संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ४३

पातालखण्डः - अध्यायः ४३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः
तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह ॥१॥
एवमुक्तं समाकर्ण्य प्लवगस्य वचो महत्
कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम् ॥२॥
विनद्य घोरान्निशितान्बाणान्मुंचन्बभौ रणे
आषाढे जलदस्येव धारासारे मनोहरः ॥३॥
तान्दृष्ट्वा निशितान्बाणान्स्वदेहे सुविलग्नकान्
चुकोप हृदयेऽत्यतं हनूमानंजनी सुतः ॥४॥
मुष्टिना ताडयामास हृदये वज्रसारिणा
समुष्टिना हतो वीरः पपात धरणीतले ॥५॥
मूर्च्छितं तं समालोक्य पितृव्यं स शुभांगदः
रुक्मांगदोऽपि संमूर्च्छां त्यक्त्वागाद्रणमंडलम् ॥६॥
बाणान्समभिवर्षंतौ मेघाविव महास्वनौ
कुर्वंतौ कदनं घोरं प्लवंगं प्रति जग्मतुः ॥७॥
तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः
लांगूलेन च संवेष्ट्य सरथौ चापधारकौ ॥८॥
स्फोटयामास भूदेशे तत्क्षणान्मूर्च्छितावुभौ
निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ ॥९॥
बलमित्रश्चिरं युद्धं विधाय सुमदेन हि
मूर्च्छामप्रापयत्तं वै बाणैः सुशितपर्वभिः ॥१०॥
पुष्कलेन क्षणान्नीतो मूर्च्छां चैतन्यवर्जिताम्
जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम् ॥११॥
एतस्मिन्समये सांबः स्यंदनं वरमास्थितः
विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान् ॥१२॥
जटाजूटांतरगतां चंद्ररेखां वहन्महान्
सर्पाभूषां मनःस्पर्शां दधदाजगवं धनुः ॥१३॥
मूर्च्छितान्स्वजनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः
योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान् ॥१४॥
सगणः सपरीवारः कंपयन्पृथिवीतलम्
भक्तरक्षार्थमागच्छंस्त्रिपुरं तु पुरा यथा ॥१५॥
कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः
पश्यन्वीरान्बहुमतीन्पिनाकी देववंदितः ॥१६॥
तमागतं महेशानं वीक्ष्य रामानुजो बली
जगाम समरे योद्धुं सर्वदेवशिरोमणिम् ॥१७॥
अथागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक्
उवाच परमापन्नः कोपं सगुणचापधृक् ॥१८॥
पुष्कलेन महत्कर्म कृतं रामांघ्रिसेविना
मद्भक्तं यो रणे हत्वा गतः समरमंडलम् ॥१९॥
अद्य क्वास्ति परो वीरः पुष्कलः परमास्त्रवित्
तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम् ॥२०॥
शेष उवाच
इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम्
याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनम् ॥२१॥
नंदिनं प्रेषयामास हनूमंतं महाबलम्
कुशध्वजं प्रचंडं तु भृंगिणं च सुबाहुकम् ॥२२
सुमदं चंडनामानं गणं स्वीयं समादिशत्
पुष्कलस्तु समायांतं वीरभद्रं महागणम् ॥२३॥॥
महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः
पुष्कलः पंचभिर्बाणैस्ताडयामास संयुगे ॥२४॥
तैर्बाणैः क्षतगात्रस्तु त्रिशूलं स समादिशत्
स त्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः ॥२५॥
छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली
खट्वांगेन जघानाशु मस्तके भारतिं द्विज ॥२६॥
खट्वांगाभिहतः सोऽथ मुमूर्च्छ क्षणमुद्भटः
विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रवित् ॥२७॥
शरैश्चिच्छेद खट्वांगं करस्थं तस्य तत्क्षणात्
वीरभद्रः स्वकेच्छिन्ने खट्वांगे करसंस्थिते ॥२८॥
परमक्रोधमापन्नो बभंज रथिनो रथम्
भंक्त्वा रथं तु वीरस्य पदातिं च विधाय सः ॥२९॥
बाहुयुद्धेन युयुधे पुष्कलेन महात्मना
स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगतः ॥३०॥
मुष्टिना ताडयामास वीरभद्रं महाबलः
अन्योन्यं मुष्टिभिर्घ्नंतावूरुभिर्जानुभिस्तथा ॥३१॥
परस्परवधोद्युक्तौ परस्परजयैषिणौ
एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः ॥३२॥
न कोपि तत्र हीयेत न जीयेत महाबलः
पंचमे तु दिने वृत्ते वीरभद्रो महाबलः ॥३३॥
गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम्
तत्र युद्धं तयोरासीद्देवासुरविमोहनम् ॥३४॥
मुष्टिना चरणाघातैर्बाहुभिः सुखुरैर्महत्
तदात्यंतं प्रकुपितः पुष्कलो वीरभद्रकम् ॥३५॥
गृहीत्वा कंठदेशे तु ताडयामास भूतले
तत्प्रहारेण व्यथितो वीरभद्रो महाबलः ॥३६॥
गृहीत्वा पुष्कलं पादे जघानास्फालयन्मुहुः
ताडयित्वा महीदेशे पुष्कलं सुमहाबलः ॥३७॥
त्रिशूलेन चकर्ताशु शिरो ज्वलितकुंडलम्
जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः ॥३८॥
गर्जता तेन शार्वेण प्रापितास्त्रा समुद्भटाः
हाहाकारो महानासीत्पुष्कले पतिते रणे ॥३९॥
त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः
ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे ॥४०॥
निहतं वीरभद्रेण महेश्वरगणेन वै
इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा ॥४१॥
दुःखं प्राप्तो रणेऽत्यतं कंपमानः शुचा महान्
तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रो ऽब्रवीद्वचः ॥४२॥
शत्रुघ्नं समरे वीरं शोचंतं पुष्कले हते
रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल ॥४३॥
वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम्
धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपंचकम् ॥४४॥
युयुधे वीरभद्रेण महाप्रलयकारिणा
येन क्षणाद्विनिहतो दक्षो मदपमानकृत् ॥४५॥
क्षणाद्विनिहता येन दैत्यास्त्रिपुरसैनिकाः
तस्माद्युद्ध्स्व राजेंद्र शोकं त्यक्त्वा महाबल ॥४६॥
यत्नात्तिष्ठाद्य वीराग्र्य मयि योद्धरि संस्थिते
शोकं संत्यज्य शत्रुघ्नो वीरश्चुक्रोध शंकरम् ॥४७॥
आत्तसज्जधनुर्बाणैः प्रचच्छाद महेश्वरम्
ते बाणाः सुरशीर्षण्य वपुषं क्षतविक्षतम् ॥४८॥
अकुर्वत महच्चित्रं भक्तरक्षार्थमागतम्
ते बाणाः शंकरस्यापि बाणा नभसि संस्थिताः ॥४९॥
व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि
तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे ॥५०॥
प्रलयं लोकसंहारकारकं सर्वमोहकम्
आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः ॥५१॥
विलोकयितुमागत्य प्रशंसंति तयोर्भृशम्
अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः ॥५२॥
असावपि महाराज रामचंद्रस्य चानुजः
किमिदं भविता को वा जेष्यति क्षितिमंडले ॥५३॥
पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि
एवमेकादशाहानि वृत्तं युद्धं परस्परम् ॥५४॥
द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः
ब्रह्मसंज्ञं महादेवं हंतुं क्रोधसमन्वितः ॥५५॥
सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा
हसन्नप्यपिबत्तेन मुक्तं ब्रह्मशिरो महत् ॥५६॥
अत्यंतं विस्मयं प्राप्य किं कर्तव्यमतः परम्
एवं विचारयुक्तस्य हृदये ज्वलनोपमम् ॥५७॥
शरं वै निचखानाशु देवदेव शिरोमणिः
तेन बाणेन शत्रुघ्नो मूर्च्छितो रणमंडले ॥५८॥
हाहाभूतमभूत्सर्वं कटकं भटसेवितम्
वीराः सर्वे रुद्रगणैः पातिताः पृथिवीतले ॥५९॥
सुबाहुसुमदोन्मुख्याः स्वबाहुबलदर्पिताः
पतितं मूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम् ॥६०॥
पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुम्
हनूमानागतो योद्धुं शिवं संहारकारकम् ॥६१॥
श्रीरामस्मरणं योधान्स्वीयान्विप्र प्रहर्षितान्
प्रकुर्वन्रोषितस्तीव्रं लांगूलं च प्रकंपयन् ॥६२॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कल-
शत्रुघ्नपराजयोनाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP