संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथग्रहणजननशांति:

संस्कारप्रकरणम् - अथग्रहणजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ सूर्यग्रहणेप्रसूतौतत्कालस्थितनक्षत्रस्ययाधिष्ठात्र्यग्न्यादिदेवततस्या:
सूर्यस्यचयथाशक्तिहेम्नाप्रतिमेविधायराहो:सीसेननागाकृतिंकृत्वाऽऽशौचांतेगोमुखप्रसवंकृ
त्वा ममभार्याया:सूर्यग्रहणकालीनप्रसूतिसूचितसर्वारिष्टपरिहाराद्वाराश्रीपरमेश्वरप्रीत्यर्थं
सग्रहमखांशांतिंकरिष्येइतिसंकल्प्य गणेशपूजनाध्याचार्यावरणपूजांतंकुर्यात् ॥
चंद्रग्रहेतुसूर्यस्थानेराजतंचंद्रबिंबुंकुर्यात् ॥ अन्यदृवयंपूर्ववत् ॥ संकल्पेसूर्यस्थानेचंद्रपदप्रयो
ग: ॥ तताआचार्योयदत्रेत्याध्यंतेशुचिदेशंगोमयेनोपलिप्य तत्रनवंसदशंक्षालितंश्वेतवस्त्रंप्र
सार्यतत्रोक्तदेवतानांरुपत्रयंनिधाय आकृष्णेनांगिरसोहिरण्यस्तूप:सवितात्रिष्टुप् ॥
पूजनेवि० ॥ ॐ आकृष्णेनरज० ॥ मध्येसूर्यंरक्तवर्णैंर्वस्त्रगंधाक्षतपुष्पैर्धूपदीपादिभिश्चपू
जयेत् ॥
तद्दक्षिणतोराहुंकृष्णवर्णैर्गंधादिभिर्धूपादिभिश्चपूजयेत् ॥ स्वर्भानोरित्यस्यात्रि:स्वर्भानुस्त्रि
ष्टुप् राहुपूजनेवि० ॥ ॐ स्वर्भानोरधयदिंद्रमायाअवोदिवोवर्तमानाऽअवाहन् ॥
गुह्लंसूर्यंतमसापव्रतेनतुरीयेणब्रह्मणाविन्ददत्रि: ॥ सूर्यस्योत्तरत: नक्षत्रदेवतामग्निर्न:पातु
कृत्तिकाइतितैत्तिरीयपठिततत्तद्वाक्याष्टकेनपूजयेत् ॥
चंद्रग्रहेतुमध्येचंद्रपूजनम् ॥ आप्यायस्वगोतम:सोमोगायत्री चंद्रपूजनेवि० ॥ ॐ आप्यायस्व० ॥ इतिमंत्रेणश्वेतगंधादिभिर्धूपादिभिश्चेतिविशेष: ॥ अन्यदेवतयो:पूजनंपूर्व
वत् ॥
ततोऽग्निस्थापनंग्रहपूजाकलशस्थानांतंकृत्वाऽन्वाधानंकुर्यात् ॥ चक्षुषीआज्येनेत्यंतेग्रहा
न्वाधानंकृत्वा सवितारंअर्कसमिदाज्यचरुतिलै: प्रत्येकमष्टोत्तरशताहुतिभि: ॥
स्वर्भानुंदूर्वासहिताज्यादीनांतावतीभिराहुतिभि: ॥ नक्षत्रदेवतामग्निंपलाशवृक्षसमित्सहिता
ज्यादीनांतावतीभिराहुतिभि: ॥ शेषेणेत्यादि ॥ चंद्रग्रहेअर्कस्थानेचंद्रस्यार्कसमित्स्थानेपा
लाशसमिधांनिर्देश: ॥ गृहसिध्दान्नस्यपर्यग्निकरणादि ॥ यथान्वाधानंत्याग: ॥ प्रायश्चित्तांतेबलिपूर्णाहुती ॥ संस्थाजपांते पंचगव्यपंचरत्नपंचत्वक् पंचपल्लवैरोषधिकल्कै
श्चमिश्रितलौकिकजलैर्ग्रहकलशोदकैश्चसहितैरभिषेक; ॥
आपोहिष्ठेतितृचस्यसिंधुद्वीपआपोगायत्री अभिषेकेविनियोग: ॥ इमंमेगंगेइत्यस्यसिंधुक्षि
त्प्रैयमेधोनध्योजगती ॥ तत्त्वायामिशुन:शेपोवरूणस्त्रिष्टुप् ॥ अभिषेके० ॥
अभिषेकांते आचार्यसंपूज्यतस्मैप्रतिमात्रयंदक्षिणांचदध्यात् ॥
ततोग्रहाणांपूजनविसर्जनेप्रतिमाप्रतिपादनंब्राह्मणभोजनसंकल्पश्चेति ॥
इतिग्रहणजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP