संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाग्रयणहोम:

संस्कारप्रकरणम् - अथाग्रयणहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ शरदिपौर्णमास्याममावास्यायांवपर्वणितदलाभेकृत्तिकादिविशाखांतदेवनक्षत्रेष्वन्यत
मेचंद्रानुकूल्येआग्रयणंकार्यं ॥ प्रातरौपासनहोमंकृत्वासंकल्पपूर्वकमाभ्युदयिकंश्राध्दंविधाय
पवित्रेधृत्वाप्राणानायम्य देशकालौसंकीर्त्यममरोगजरानिवृत्तिश्रीयशोन्नप्राप्तिद्वाराश्रीपर०
र्थनित्यविधिरुपमाग्रयणंकरिष्येइतिसंकल्प्यास्मिन्नाग्रयणाख्येकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्येइत्यादिचक्षुषीआज्येनेत्यंतमुक्त्वात्रप्रधानं इंद्राग्नीविश्वान्देवान् ध्यावापृथि
व्यौचरुद्रव्येणशेषेणस्विष्टकृतमित्यादिसध्योयक्ष्यइत्यंतमुक्त्वासमिद्दृयंत्रयंवाग्नावाधायपरिसमूहनादिपूर्णपात्रनिधानांतंप्राक्तनंतंत्रंकृत्वाप्रत्यगग्ने:पवित्रवतिशूर्पेतूष्णींचतुरश्चतुरोमुष्टीन्निरुप्यतत्संख्ययातथैवप्रोक्ष्यावघातादिचरुश्रपणांतंकृत्वाज्यसंस्काराध्याज्यभागांतअंकृत्वावदानधर्मेणचरुमवदाय ॥ ॐ सजूऋतुभि: सजूर्विधाभि:सजूरिंद्राग्निभ्यांस्वाहा ॥
इंद्राग्निभ्यामिदंनममेतित्यक्त्वापुनरवदाय ॥ ॐ सजूऋतुभि:सजूर्विधाभि:सजूर्विश्वेभ्यो
देवेभ्य:स्वा० विश्वे० ॥ पुनरवदाय ॐ सजूऋतुभि:सजूर्वि० र्ध्यावापृथिवीभ्यांस्वा० ध्यावा० ॥ एवंतिस्त्रआहुतीर्हुत्वास्विष्टकृध्दुत्वावशिष्टंपात्रांतरेकृत्वातत्पात्रं सव्यपाणौधृ
त्वा ॥ ॐ प्रजापतयेत्वाग्रहंगृह्णामिमह्यंश्रियैमह्यंयशसेमह्यमन्नाध्यायइतिमंत्रेणदक्षि
णेनपाणिनाअभिमृश्य ॥ ॐ भद्रान्न:श्रेय:समनैष्टदेवास्त्वयावशेनसमशीमहित्वा ॥ सनो
मयोभू:पितोआविशेहशंनोभवद्विपदेशंचतुष्पदेइतिमंत्रेणप्राश्यद्विराचम्यतत्रैवोपविष्ट: ॥
ॐ अमोसिप्राणतदृतंब्रवीम्यमोसिसर्वानसिप्रविष्ट: ॥ समेजरांरोगमपनुध्यशरीरादमामए
धिमामृथामइंद्र ॥ इतिमंत्रेणात्मनोनाभिमालभेत ॥ तत:पत्नीमध्यमहवि:शेषममंत्रकंप्रा
श्नीयात् ॥ ततोयजमानइध्मसन्नहनहोमादिपरिषेचनांतमंकर्मशेषंसमाप्यधृतपवित्रग्रंथिंवि
स्त्रस्यशुचिदेशेक्षिपेत् ॥ इदमाग्रयणंयदाश्वयुज्यांपौर्णमास्यांक्रियतेतदैककालत्वादाश्वयुजी
कर्मणासमानतंत्रताभवति ॥ तत्राश्वयुजीकर्मप्रधानहोमंकृत्वाऽऽग्रयणप्रधानहोम: ॥
व्दयोश्चर्वोरेकंस्विष्टकृदित्यादिज्ञेयम् ॥ यवाग्रयणंकार्य ॥ श्यामाकैस्तुप्रस्तरंकुर्यान्नाग्रय
णं ॥ शास्त्रांतरेदृष्टत्वात् ॥ इदंचाग्रयणमकृत्वानवान्नभक्षणस्यनिषिध्दत्वात् दुर्भिक्षेपुरा
तनधान्यालाभेनवधान्यभक्षणाधिकारामार्थंमलमासेऽपिकार्यं ॥ अनापदितुशुध्दएव ॥
आग्रयणाकरणेप्रायश्चित्तंकारिकायां ॥ अकृताग्रयणोश्नीयान्नवान्नंयदिवैतत: ॥ वैश्वानरा
यकर्तव्यश्चरु:पूर्णाहुतिस्तुवा ॥ इतिप्रयोगरत्नेस्मार्ताग्रयणप्रयोग: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP