संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथदत्तपुत्रविधानम्

संस्कारप्रकरणम् - अथदत्तपुत्रविधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथबह्वृचाधिकारिक:शौनकोक्तरीत्यापुत्रप्रतिग्रहप्रयोग: ॥ पूर्वेध्यु:कृतोपवास: ॥
वाससीकुंडलेछत्रमुष्णीषंचांगुलीयकम् ॥ आचार्यंधर्मसंयुक्तंवैष्णवंवेदपारगम् ॥ बर्हि:कुश
मयंचैवमिध्मंपालाशमेवच ॥ एतान्याहृत्यबंधूंश्चज्ञातीनहृत्यत्नत: ॥ पवित्रपाणि:प्राणाना
यम्यदेशकालौसंकीर्त्य ममाप्रजस्त्वप्रयुक्तपैतृकऋणापाकरणपुंनामनरकत्राणद्वाराश्रीपरमे
श्वरप्रीत्यर्थंशौनकोक्तविधिनापुत्रप्रतिग्रहंकरिष्ये ॥ तदंगत्वेनस्वस्तिपुण्यवाचनमाचार्यवर
णमाचार्यस्यमधुपर्केणार्हणंविष्णुपूजनंब्राह्मणेभ्योबंधुवर्गेभ्यश्चान्नदानंचकरिष्ये ॥ तदंग
त्वेनस्वस्तिपुण्याहवाचनमाचार्यवरणमाचार्यस्यमधुपर्केणार्हणंविष्णुपूजनंब्राह्मणेभ्योबंधुवर्गेभ्यश्चान्नदानंचकरिष्ये ॥ तत्रादौनिर्विघ्नतासिध्द्यर्थंगणपतिपूजनंकरिष्येइतिसंकल्प्य
आचार्यवरणांतंकृत्वामधुपर्कांतेविष्णुंसंपूज्य पितृणांकुलदेवतानांगुरुणाम्चप्रीत्यर्थंब्राह्मणान्
बंधूंश्चभोजयेत्संकल्पयेद्वा ॥ ततआचार्य:देशकालौसंकीर्त्ययजमानानुज्ञयापुत्रप्रतिग्रहांग
त्वेन्विहितहोमंकरिष्येइतिसंकल्प्य अग्निप्रतिष्ठापनांतंकृत्वान्वाधानंकुर्यात् ॥ चक्षुषीआ
ज्येनेत्यंतेअप्रधानंसकृदग्निंषड्वारंसूर्यासावित्रींचरुणाअग्निंवायुंसूर्यंप्रजापतिंचाज्येन शेषेण
स्विष्टकृतमित्याध्यन्वाधायाष्टाविंशतिमुष्टींस्तूष्णींनिरुप्यतावत्कृत्व:प्रोक्ष्यआज्योत्पवनांतंकृत्वा ब्राह्मणै:सहृदातु:समक्षंगत्वातंप्रत्यस्मैपुत्रंदेहीतिब्राह्मणद्वारायाच्ञांकारयेत् ॥
ततोदाताआचम्यप्राणानायम्यदेशकालौसंकीर्त्यश्रीपरमेश्वरप्रीत्यर्थंपुत्रदानंकरिष्यइतिसंक
ल्प्य्य गणपतिंसंपूज्ययथाशक्तिचंदनादिनाप्रतिग्रहीतारंसंपूज्य ॥ येयज्ञेनेतिपंचानांनाभा
नेदिष्ठोमानवऋषि:विश्वेदेवादेवता:आध्याश्चतस्त्रस्त्रिष्टुभ: पंचम्यनुष्टुप् पुत्रदानेविनियो
ग: ॥ ॐ येयज्ञेनदक्षिणयासक्ता० ऋच: ॥५॥
इत्यंतेइमंपुत्रंतवपैतृकऋणापाकरणपुंनामनरकत्राणसिध्द्यर्थंआत्मनश्चश्रीपरमेश्वरप्रीत्यर्थंतुभ्यमहंसंप्रददेनमम प्रतिगृह्णातुपुत्रंभवानित्यंतेप्रतिग्रहीतृहस्तेसाक्षतंजलंक्षिपेत् ॥
तत:प्रतिग्रहीतादेवस्यत्वेतिमंत्रेणहस्तद्वयेनप्रतिगृह्यस्वांकेउपवेश्य ॥ अंगादंगात्संभवसि
हृदयादधिजायसे ॥ आत्मावैपुत्रनामासिसजीवशरद:शतमितिशिशुंमूर्धनिआजिघ्रेत् ॥ ततो
युवंवस्त्राणीतिवस्त्रंपरिधाप्यतूष्णीमुष्णीषंबध्द्वाषंबध्द्वाकुंकुमादिनातिलकंकृत्वाहिरण्यरुप
इत्यादिनाकुंडलाभ्यामलंकृत्यछत्रेणाच्छादितंबालंनृत्यगीतवाध्यै: स्वस्तिनोमिमीतामित्या
दिमंत्रैश्चस्वगृहमानीय हस्तौपादौप्रक्षाल्याचम्यअग्ने:पश्चिमतोमातुरुत्संगेस्वदक्षिणोबाल
मुपवेश्यआचार्यदक्षिणत:स्वयमुपविशेत् ॥ ततआचार्योबर्हिरास्तरणाध्याज्यभागांतेचरुमव
दानविधिनावदाय ॥ यस्त्वाहृदाकीरिणेतिद्वयोरात्रेयोवसुश्रुतऋषि:अग्निर्देवतात्रिष्टुप् छंद:
पुत्रप्रतिग्रहांगहोमेवि० ॐ यस्त्वाहृदाकीरिणा० स्वस्तिस्वाहा० इतिऋक् द्वयंक्रमेणपठि
त्वास्वाहेतिएकमेवावदानंजुहुयात् ॥ यजमान:अग्नयइदं० ॥ पुनरवदाय० ॥ तुभ्यमग्नइ
तिमंत्रस्यसूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् पुत्रप्रतिग्रहांगहोमे० ॥ ॐ तुभ्यमग्रेपर्यवहन् ०
स्वाहा० सूर्यासावित्र्याइदं० ॥१॥
पुनरवदाय ॥ सोमोदददितिपंचानांसूर्यासावित्रीसूर्यासावित्रीदेवताआध्येद्वेअनुष्टुभौतृतीया
जगतीचतुथींत्रिष्टुप् पंचम्यनुष्टुप् पुत्रप्रतिग्रहांगहोमे० ॥ ॐ सोमोददद्गंधर्वाय० ॥ ऋच:
५ ॥
पुन:पुनरवदायपंचभिर्जुहुयात् ॥ सर्वत्रसूर्यासावित्र्याइदं० इतित्याग: ॥ ततोव्यस्तसमस्त
व्याहृतिभिराज्यंहुत्वास्विष्टकृदादिहोमशेषंसमाप्यआचार्यायधेनुंदत्वादशत्रीन् वाब्राह्मणान्
भोजयेत् ॥ कर्मण:संपूर्णतांवाचयित्वाविप्राशिषोगृहीत्वाईश्वरार्पणंकुवींत ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP