संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथप्रसववैकृतशांति:

संस्कारप्रकरणम् - अथप्रसववैकृतशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वृध्दगर्ग: ॥ यत्रगर्भिविपर्यासोमानुषाणांगवामपि ॥ अभ्दुतानिप्रसूयंतेतत्रदेशस्यवि
प्लव: ॥ अत्राऽपिदिव्यजाशांति: कार्यापंचदशींबुधै: ॥ पंचदशींप्राप्त्येतिशेष: ॥ पर्वणीत्य
र्थं ॥ मानुषाऽमानुषाणांचगोऽजाश्वमृगपक्षिणाम् ॥ जायंतेजातिभेदाश्चसदंताविकृतास्तथा
॥ बहुशीर्षाअशीर्षावाबहुकर्णाअकर्णका: ॥ एकश्रृंगाद्वित्रिश्रृंगास्तथैवत्रिचतुर्भुजा: ॥ दीर्घक
र्णामहाकर्णागजकर्णाश्चमानवा: ॥ वानरश्वापदव्याघ्रमार्जारतनुधारिण: ॥
जायंतेपुरुषायत्रतत्रसंग्राममादिशेत् ॥ राजश्रेष्ठकुलेनाशोधनस्यचकुलस्यच ॥ यमलायत्र
जायंतेनारीणांगजवाजिनाम् ॥ ब्रह्मशांतिंतत:कुर्याध्यत्रब्रह्माप्रशासिता ॥ अष्टोत्तरसहस्त्रा
णिचरूंवैजुहुयाध्दृतम् ॥ समिधांतुपलाशानांतर्पयेत्पूर्वद्विजान् ॥
दासीदाससमायुक्तोगोधान्यफलसंयुतम् ॥ कांचनंवृषभं वस्त्रंदध्याद्विप्रायदक्षिणाम् ॥
अशिराजायतेजंतुस्तथाद्वित्रिशिराअपि ॥ सूर्याभ्दुतंविजानीयात्पूजायित्वादिवाकरम् ॥
दध्याज्यमधुसंयुक्ता:समिधस्त्वर्कसंभवा: ॥ यद्वाजन:प्रसृतिभिर्जुहुयाध्दृतमेवच ॥
धेनुंसुवर्णंवस्त्रंचदध्यात्रेचदक्षिणम् ॥ सर्वेदोषविनश्यंतितत:संपध्यतेशुभम् ॥ मृगीजनये
सर्पान् मंडूकांश्चाप्यमानुषान् ॥ बृहस्पत्यद्भुतमितंद्वारेतंप्रपूजयेत् ॥ उदुंबरस्यसमिधोद
धिसर्पि:समन्विता: ॥ दोषोपशमनार्थायजुहुयान्नियमेस्थित: ॥ वस्त्रंसुवर्णंधेनुंचदध्याद्वि
प्रायदक्षिणाम् ॥
स्त्रीगर्भपातोयमलंप्रसूयंतेऽथवास्त्रिय: ॥ सदंताश्चैवजायंतेजातमात्राहसंतिच ॥ बुधाद्भुतं
विजानीयात्तद्वारेतंप्रपूजयेत् ॥ वस्त्रंगांचसुवर्णंचदध्याद्विप्रायदक्षिणाम् ॥
अद्भुतसागरेनारद: ॥ भानौसिंहगतेचैवयस्यगौ:संप्रसूयते ॥ मरणंतस्यनिर्दिष्टंषड्रभिर्मासै
र्नसंशय: ॥ तत्रशांतिंप्रवक्ष्यामियेनसंपध्यतेशुभम् ॥ प्रसूतांतत्क्षणादेवतांगांविप्रायदापयेत् ॥ ततोहोमंप्रकुर्वीतघृताक्तैराजसर्षपै: ॥ अयुतोहोमोव्याहृतिभि:कार्यइति ॥ तथा ॥
अस्यवामीयसूक्तेनतद्विष्णोरितिमंत्रत: ॥ जुहुयाच्चतिलाज्येनशतमष्टोत्तराधिकम् ॥
मृत्युंजयेनमंत्रेणजुहुयाच्चतथायुत्ं ॥ श्रीसूक्तेनतत:स्नायाच्छांतिसूक्तेनवापुनरिति ॥
यत्कांत्यासूर्यचंद्राध्याअभवन्प्रौढकांतय: ॥ श्रीकांतस्यमुदेतस्यप्रोक्ताजननशांतय: ॥
इतिसंस्कारकौस्तुभस्थाजननशांतय: समाप्ता: ॥
॥ इतिद्वितीयंसंस्कारादिप्रकरणंसंपूर्णम् ॥ २ ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP