संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथबृहस्पतिशांति: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथबृहस्पतिशांति: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथबृहस्पतिशांति: Translation - भाषांतर श्री: ॥ आचम्यपवित्रपाणि:प्राणानायम्यदेशकालौसंकीर्त्य ॥ अस्यकुमारस्योनयनकाले (कन्यकायाविवाहकालेवा) बृहस्पत्यानुकूल्यसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंबृहस्पतिशांतिकरिष्ये ॥ इतिसंकल्प्यगणेशपूजनाध्याचार्यवरणांतंकुर्यात् ॥ ततआचार्य: यथाशक्तिनिर्मितप्रतिमायामग्न्युत्तारणांतंकृत्वा ॥ यदत्रस्थितंभूतमित्यादिदेशसंस्कारांतेहोमदेशस्येशानदेशेमहीध्यौरितिस्पृष्टभुविओषधयइतिधान्यंप्रक्षिप्याकलशेष्वितिधवलकुंभंस्थाप्येमंमेगंगेइतितीर्थोदकेनापूर्याऽश्वत्थेवोनिषदनमितिअश्वत्थपल्लवान् गायत्र्यादिमंत्रै:पंचगव्यं देवस्यत्वा० भिषिंचामीतिकुशोदकंनिक्षिप्य युवासुवासाइतिपीतवस्त्रेणस्म्वेष्टयसहिरत्नानीतिपंचरत्नानि प्रक्षिप्ययाओषधीरितिवक्ष्यमानान्सर्वान्निक्षिपेत् यूथिकांदमनंमधुपुष्पाणिपत्रं (भाषायांपत्रजमितिप्रसिध्दं) पलाशंसर्षपान् जटामांसींगुडूचींअपामार्गंविडंगंशंखिनींवचांसहदेवीं विष्णुक्रांतांशतावरीं कुष्टंमांसीहरिद्रेद्वेमुरशैलेयचंदनंवचांकचोरंमुस्तांचेतिनिक्षिप्यपीतवस्त्रेणावेष्टय ॥ ततश्चंदनादिनाकुंभमभ्यर्च्यपूर्णादवींतियथाविभवंसौवर्णादिपूर्णपात्रेनिधायतत्राष्टदलोत्तरलेहरिताक्षतनिर्मितदीर्घचतुरस्त्रपीठे हैमींबृहस्पतिप्रतिमांस्थापयित्वा स्थंडिलेऽग्निप्रतिष्ठापनादिअन्वाधानेचक्षुषीआज्येनेत्यंते बृहस्पतिमष्टोत्तरशतसंख्याभिरश्वत्थसमिभ्दिस्तावतीभिराज्याहुतिभिस्तावतीभि:सर्पिर्मिश्रपायसाहुतिभि:तावतीभि:साज्ययवब्रीहितिलाहुतिभिश्च शेषेणस्विष्टकृतमित्यादिस्वशाखोक्तविधिनाज्यभागांकृत्वाकुंभोपरिस्थापितप्रतिमायामावाहनादिषोडशोपचारैर्बृहस्पतिंपूजयेत् ॥ तत्रविशेष: ॥ पीतवस्त्रयुग्मंपीतंयज्ञोपवीतंपीतचंदनंपीताक्षतान् ॥ चंपकादिपीतपुष्पं ॥ बिल्वमज्जाधूपं ॥ घृतदीपं ॥ दध्योदनंनैवेध्यं ॥ दक्षिणायांपुष्परागोमाणिक्यंयथाशक्तिहेमवा ॥ पूजांतेऽब्लिंगाभिर्वारुणीभि:पावमानीभिश्चग्रहमखोक्ताभि:कुंभानुमंत्रणं ॥ ततोयजमानोयथान्वाधानंबृहस्पतयइदंनममेतित्यागंकुर्यात् ॥ अथाचार्योबृहस्पतिमंत्रेणप्रणवादिनाऋष्यादिस्मरणपूर्वकदंधिमध्वाक्ताअष्टोत्तरशतमश्वत्थसमिधोजुहुयात् ॥ तावतीराज्याहुती:सर्पिर्मिश्रलोकसिध्दपायसाहुती:साज्ययवव्रीहितिलाहुतीश्च ॥ तत:स्विष्टकृदादिहोमशेषंपरिस्तरणविसर्जनाग्न्यर्चनांतंकुर्यात् ॥ ततोबृहस्पते:गंधादिभि:पूर्वोक्तै:फलतांबूलांतै:पूजनंकृत्वासयजमानोनमस्कुर्यात् ॥ ततस्ताम्रपात्रेशुध्दोदकंप्रक्षिप्यतत्रपीतानिगंधाक्षतपुष्पाणिफलंचप्रक्षिप्यार्ध्यंदध्यात् ॥ गंभीरदृढरुपांगदेवेज्यसुमतेप्रभो ॥ नमस्तेवाक्पतेशांतगृहाणार्ध्यंबृहस्पतेइति ॥ ततोयजमानोबृहस्पतयेकृतकर्मार्पणंकुर्यात् ॥ भक्त्यायत्तेसुराचार्यहोमपूजादिकंकृतं॥ तत्त्वंगृहाणशांत्यर्थंबृहस्पतेनमोनम:इति॥ तत:प्रार्थयेत् ॥ जीवोबृहस्पति: सूरिराचार्योगुरुरंगिरा: ॥ वाचस्पतिर्देवमंत्रीशुभंकुर्यात्सदाममेति ॥ ततोविसर्जनंकृत्वाचार्यप्रणम्यसर्वोपचारसंयुक्तांगोयुक्ताभिमांप्रतिमांतुभ्यमहंसंप्रददे इतितादृशप्रतिमांदध्यात् अभिषेकोत्तरंवाप्रतिमादानं ॥ कुंभोदकेनाचार्य:पुत्रदारसमेतंयजमानमभिषिंचेत् ॥ आपोहिष्ठेतितिसृणामांबरीष:सिंधुद्वीपआपोगायत्री ॥ समुद्रज्येष्ठाइतिचसृणांवसिष्ठआपस्त्रिष्टुप् ॥ इदमापइत्यस्यसिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णामित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥ याओषधीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ इदमापइत्यस्यसिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णामित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥ याओषधीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ इतमापइत्यस्य सिंधुद्वीपआपोनुष्टुप् ॥ तामग्निवर्णामित्यस्यहिरण्यगर्भ:श्रीस्त्रिष्टुप् ॥याओषधीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ अश्वावतीर्गोमतीरित्यस्यवसिष्ठउपस्त्रिष्टुप् ॥ यद्देवादेवहेडनंयददीव्यमायुष्टेविश्वतोदधदित्यापस्तंबशाखोक्तैरनुवाकैश्चतच्छंयोरावृणीमह इति ॥ ततोब्राह्मणांश्चसंपूज्यतेभ्योभूयसींदक्षिणांदत्वाशिषोवाचयित्वाकर्मेश्वरसमर्प्ययथाशक्तिब्राह्मणान्भोजयेत् ॥ इति बृहस्पतिशाम्ति: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP