संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथज्येष्ठाजननशांति: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथज्येष्ठाजननशांति: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथज्येष्ठाजननशांति: Translation - भाषांतर श्री: ॥ कर्ताआचम्यप्राणानायम्य देशकालौनिर्दिश्य अस्यशिशोर्ज्येष्ठाजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीर्त्यर्थंसग्रहमखांगर्गोक्तांज्येष्ठाजननशांतिंकरिष्येइतिसंकल्प्यगणेशपूजनादिऋत्विग्वरणांतंकुर्यात् ॥ आचार्य:सर्षपविकिरणभूप्रोक्षणप्रतिमाग्न्युत्तारणानिकृत्वा ॥ महीध्यौरित्यादिविधिनास्थापितकलशंशालितंडुलै:पूरयित्वा तत्रपूर्णादवींतिनिहितपूर्णपात्रेसाष्टदलवस्त्रेकर्षतदर्धतदर्धान्यतममानहेमनिर्मितांशच्यासहैरावतारोहणवज्रांकुशद्विभुजांइंद्रंप्रतिमांनिधायेंद्रमावाहनाध्युपचारै: पूजयेत् ॥ इंद्रायेंदोमरुत्वतइत्यस्यकश्यपइंद्रोगायत्री पूजनेविनि० ॥ ॐ इंद्रायेंदोमरुत्वतेपवस्वमधुमत्तम: ॥ ऋतस्ययोनिमासदं ॥ ॐ भूर्भुव:स्व:इंद्रायनम:इंद्रमावाहयामिइतिइंद्रमावाह्यलोकपालांश्चावाह्यतत्समन्वितमिंद्रमुक्तमंत्रेणपूजयन्नासमाप्तिमौनीभवेत् ॥ वस्त्रार्पणकालेरक्तवस्त्रद्वयं नैवेध्यकालेष्कुल्यादिनानाभक्ष्यनिवेदनंकुर्यात् ॥ पूजांतेतस्यचतुर्दिक्षुकुंभचतुष्टयंतत्पूर्वमध्यभागेचशतच्छिद्रंमहीध्यौरित्याध्यावृत्त्यानिधाय इमंमेगंगइतिचतुरउदकेनापूर्य तेषुगायत्र्यादिभि:पंचगव्यंगोमूत्रादिआप्यायस्वेत्यादिभि:पंचामृतंक्षीरादि सहिरत्नानीतिपंचरत्नानि स्योनेतिसप्तमृत्तिका: अश्वत्थेवइतिपंचपल्लवान् तत्कषायसहितान् हिरण्यरुपइतिहेम शरासइतिकुशान् कांडात्कांडादितिदूर्वा: याओषधीरितिसर्वौषधी:प्रादक्षिण्येनमंत्रावृत्त्यानिक्षिप्य युवासुवासाइतिवस्त्रयुग्मवेष्टितेषुतेषुपूर्णपात्राणिनिधाय तेषुक्रमेणवरुणपूजांकुर्यांत् ॥ प्रथमकलशे ॥ त्वंनोअग्नइत्यस्यवामदेवोवरुणस्त्रिष्टुप् वरुणावाहनेवि० ॥ ॐ त्वंनोअग्नेवरुणस्यविद्वान्वेदस्यहेळोवयासिसीष्ठा: ॥ यजिष्ठोवह्नितम:शोशुचानोविश्वाद्वेषांसिप्रमुमुग्ध्यस्मत् ॥ ॐ भूर्भव:स्वर्वरुणायनम:वरुणमावाहयामि ॥ द्वितीये ॥सत्वंनइत्यस्यवामदेवोवरुणस्त्रिष्टुप् वरुणावाहने० ॥ ॐ सत्वंनोअग्नेवमोभवोतीनेदिष्ठोअस्याउषसोव्युष्टौ ॥ अवयक्ष्वनोवरुणंरराणोवीहिमृळीकंसुहवोनएधि ॥ तृतीये ॥ समुद्रज्येष्ठाइत्यस्यवसिष्ठोवरुणस्त्रिष्टुप् वरुणावाहने० ॥ॐ समुद्रज्येष्ठा:० १ ॥ चतुर्थे ॥ इमंमेगंगइत्यस्यसिंधुक्षित्प्रैयमेधोवरुणोजगती वरुणावाहनेवि० ॥ ॐ इमंमेगंगे० १ ॥ प्रतिकुंभंवस्त्रंयुग्मंवस्त्रार्पणसमयेऽर्पयेत् ॥ ततश्चतुर्षुकुंभेषुऋत्विजश्चत्वारिसूक्तानिजपेयु: ॥ आनोभद्राइतिदशर्चस्यसूक्तस्यगोतमोविश्वेदेवा:आध्यापंचमीसप्तमीचजगत्य: षष्ठीविराट् शेषास्त्रिष्टुभ: प्रथमकलशेजपेविनियोग: ॥ ॐ आनोभद्रा:क्रतवो० सूक्तम् ऋ० १० ॥भद्राअग्नेरितिद्वादशर्चस्यसुमित्रोग्नि: आध्येद्वेजगत्यौ शेषास्त्रिष्टुभ: द्वितीयकलशेजपे० ॥ ॐ भद्राअग्नेर्वध्यश्वस्यसंदृशोवामीप्रणीति:सुरणाउपेतय: ॥ यदींसुमित्राविशोअग्र इंधतेघृतेनाहुतोजरतेदविध्युतत् ॥ घृतमग्नेर्वध्र्यश्वस्यवर्धनंघृतमन्नंघृतम्वस्यमेदनं ॥ घृतेनाहुतौर्वियाविपप्रथेसूर्यइवरोचतेसर्पिरासुति: ॥ यत्तेमनुर्यदनीकंसुमित्र:समीधेअग्नेतदिदंनवीय: ॥ सरेवच्छोचसगिरोजुषस्वसवाजंदर्षिसइहश्रवोधा: ॥ यंत्वापूर्वमीळितोवध्र्यश्व:समीधेअग्नेसइदंजुषस्व ॥ सन:स्तिपाउतभवातनूपादात्रंरक्षस्वयदिदंतेअस्मे ॥ भवाध्युम्नीवाध्र्यश्वोतगोपामात्वातारीदभिमातिर्जनानां ॥ शूरइवधृष्णुश्च्यवन:सुमित्र:प्रनुवोचंवाध्र्यश्वस्यनाम ॥ समज्र्यापर्वत्या३वसूनिदासावृत्राण्यार्याजिगेथ ॥ शूरइवधृष्णुश्च्यवनोजनानांत्वमग्नेपृतनायूँरभिष्या: ॥१॥दीर्घतंतुर्बृहदुक्षायमग्नि:सहस्त्रस्तरी:शतनीथऋभ्वा ॥ ध्युम्नाध्युमत्सुनृभिर्मृज्यमान:सुमित्रेषुदीदयोदेवयत्सु ॥ त्वेधेनु:सुदुघाजातवेदोसश्चतेवसमनासबर्धुक् ॥ त्वंनृभिर्दक्षिणावभ्दिरग्नेसुमित्रेभिरिध्यसेदेवयभ्दि: ॥ देवाश्चित्तेअमृताजातवेदोमहिमानंवाध्र्यश्वप्रवोचन् ॥ यत्संपृच्छंमानुषीर्विशआयन्त्वंनृभिरजयत्स्वावृधेभि: ॥ पितेवपुत्रवमबिभरुपस्थेत्वामग्नेवध्र्यश्व:सर्पयन् ॥ जुषाणोअस्यसमिधंयविष्ठोतपूर्वाअवनोर्व्राधतश्चित् ॥ शश्वदग्निर्वध्र्यश्वस्यशत्रुन्नृभिर्जिगायसुतसोमवभ्दि: ॥ समन्म्चिददहश्चित्रभानोवव्राधंतमभिनद्वृधश्चित् ॥ अयमग्निर्वध्र्यश्वस्यवृत्रहासनकात्प्रेध्दोनमसोपवाक्य: ॥ सनोअजामीरुतवाविजामीनभितिष्ठशर्धतोवाध्र्यश्च ॥२॥सहस्त्रशीर्षेतिसूक्तस्यनारायण:पुरुषोनुष्टुप् अंत्यात्रिष्टुप् तृतीयकलशेजपे० ॥ ॐ सहस्त्रशीर्षा० ॥ ऋच: १६ ॥ तत:कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रगायत्री अंत्यानुष्टुप् चतुर्थकलशेजपे० ॥ ॐ कद्रुद्रायप्र० ऋच: ९ ॥आचार्यऐंद्रकलशे इंद्रायेंदोमरुत्वतइत्येमष्टोत्तरशतादिसंख्ययाजपित्वा ॥ इंद्रंविश्वाइत्यष्टर्चस्यसूक्तस्यजेतेंद्रोनुष्टुप् जपे० ॥ ॐ इंद्रंविश्वाअवीवृधन्त्समुद्रव्यचसंगिर: ॥ रथीतमंरथीनांवाजानांसत्पतिंपतिं ॥ सख्येतइंद्रवाजिनोमाभेमशवसस्पते ॥ त्वामभिप्रणोनुमोजेतारमपराजितं ॥ पूवींरिंद्रस्यरातयोनविदस्यंत्यूतय: ॥ यदीवाजस्यगोमत:स्तोतृभ्योमहंतेमघं ॥ पुरांभिंदुर्युवाकविरमितौजाअजायत ॥ इंद्रोविश्वस्यकर्मणोधर्तावज्रीपुरुष्टुत: ॥ त्वंवलस्यगोमतोपावरद्रिवोबिलं ॥ त्वांदेवाअबिभ्याषुस्तुज्यमानासआविषु: ॥ तवाहंशूररातिभि:प्रत्यायंसिंधुमावदन् ॥ उपातिष्ठंतगिर्वणोविदुष्टेतस्यकारव: ॥ मायाभिरिंद्रमायिनंत्वंशुष्णमवातिर: ॥ विदुष्टेतस्यमेधिरास्तेषांश्रवांस्युत्तिर ॥ इंद्रमीशानमोजसाभिस्तोमाअनूषत ॥ सहस्त्रंयस्यरातयउतवासंतिभूयसी: ॥ इत्यष्टर्चमिंद्रसूक्तंजपित्वाकद्रुद्रायेतिरुद्रसूक्तजपंत्र्यंबकमितिमृत्युंजयपंचाष्टोत्तरशताष्टाविंशत्यादिसंख्ययाकुर्यात् ॥ तत:स्थंडिलेऽग्निंवेध्यांग्रहांश्चप्रतिष्ठाप्याऽन्वादध्यात् ॥ अत्रप्रधानं ग्रहातेतत्संख्याभि:समिच्चर्वाज्याहुतिभि: तदंगदेवताअप्येतत्संख्याभिरुक्ताहुतिभि: इंद्रंपलाशसमिदाज्यचर्वाहुतिभि:प्रतिद्रव्यमष्टोत्तरशतसंख्याकाभि: प्रजापतिमष्टोत्तरशततिलाहुतिभि: शेषेणेत्यादिआज्यभागांते अष्टोत्तरशताहुतिपर्याप्तंसमिदाज्यचर्वात्मकंद्रव्यत्रयमिंद्रायनमम तावत्संख्याहुतिपर्याप्तास्तिला: प्रजापतयेनमम इतित्यागोत्तरंवाग्यत:सर्त्विगाचार्योद्रव्यत्रयेणोक्तसंख्यंहोमंकुर्यात् ॥ एतध्दोमांते इंद्रायेंदोकश्यपइंद्रोगायत्री ॥ यतइंद्रभर्गइंद्रोबृहती जपेविनि० ॥ इतिमंत्रद्वजपांतेसमस्तव्याहृतिभि:तिलानष्टोत्तरशतंजुहुयात् ॥ आज्यतिलचरुशेषै:स्विष्टकृतंहुत्वाप्रायश्चित्तहोमांतंकुर्यात् ॥ ततोबलिदानंलोकपालादिभ्योंतेइंद्रायक्षेत्रपालायच तत:पूर्णाहुति: प्रणीताविमोक: संस्थाजपश्चपरिस्तरणविसर्जनादिपर्युक्षणांतं ॥ ततोभार्याशिशुसहितंयजमानमासनेसमुपवेश्याऽभिषेक: ॥ नहितेक्षत्रमितिदशर्चस्यसूक्तस्यशुन:शेपोवरुणस्त्रिष्टुप् ॥ अभिषेके० ॥ ॐ नहितेक्षत्रंनसहोन० ऋच: १० ॥ॐ यच्चिध्दितेविशोयथा० ऋच: २१ ॥ इदंवेरित्येकादशर्चस्यसूक्तस्यगृत्समदोवरुणस्त्रिष्टुप् अभिषेकेविनियोग: ॥ ॐ इदंकवेरादित्यस्यस्वराजोविश्वानिसांत्यभ्यस्तुमन्हा ॥ अतियोमंद्रोयजथायदेव:सुकीर्तिभिक्षेवरुणस्यभूरे: ॥ तवव्रतेसुभगास:स्यामस्वाध्योवरुणतुष्टुवांस: ॥ उपायनउषसांगोमतीनामग्नयोनजरमाणाअनुध्यन् ॥ तवस्यामपुरुवीरस्यशर्मन्नुरुशंसस्यवरुणप्रणेत: ॥ यूयंन:पुत्राअदितेवयोनपप्तूरघुयापरिज्मन् ॥ विमच्छ्रथायरशनामिवागऋध्यामतेवरुणखामृतस्य ॥मातंतुश्छेदिवयतोधियंमेमामात्राशार्यपस:पुरऋतो: ॥१॥अपोसुम्यक्षवरुणभियसंमत्सम्राळृतावोनुमागृभाय ॥ दामेववत्साद्विमुमुग्ध्यंहोनहित्वदारेनिमिषश्चेनशे ॥ मानोवधैर्वरुणयेतइष्टावेन:कृण्वंतमसुरभ्रीणंति ॥ माज्योतिष:प्रवसथानिगन्मविषूमर्ध:शिश्रथोजीवसेन: ॥नम:पुरातेवरुणोतनूनमुतापरंतुविजातब्रवाम ॥ त्वेहिकंपर्वतेनश्रितान्यप्रच्युतानिदूळभव्रतानि ॥ परऋणासावीरधमत्कृतानिमाहंराजन्नन्यकृतेनभोजं ॥ अव्युष्टाइन्नुभूयसीरुषास आनोजीवान्वरुणतासुशाधि ॥ योमेराजन्युज्योवासखावास्वप्नेभयंभीरवेमह्यमाह ॥मारायोराजन्सुयमादवस्थांबृहद्वदेमविदथेसुवीरा: ॥२॥ ऋच: ११ ॥समुद्रज्येष्ठाइतिचतसृणांवसिष्ठ आपस्त्रिष्टुप् अभिषेके० ॥ ॐ समुद्रज्येष्ठा:सलिलस्य० ऋच० ॥४॥इमंमेवरुणेत्यस्याजीगर्ति:शुन:शेपोवरुणोगायत्री अभिषेके० ॥ ॐ इमंमेवरुण० ऋक् ॥ ध्यौ:शांतासादित्येनशांतेति० पृथिवीशांतिरंतरिक्षशांतिरिति० तयाहशांत्येतियाजुषमंत्रैश्चत्रिभिरभिषिक्तोयजमान:पत्न्यासहशुक्लवस्त्रचंदनकुसुमानिधृत्वारुपंरुपमितिचित्रंदेवानामितितच्चक्षुरितिमंत्रैरवलोकितमाज्यंसदक्षिणंब्राह्मणायदत्त्वा इंद्रपुरोभागेस्थित्वागंधादिपंचोपचारै:संपूज्य आचमनतांबूलेनिवेध्य गंधपुष्पफलयुक्तमर्घ्यंनिवेदयेत् ॥ मंत्र: ॥ नमस्तेसुरनाथायनमस्तुभ्यंशचीपते ॥ गृहाणार्घ्यंमयादत्तंगंडदोषप्रशांतयेइति ॥ तत आचार्यायसुशीलांपयस्विनींरक्तवर्णांसवत्सांहेमश्रृंगादिसर्वालंकारभूषितांगांगोदानविधिनादध्यात् ॥ मंत्रेविशेष: ॥ यक्षगंधर्वसिध्दैश्चपूजितोसिशचीपते ॥ दानेनानेनदेवेशगंडदोषंप्रशामयेति ॥ अस्यागोर्दक्षिणात्वान्नदक्षिणांतरम् ॥ ततोऽष्टोत्तरशतब्राह्मणान् भोजयेत् ॥ तेभ्योयथाशक्तिदक्षिणांदत्त्वाप्रणिपत्यक्षमध्वंममापराधानितिक्षमाप्येंद्रंप्रार्थयेत् ॥ अज्ञानादथवाज्ञाद्वैकल्याद्वाधनस्यच ॥ यन्न्यूनमतिरिक्तंवातत्सर्वंक्षंतुमर्हसिइति ॥ ततोविसर्जनं ॥ आचार्यहस्तेसोपस्करांप्रतिमांदत्त्वाऽग्निंसंपूज्यविभूतिंधृत्वागच्छगच्छेतितंविसृज्यज्येष्ठाशांतिसुकृतंयन्मयलब्धंतेनदेवेंद्रनामेश्वर:प्रीयतामिति ॥ इतिज्येष्ठाशांतिविधि: ॥ N/A References : N/A Last Updated : August 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP