
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम्
सिंदूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥९५॥
नानावर्णोल्लसत्स्वर्णमकराकृतिकुंडलम्
तद्रश्मिपुंजसद्गंड मुकुराभलसद्द्युतिम् ॥९६॥
कर्णोत्पलसुमंदारमकरोत्तंस भूषितम्
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥९७॥
विलसद्दिव्यमाणिक्यं मंजुकांचन मिश्रितम्
करे कंकणकेयूरं किंकिणीकटिशोभितम् ॥९८॥
मंजुमंजीरसौंदर्य्यश्रीमदंघ्रि विराजितम्
कर्पूरागुरुकस्तूरीविलसच्चंदनादिकम् ॥९९॥
गोरोचनादिसंमिश्र दिव्यांगरागचित्रितम्
स्निग्धपीतपटी राजत्प्रपदांदोलितांजनम् ॥१००॥
गंभीरनाभिकमलं रोमराजीनतस्रजम्
सुवृत्तजानुयुगलं पादपद्ममनोहरम् ॥१०१॥
ध्वजवज्रांकुशांभोज करांघ्रि तलशोभितम्
नखेंदु किरणश्रेणी पूर्णब्रह्मैककारणम् ॥१०२॥
केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम्
तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः ॥१०३॥
योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते
त्रिभंगं ललिताशेष निर्माणसारनिर्मितम् ॥१०४
तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम्
वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम् ॥१०५॥
सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम्
कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः ॥१०६॥
जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे
श्रीपार्वत्युवाच-
परमं कारणं कृष्णं गोविंदाख्यं महत्पदम् ॥१०७॥
वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम्
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम् ॥१०८॥
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो
ईश्वर उवाच-
यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते ॥१०९॥
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु
अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये ॥११०॥
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः
सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः ॥१११॥
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः
जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः ॥११२॥
तद्देहविलसत्कांतिकोटिकोट्यंशको विभुः
तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः ॥११३॥
तस्य स्वदेहकिरणैः परानंद रसामृतैः
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ॥११४॥
तदंशकोटिकोट्यंशा जीवंति किरणात्मकाः
तदंघ्रिपंकजद्वंद्व नखचंद्र मणिप्रभाः ॥११५॥
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम्
तदंशसौरभानंतकोट्यंशो विश्वमोहनः ॥११६
तत्स्पर्शपुष्पगंधादि नानासौरभसंभवः
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ॥११७॥
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः
तस्या अंघ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते ॥११८॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये कृष्णचरित्रे
एकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP