संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथकन्यादानम्

संस्कारप्रकरणम् - अथकन्यादानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत: ॐ अनृक्षराऋजव:संतुपंथायेभि:सखायोयंतिनोवरेयं ॥ समर्यमासंभगोनोनि
नीयात्संजास्पत्यंसुयममस्तुदेवा: ॥
इतिवरंप्राड्मुखंवधूंचप्रत्यड्मुखींकृत्वातद्दक्षिणत:सपत्नीकउदड्मुखउपविश्यआचम्यप्राणानायम्यदेशकालौसंकीर्त्यअमुकप्रवरान्वितोमुकगोत्रोमुकशर्माहंममसमस्तपितृणांनिरतिशयसानंदब्रह्मलोकावाप्त्यादिकन्यादानकल्पोक्तफलावाप्तये अनेनवरेणास्यांकन्यायामुत्पाद
यिष्यमाणसंतत्याद्वादशावरान्द्वादशापरांश्चपुरुषान्पवित्रीकर्तुमात्मनश्चश्रीलक्ष्मीनारायण
प्रीतयेब्राह्मविवाहविधिनाकन्यादानमहंकरिष्येइतिकुशाक्षतयुतजलेनसंकल्प्य ॥
तत्र:सपत्नीकउत्थायोदड्मुखएवकन्यांसंप्रगृह्य ॥ कन्यांकनकसंपन्नांकनकाभरणैर्युतां ॥
दास्यामिष्णवेतुभ्यंब्रह्मलोकजिगीषया ॥ विश्वंभर:सर्वभूत:साक्षिण्य:सर्वदेवता: ॥
इमांकन्यांप्रदास्यामिपितृणांतरणायच ॥ इत्युक्त्वास्वदक्षिणस्थभार्यादत्तपूर्वकल्पितजलधा
रामविच्छिन्नांनवकांस्योपरिधृतकन्यांजल्युपरिस्थवरांजलिदक्षिणहस्तेक्षिपन्वदेत् ॥
कन्यातारयतु ॥ पुण्यंवर्धतां ॥ शिवाआप:संतु ॥ सौमनस्यमस्तु ॥ अक्षतंचारिष्टंचास्तु ॥ दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्तु ॥ यच्छ्रेयस्तदस्तु ॥ यत्पातंतत्प्रतिहतमस्तु ॥ पुण्याहंभवंतोब्रुवंतु ॥ स्वस्तिभवंतोब्रुवंतु ॥ ऋध्दिंभवंतोब्रुवंतु ॥ श्रीरस्त्वितिभवंतोब्रुवं
तु ॥ अमुकप्रवरान्वितामुकगोत्रोमुकशर्माहंममसम्स्तेत्यादिप्रीतयेइत्यंतमुक्त्वा ॥
अमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणेश्रीधररुपिणेकन्यार्थिनेवराय ॥
अमुकप्रवरोपेताममुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकशर्मणोममपुत्रीममुकनाम्नींक
न्यां श्रीरुपिणींप्रजापतिदैवत्यांप्रजोत्पादनार्थंतुभ्यमहंसंप्रददेनमम ॥
कन्यांप्रतिगृह्णातुभवान्इतिवरहस्तेसकुशाक्षतजलंक्षिपन्प्रजापति:प्रीयतामितिमनसास्मरेत् ॥ एवंपुन:कन्यातारयत्वित्यादिद्वि: ॥ ततोवर: ॐ स्वस्तीत्युक्त्वाकन्यायादक्षिणांसम
भिमृश्य ॥ ॐ कइदंकस्माअदात्काम:कामायादात्कामोदाताकाम:प्रतिगृहीताकामंसमुद्रमा
विशकामेनत्वाप्रतिगृह्णामिकामैतत्तेवृष्टिरसिध्यौस्त्वाददातुपृथिवीप्रतिगृह्णातु ॥ धर्मप्रजा
सिध्यर्थंकन्यांप्रतिगृह्णामीतिवदेत् ॥ ततोदाता ॥ गौरींकन्यामिमांविप्रयथाशक्तिविभूषि
तां ॥ गोत्रायशर्मणेतुभ्यंदत्तांविप्रसमाश्रय ॥ कन्येममाग्रतोभूया:कन्येमेदेविपार्श्वयो: ॥
कन्येमेपृष्ठतोभूयास्तवद्दानान्मोक्षमाप्नुयाम् ॥ ममवंशकुलेजातापालितावत्सराष्टकम् ॥ तुभ्यंविप्रमयादत्तापुत्रपौत्रप्रवर्धिनी ॥ (न्य़ूनवयस्कायांपालितासप्तवर्षकमित्याध्यूह:का
र्य:) धर्मेचार्थेचकामेचनातिचरितव्यात्वयेयम् ॥ वर:नातिचरामीतिवदेत् ॥
ततोदाताउपविश्यदेशकालौस्मृत्वाकृतस्यकन्यादानप्रतिष्ठांसंसिध्यर्थमिदंसुवर्णमग्निदैवतं
दक्षिणात्वेनतुभ्यमहंसंप्रददे इतिसजलंसुवर्णंवरहस्तेदत्वानममेतिवदेत् ॥
वर: ॐ स्वस्ति ॥ ततोदाताजलभाजनभोजनगोमहिष्यश्वगजदासीदासभूवाहनालंकारादि
यथाविभवंसंकल्पपूर्वकंवरायदध्यात् ॥
अथवर: ॥ यत्कक्षीवांसंवननंविश्वेदेवाअनुष्टुप् ॥ वधूकुक्ष्यभिमर्शनेविनियोग: ॥
ॐ यत्कक्षीवांसंवननंपुत्रोअंगिरसाभवेत् ॥ तेननोध्यविश्वेदेवा:सप्रियांसमजीजनन् ॥
इत्यनेनकन्यायादक्षिणकुक्षिमभिमृशेत् ॥ अथपुरोधा: पूर्वाभिमंत्रितकलशजलंकास्यंपात्रेआ
सिच्य ॥ अनाधृष्टमित्यस्यवामदेवआपोबृहती ॥ उदकाभिमंत्रेणविनियोग: ॥
ॐ अनाधृष्टमस्यनाधृष्यंदेवानामोजोअभिशस्तिपा: ॥ अनभिशस्त्यंचसासत्यमुपगेषांस्वि
तेमाधा: ॥ इत्युदकमभिमंत्र्यसहिरण्यपवित्रयासकुशदूर्वापल्लवयौदुंबर्यार्द्रयाशाखयावधूवरा
भिषिंचेत् ॥ तत्रमंत्रा: ॥ आन:प्रजामितिचतसृणांसूर्यासावित्रीसूर्यासावित्री आध्याजगती
द्वितीयात्रिष्टुप् अंत्येद्वेअनुष्टुभौ ॥ अभिषेकेविनियोग: ॥ ॐ आन:प्रजांनयतुप्रजापति
राजरसायसमनक्त्वर्यमा ॥ अदुर्मंगली:पतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदे ॥ अघोर
चक्षुरपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतु
ष्पदे ॥ इमांत्वमिंद्रमीढ्व:सुपुत्रांसुभगांकृणु ॥ दशास्यांपुत्रानाधेहिपतिमेकादशंकृधि ॥
सम्राज्ञीश्वशुरेभवसम्राज्ञीश्वश्र्वांभव ॥ ननांदरिसम्राज्ञीभवसम्राज्ञीअधिदेवृषु ॥ समुद्रज्ये
ष्ठाइतिचतसॄणांवसिष्ठ आपस्त्रिष्टुप् ॥ अभिषेकेविनियोग: ॥ ॐ समुद्रज्येष्ठा: ऋ० ४
॥ आपोहिष्ठेतितिसृणामांबरीष:सिंधुद्वीप आपोगायत्री ॥ अभिषेकेविनियोग: ॥
ॐ आपोहिष्ठामयो० ऋ० ३ ॥
ॐ देवस्यत्वासवितु० ॥ भूर्भव:स्व:अमृताभिषेकोस्तु ॥ ततोदुग्धाक्तेनद्विगुणशुक्लसूत्रे
णदंतपतीकंठदेशेकटिदेशेचैशानीमारभ्यपंचवारंचतुर्वारंवाप्रदक्षिणंवेष्टयेत्पुरोधाएतैर्मंत्रै: ॥
ॐ परित्वागिर्वणोगिरइमाभवंतुविश्वत: ॥ वृध्दायुमनुवृध्दयोजुष्टाभवंतुजुष्टय: ॥ तान्वो
महोमरुतएवयान्वोविष्णोरेषस्यप्रभृथेवहामहे ॥ हिरण्यवर्णान्ककुहान्यतस्त्रुचोब्रह्मण्यंत:
शंस्यंराधईमहे ॥ दशावनिभ्योदशकक्ष्येभ्योदशयोक्क्रेभ्योदशयोजनेभ्य: ॥ दशाभीशुभ्योअ
र्चताजरेभ्योदशधुरोदशयुक्तावहभ्ध्य: ॥ तेअद्रयोदशयंत्रासआवस्तेषामाधानंपर्येतिहर्यतं ॥
तऊसुतस्यसोम्यस्यांधसोंशो:पीयूषंप्रथमस्यभेजिरे ॥ तेसोमादोहरीइंद्रस्थानिंसतेंशुंदहंतो
अध्यासतेगवि ॥ तेभिर्दुग्धंपपिवान्त्सोम्यंमध्विंद्रोवर्धतेप्रथतेवृषायते ॥ वृषावोअंशुर्नकिला
रिषाथनेळावंत:सदमित्स्थनाशिता: ॥ रैवत्येवमहसाचारव:स्थनयस्यग्रावाणोअजुषमध्वरं
॥ तत:कंठदेशस्थंसूत्रमधोनिष्कास्यकुंकुमाक्तमूर्णायुक्तंचकृत्वातेनहरिद्राखंडंबध्वातद्वधू
वामहस्तप्रकोष्ठेवरोबध्नीयात् ॥ ॐ नीललोहितंभवतिकृत्यासक्तिर्व्यज्यते ॥
एधंतेअस्याज्ञातय:पतिर्बंधेषुबध्यते ॥ इतिमंत्रेण ॥ तत: कटिदेशस्थंसूत्रमुपरिनिष्कास्य
तादृशंकृत्वावरदक्षिणहस्तप्रकोष्ठेवधूर्बध्नीयात्तेनैवमंत्रेण ॥ तत:तैजसपात्रेगव्यक्षीरेघृतमा
सिच्यपात्रांतेनार्द्रशुक्लतंडुलानादायवर:प्रक्षालितपाणि:प्रक्षालितवध्वंजलौक्षीरघृतंहस्तद्वयां
गुलिभिर्द्विरुपस्तीर्यद्विवारंतंडुलानोप्यतेनतथैवद्विरभिधारयेत् ॥ ततोवरांजलावप्येवमेव
दात्रान्येनवापूरितेदातातदंजल्यो:सुवर्णनिधायवरांजलिंकन्याजल्युपरिनिधाय ॥ कन्यातार
यतु ॥ दक्षिणा:पांतु ॥ बहुदेयंचास्तु ॥ पुण्यंवर्धतां ॥ शांति:पुष्टिस्तुष्टिश्चास्तु ॥ तिथिकरणमुहूर्तनक्षत्रसंपदस्त्वित्युच्चार्यकन्यामुध्दृत्यतयांजलिस्थानक्षतान् भगोमेकाम:
समृध्द्यतामितिवरमूर्धन्यारोपयेत् ॥ ततोवर:स्वजलिस्थान् यज्ञोमेकाम:समृध्द्यतामिति
कन्याशिरसिक्षिपेत् ॥ एवंपुनर्द्वि: ॥ तत्रद्वितीयेश्रियोमेकामइतिवधू: ॥ धर्मोमेकाम इतिवर: ॥ तृतीयेप्रजामेकामइतिवधू: ॥ यशोमेकामइतिवर: ॥ तत:कन्यावरांजलौद्विरुप
स्तीर्यद्विस्तंडुलानोप्यद्विरभिघारयेत् ॥
ततोदात्रान्येनवापूर्ववत्कन्यांजलावापूरितेदातापूर्ववध्दिरण्यंनिधायकन्यांजलिंवरांजलौनिधायपूर्वत्कन्यातारयत्वित्यादिववाक्यषट्कंवदेत् ॥ ततोवर:यज्ञोमेकाम:समृध्द्यतां ॥
कन्यातुभगोमेकाम:इति ॥ एवंपुनर्द्वि: ॥ तत्रद्वितीयेधर्मोमेइतिवर: ॥ श्रियोमेइतिवधू: ॥ तृतीयेयशोमेइतिवर: ॥ प्रजामेइतिवधू: ॥ अथवरोवध्वंजलिंपूर्ववदापूर्यस्वांजलिमन्येन
पूरयित्वोभौवधूपूर्वकंतूष्णीमक्षतानारोपयेतां ॥ अथवर:स्वशिर:स्थपुष्पमेकंक्षीरेणाप्लाव्य
तेनकन्याललाटेतिलकंकुर्यात् ॥ सापिस्वशिर:पुष्पेणतथैववरललाटेतिलकंकृत्वापुष्पमालां
वरकंठेनिदध्यात् वरोपिकन्याकंठे ॥ ततोवरपक्षसुवासिनी वधूवरौप्राड्मुखावुपवेश्याचारं
प्रातंअष्टपुत्रीसंज्ञकंवस्त्रद्वयंसकंचुकंकृष्णमणिसूत्रयुतंवध्वैसमर्प्य तामेकंपरिधाप्यापरमुत्त
रीयंकुर्यात् ॥ ततोवरस्तत्सूत्रं ॥ मांगल्यतंतुनानेनभर्तृजीवनहेतुना ॥ कंठेबध्नामिसुभगे
साजीवशरद:शतं ॥ इतिमंत्रेणेष्टदेवतांस्मरन्वधूकंठेबध्नीयात् भूषणैश्चायुष्यंवर्चस्यमिति
सूक्तंपठन् भूषयेत् ॥ (ततोविवाहव्रतनिर्विघ्नतार्थंगणानांत्वाआतूनइंद्रेतिमंत्राहरिद्राखंडपू
गीफललड्डुकादिनिधायषोडशोपचारै: संपूज्यपुन:पूर्वोक्तमंत्राभ्यांदंपत्योरुत्तरीयांतयो:पृथग्ब
ध्नीयात् ॥ प्र० र०) तत:पुरोधानीललोहितमितिमंत्रेणतयोरुत्तरीयांतौमिथोबध्नीयात् ॥
तत:सभार्योदातावृध्दा:पुरंध्र्योज्ञातिबांधवाश्चक्रमादाशीर्भिरार्द्राक्षतारोपणंकुर्यु: ॥
(अथकौस्तुभेप्रयोगरत्नेचमहालक्ष्म्यादिपूजनपूर्वंवायनदानाध्युक्तमस्ति ॥ ततोवधूरौपर
स्परहस्तधारणेनोक्तलक्षणांवेदिंमंत्रघोषेणगच्छेतां) ॥
इतिकन्यादानप्रयोग: ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP