संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगर्भाधानम्

संस्कारप्रकरणम् - अथगर्भाधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यजमान:आचम्यप्राणानायम्यदेशकालौस्मृत्वा ॥ अस्याममभार्याया:प्रतिगर्भसंस्का
रातिशयद्वारऽस्यांजनिष्यमाणसर्वगर्भाणांबीजगर्भसमुभ्दवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थंगर्भाधानाख्यंकर्मकरिष्ये ॥
तदंगतयादौगणपतिपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकरिष्ये ॥ इतिसंकल्प्य
तानिकृत्वा (नांदीश्राध्देक्रतुदक्षसंज्ञकाविश्वेदेवा: ) ॥
प्राजापत्यहोमंकर्तुंस्थंडिलादिकरिष्ये ॥ स्थंडिलसंस्कारादिमरुतनामाग्निप्रतिष्ठांतंकृत्वा
ग्निंध्यात्वा समिद्वयमादायक्रियमाणेगर्भाधानहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येने
त्यंतमुक्त्वा प्रजापतिंचरुणाविष्णुंषड्रवारमाज्येनप्रजापतिंचाज्येन शेषेणस्विष्टकृतमित्या
दि सध्योयक्ष्यइत्यंतमुक्त्वासमिदृवयमग्रावाधाय परिसमूहनादिपूर्णपात्रनिधानांतंकृत्वा ॥
प्रजापतयेत्वाजुष्टंनिर्वपामि प्रजा० प्रोक्षामीत्याध्याज्यभागांतंकृत्वाऽवदानधर्मेणचरुमवदा
य ॥ ॐ प्रजापतयेस्वाहा ॥ प्रजापतयइदंनमम ॥ विष्णुर्योनिनिमितितिसृणांत्वष्टावि
ष्णुरनुष्टुप् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ विष्णुर्योनिकल्पयतुत्वष्टारुपाणि
पिंशतु ॥ आसिंचतुप्रजापतिर्धातागर्भदधातुतेस्वाहा ॥ विष्णवइदंनमम ॥ ॐ गर्भधेहिसि
नीवालिगर्भधेहिसरस्वति ॥ गर्भतेअश्विनौदेवावाधत्तांपुष्करस्त्रजास्वाहा ॥ विष्णव इदंनमम ॥ ॐ हिरण्ययीअरणीयंनिर्मंथतोअश्विना ॥ तंतेगर्भहवामहेदशमेमासिसूतवेस्वा
हा ॥ विष्णवइदंनमम ॥
नेजमेषेतितिसृणांत्वष्टाविष्णुरनुष्टुप् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ नेजमेष
परापतसुपुत्र:पुनरापत ॥ अस्यैमेपुत्रकामायैगर्भमाधेहिय:पुमान्त्स्वाहा ॥ विष्णवइदंनमम ॥ ॐ विष्णो:श्रेष्ठेनरुपेणास्यांनार्यागवीन्यां ॥ पुमांसंपुत्रानाधेहिदशमेमासिसूतवेस्वाहा ॥
विष्णवइदंनमम ॥
प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ प्रजापते
नत्वदेवान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोअस्तुवयंस्यामपतयो
रयीणांस्वाहा ॥ प्रजापतयइदं० ॥ एवंसप्ताज्याहुतीर्हुत्वा ॥ अपन:शोशुचदघमित्यष्टर्च
स्यसूक्तस्यकुत्सोऽग्निर्गायत्री ॥ पत्न्यामूर्धाभिमर्शनेविनियोग: ॥ ॐ अपन:शोशुचदघम
ग्नेशुशुग्ध्यारयिं ॥ अपन:शोशुचदघं ॥ सुक्षेत्रियासुगातुयावसूयाचयजामहे ॥ अपन:शो० ॥ सन:सिंधुमिवनावयातिपर्षास्वस्तये ॥ अपन:शोशुचदघं ॥ सूक्तांतेप्रागंगुलिनान्यड्मु
ड्खेनहस्तेनपत्न्यामूर्धांनमभिमृश्य ॥ या:फलिनीरित्यस्याथर्वर्णोभिषगोषधयोनुष्टुप् ॥
जपेविनियोग: ॥ ॐ या:फलिनीर्याअफलाअपुष्पायाश्चपुष्पिणी: ॥ बृहस्पतिप्रसूतास्ता
नोमुंचंत्वंहस: ॥ एतांजपित्वा ॥ वधेनदस्युमितिषण्णांवसुश्रुतोग्निस्त्रिष्टुप् ॥ अग्न्युप
स्थानेविनियोग: ॥ ॐ वधेनदस्युंप्रहिचातयस्ववय:कृण्वानस्तन्वे१स्वायै ॥ पिपषिंयत्स
हसस्पुत्रदेवान्त्सोअग्नेपाहिनृतमवाजेअस्मान् ॥ वयंतेअग्नउक्थैर्विधेमवयंहव्यै:पावकभद्र
शोचे ॥ अस्मेरयिंविश्ववारंसमिन्वास्मेविश्वानिद्रविणानिधेहि ॥ अस्माकमग्नेअध्वरंजुष
स्वसह:सूनोत्रिषधस्थहव्यं ॥ वयंदेवेषुसुकृत:स्यामशर्मणानस्त्रिवरुथेनपाहि ॥ विश्वानिनो
दुर्गहाजातवेद:सिंधुंननावादुरितातिपर्षि ॥ अग्नेअत्रिवन्नमसागृणानो३स्माकंबोध्यवितातनू
नां ॥ यस्त्वाहृदाकीरिणामन्यमानोमर्त्यंमर्थ्योजोहवीमि ॥ जातवेदोयशोअस्मासुधेहिप्रजा
भिरग्नेअमृतत्वमश्यां ॥ यस्मैत्वंसुकृतेजातवेद उलोकग्नेकृणव:स्योनं ॥ ॐ अग्निस्तुवि
श्रवस्तमंतुविब्रह्माणमुत्तमम् ॥ अतूर्तश्रावयत्पतिंपुत्रंददातिदाशुषे ॥ अग्निर्ददातिसत्पतिं
सासाहयोयुधानृभि: ॥ अग्निरत्यंघुष्यदंजेतारमपराजितं ॥ इत्यष्टाभिरग्निमुपस्थाय ॥
उदीर्ष्वेतिद्वयो:सूर्यासावित्रीसूर्यासावित्रीआध्यात्रिष्टुबंत्यानुष्टुप् ॥ भार्यादक्षिणनासापुटेश्व
गंधाया (दूर्वायावा) रससेचनेविनियोग: ॥ ॐ उदीर्ष्वात:पतिवतीह्ये१षाविश्वावसुंनमसा
गीर्भिरीळे ॥ अन्यामिच्छपितृषदंव्यक्तांसतेभागोजनुषातस्यविध्दि ॥ उदीर्ष्वातोविश्वाव
सोनमसेळामहेत्वा ॥ अन्यामिच्छप्रफर्व्यं१संजायांपत्यासृजस्वाहा ॥ इतिवामभागोपविष्टा
याभार्यायादक्षिणनासाबिलेश्वगंधादिरसंसिक्त्वातद्रसेउदरंगतेतामाचामय्योपेयात् ॥ तत:
स्विष्टकृदादिहोमशेषंसमाप्य ॥ सूर्योनोदिवस्पात्वितिपंचर्चस्यसूक्तस्यचक्षु:सूर्योगायत्री ॥
सूर्योपस्थानेविनियोग: ॥ ॐ सूर्योनोद्वस्पातु० ॥ ऋ० ५ ॥
इदानींशिष्टानस्यंदत्वैवस्विष्टकृदादिहोमशेषंसमापयंति ॥ ॥ (ततोरात्रौविहित:समंत्रकोवि
धिरग्रेलिखितस्तन्मंत्रान्केवलमत्रपठंतिशिष्टा:) ॥
उपगमनेचायंक्रम: ॥ ॐ गंधर्वस्यविश्वावसोर्मुखमसि इतिमंत्रेणहोमोक्तऋष्यादिभिर्विष्णु
र्योनिमितितिसृभिर्नेजमेषेतितिसृभिस्तिसृभिरंगुलीभिर्योनिमभिमृश्य ॥ तांपूषग्नित्यस्यसू
र्यासावित्रीसूर्यासावित्रीत्रिष्टुप् ॥ जपेवि० ॥ ॐ तांपूषंच्छिवतमामेरयस्वयस्यांबीजंमनुष्या
३वपंति ॥ यानऊरुउशतीविश्रयातेयस्यामुशंत:प्रहरामशेपं ॥ योगर्भमित्यस्यवसिष्ठ:पर्ज
न्योगायत्री ॥ जपेवि० ॥
ॐ योगर्भमोषधीनांगवांकृणोत्यर्वतां ॥ पर्जन्य:पुरुषीणां ॥ अहंगर्भंप्रजावान्प्राजापत्योभर्ग
इंद्रोवात्रिष्टुप् ॥ जपेविनि० ॥
ॐ अहंगर्भमदधामोषधीष्वहंविश्वेषुभुवनेष्वंत: ॥ अहंप्रजाअजनयंपृथिव्यामहंजनिभ्योअप
रीषुपुत्रान् ॥ इतित्रीन्मंत्रान् जपित्वासकृदुपगच्छेत् ॥ तत:प्राणेतेरेतोदधाम्यसावित्यनुप्रा
ण्य ॥ यथाभूमिरग्निगर्भायथाध्यौरिंद्रेणगर्भिणी ॥ वायुर्यथादिशांगर्भएवंतेगर्भंदधाम्यसा
वितिस्त्रीहृदयमभिमृश्याचामेत् ॥ मंत्रद्वयेप्यसावित्यस्यस्थानेप्रथमैकवचानांतंस्वनामव
देत् ॥) अस्मिन्कर्मणिशतंदशब्राह्मणाभोज्या: ॥ ॥ इतिगर्भाधानप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP