संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथषष्ठीपूजा

संस्कारप्रकरणम् - अथषष्ठीपूजा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पंचमेषष्ठेचदिनेषष्ठएववापूर्वरात्रेपित्रादिराचम्यदेशकालौस्मृत्वा ममास्यशिशो:
समातृकस्य आयुरायोग्यावाप्तिद्वारासकलारिष्टशांतये श्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य
जन्मदानांषष्ठीदेव्याजीवंतिकाया:शस्त्रगर्भायाश्चयथामिलितोपचारै:पूजनमहंकरिष्ये ॥
तथाचशांतिसूक्तजपाख्येकर्मणिआचार्यवरणंनिर्विघ्नतासिध्द्यैगणपतिपूजनंचक० ॥
तानिकृत्वाक्षतपुंजेषुविघ्नेशंजन्मदा:षष्ठीदेवींजीवंतिकांशस्त्रगर्भांचावाह्यषोडशोपचारै:पृथक्
तंत्रेणवापूजयेत् ॥ षष्ठ्यावाहनं ॥ आयाहिवरदेदेविमहाषष्ठीतिविश्रुते ॥
शक्तिभि:सहबालंमेरक्षजागरवासरे ॥ इति ॥ शक्तिस्त्वंसर्वदेवानांलोकानांहितकारिणी ॥
मातर्बालमिमंरक्षमहाषष्ठिनमोस्तुते ॥ इत्युपचारार्पणं ॥ (केचिदत्रशिवांसंभूतिंप्रीतिंसंततिं
अनुसूयांक्षमांचपूजयेदित्याहु:) ॥
आचार्योन्येचशांतिसूक्तानिपठेयु: ॥ प्रार्थना ॥ लंबोदरमहाभागसर्वोपद्रवनाशन ॥ त्वत्प्र
सादादविघ्नेशचिरंजीवतुबालक: ॥ जननीसर्वभूतानांबालानांचविशेषत: ॥ नारायणीस्वरुपे
णबालंमेरक्षसर्वदा ॥ भूतप्रेतपिशाचेभ्योडाकिनीयोगीनीषुच ॥ मातेवरक्षबालंमेश्वापदेपन्न
गेषुच ॥ गौरीपुत्रोयथास्कंद:शिशुत्वेरक्षित:पुरा ॥ तथाममाप्ययंबाल:षष्ठिकेरक्षतेनम: ॥
ततोविप्रेभ्यश्चतांबूलखाध्यदक्षिणादिदध्यात् ॥ जननाशौचमध्येप्रथमपंचमषष्ठदशमदिने
षुदानेप्रतिग्रहेचनदोष: ॥ अन्नंतुनिषिध्दं ॥ अस्यांरात्रौजागरणंकुर्यु: ॥ इतिषष्ठीपूजा ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP