संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनक्षत्रगंडांतशांति:

संस्कारप्रकरणम् - अथनक्षत्रगंडांतशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ षण्मासोत्तरंद्वादशेवाऽहनिप्रथमगोप्रसवंकृत्वा देशकालौसंकीर्त्यममाऽस्यशिशो:रेव
त्याश्विनीसंध्यात्मकगंडांतजननसूचितसर्वारिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थंनक्षत्रगंडां
तशांतिंकरिष्येइतिसंकल्प्य ॥
गणेशपूजनादियजुर्वेदविद्दैवज्ञाचार्यत्विंग्वरणांतंकुर्यात् ॥ ततस्तांश्चदनशुक्लमाल्यै:क्षौम
शुक्लवासोभ्यांपूजयेत् ॥
ततआचार्योनिर्मितस्यापिनिमित्तानुसारिपरिमाणकांस्यपात्रस्यपुनर्निर्माणमाप्यायस्वेतिमंत्रेणकुर्याच्चंद्रप्रतिमाग्न्युत्तारणंच ॥
ततोयदत्रेतिसर्षपविकिरणादिनाभूसंस्कारंकृत्वाउपलिप्तेदेशेकास्यपात्रेपायसंपयोवानिक्षिप्य
तत्रनवनीतपूर्णशंखंनिधायतत्रराजतंचंद्रबिंबंस्थापयित्वा सोमोयमितिध्यानपूर्वकंसमाहितचे
ताआप्यायस्वेतिमंत्रेणावाहनादिषोडशोपचारैस्तत्रचंद्रपूजनंकुर्यात् ॥
तत्रनवंश्वेतंसदशंवस्त्रद्वयंसमर्पणीयंपुष्पाणिश्वेतानिसहस्त्रमर्पणीयानि मौक्तिकंदक्षिणात
दसंभवेइष्टमन्यत् ॥
पूजांतेतमेवमंत्रंसविश्वासंचंद्रंध्यायन् सहस्त्रंसप्रणवमृष्यादिस्मरणपूर्वकंपजेत् ॥
तदुत्तरतस्ताम्रकलशंमहीध्यौरित्यादिविधिनास्थापयित्वा तत्ररजतप्रतिमायांबृहस्पतिमंत्रेण
वागीश्वरंसंपूज्यतदुत्तरत:क्रमेणतेनैवविधिनानिहितकुंभचतुष्टये अश्वत्थेवोनिषदनमित्याम्र
पल्लवप्रक्षेपांतंकृत्वाचतुर्षुक्रमेणद्रवीभूतानिकुंकुमचंदनकुष्ठगोरोचनानिसिंचेत् ॥
तेषुवरुणंपूजयेत् ॥ तत:पश्चिमदेशेस्थंडिलाध्यग्निप्रतिष्ठापनांतंकृत्वा स्थापितकलशोत्तर
भागेग्रहावाहनादिवरुणपूजांतंकृत्वाऽन्वाधानादिसग्रहमखंपूर्णाहुत्यंतंकुर्यात् ॥
अभिषेककालेवारुणकलशचतुष्टयस्थोदकेनदिवागंडांतजातंबालंपित्रासहरात्रिजातंमात्रासहसंध्ययोर्जातमुभाभ्यांसहाभिषिंचेत् ॥
सहस्त्राक्षेणेतिमंत्रस्ययक्ष्मनाशन:प्राजापत्यइंद्रस्त्रिष्टुप् अभिषेकेविनियोग: ॥
ॐ सहस्त्राक्षेणं० ऋक् १ ॥
तत:सर्वकलशोदकै: समुद्रज्येष्ठाइत्यादिभि: सुरास्त्वामित्यादिभिर्मंत्रैश्चाभिषेकांते सुस्ना
त:सपत्नीक:कर्ताधृतश्वेतचंदनादिर्विभूतिधारणंकृत्वा आचार्यायशंखदानंकुर्यात् ॥
स्वस्त्त्यस्तुइमंसचंद्रंशंखंसवस्त्रयुगंसमौक्तिकंनवनीताध्युपस्करसहितंगंडदोषापनुत्तये दैवज्ञाययजुर्वेदविदेतुभ्यमहंसंप्रददइति ॥ तत्सांगतासिध्यर्थंसहिरण्यांधेनुंदध्यात् ॥
ततोवागीश्वरंताम्रपात्रसहितंतुभ्यंगंडदोषशांत्यर्थंसंप्रददइतिबृहस्पतिप्रतिमानंतदंगत्वेनयथा
शक्तिदक्षिणादानंच ॥
तत:स्थापितेतरदेवतानांउत्तरपूजापूर्वकंविसर्जनमाचार्यहस्तेप्रतिपादनंच ॥ तत:सहस्त्राक्षेणे
तिमंत्रस्यायुर्वध्यर्थंयथाशक्तिजपंदशावरब्राह्मणभोजनंचकुर्यात् ॥
इतिनक्षत्रगंडांतशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP