संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगृहप्रवेशनीयहोम:

संस्कारप्रकरणम् - अथगृहप्रवेशनीयहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वर:देशकालौसंकीर्त्यममविवाहाग्नेर्गृह्यत्वसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंगृहप्रवेश
नीयहोमंकरिष्यइतिसंकल्प्य ॥ स्थंडिलकरणाध्यग्निप्रतिष्ठांतंकृत्वा प्रत्यगग्ने:स्वदक्षिण
देशेप्राग्ग्रीवमुपरिलोमकमानडुहंचर्मास्तीर्यतस्मिन्वधूमुपवेश्यतयान्वारब्ध:क्रियमाणेगृहप्रवेशनीयहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा ॥ सूर्यासावित्रींचतुर्वारमाज्ये
नशेषेणस्विष्टकृतमित्यादिपत्न्यान्वारब्धआज्यभागांतंकृत्वा ॥ आन:प्रजामितिचतसृणांसू
र्यासावित्री ॥ आध्याजगतीद्वितीयात्रिष्टुप् अंत्येद्वेअनुष्टुभौ ॥ गृहप्रवेशनीयप्रधानाज्य
होमेविनियोग: ॥ ॐ आन:प्रजांजनयतु० ॥१॥
सर्वत्रसूर्यासावित्र्याइदंनमम ॥ ॐ अघोरचक्षुरप० ॥२॥
सूर्यासावि० ॥ ॐ इमांत्वमिंद्रमीढ्व:० ॥३॥
सूर्यासावि० ॥ ॐ सम्राज्ञीश्वशुरे० ॥४॥
सूर्या० इतिचतस्त्रआज्याहुतीर्हुत्वा ॥ समंजन्त्वित्यस्यसूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् ॥
दधिप्राशनेआज्यशेषेणहृदयांजनेवाविनियोग: ॥ ॐ समंजंतुविश्वेदेवा:समापोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥ इत्यनेनदधिप्राश्यपत्नीमपिप्राशयेत् हुतशिष्टा
ज्येनस्वस्यपत्न्याश्चहृदयांजनंवाकार्यम् ॥ ततोहस्तंप्रक्षाल्यस्विष्टकृदादिहोमशेषंसमाप्य
पतिपुत्रवतीभि:कृतनीराजनौदंपतीद्विजाशिषोगृह्णीयातां ॥ इतिगृहप्रवेशनीयहोम: ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP