संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथव्यतीपातसंक्रमणजननशांति:

संस्कारप्रकरणम् - अथव्यतीपातसंक्रमणजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ गोमुखप्रसवमुक्तविधिनाकृत्वादेशकालौसंकीर्त्याऽस्यशिशोर्व्यतीपातज
न्मसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंव्यतीपातशांतिंकरिष्य इतिसंकल्प्य ॥
गणेशपूजनाध्युक्तलक्षणाचार्यवरणंकुर्यात् ॥ वृतायतस्मैपट्टवस्त्रयुगंकुंडलयुगमंगुलीयकं
चदध्यात् ॥
आचार्योयदत्रसंस्थितमितिसर्षपविकिरणंशुचीवइतिपंचगव्येन आपोहिष्ठेत्यभ्दिश्चगृहपूर्व
दिग्भागंप्रोक्ष्यस्वस्त्ययनंतार्क्ष्यमितिमंत्राभ्यांप्रार्थ्य तत्रैवगोमयलिप्तेरंगवल्लयाध्यलंकृते
समदेशेमहीध्यौरितिभुवमभिमृश्य ओषधय:समितिपंचद्रोणपरि मितव्रीहिराशिंकृत्वातदुपरि
सार्धद्रोणद्वयमितितंडुलराशिं तदुपरि सपादद्रोणमिततिलराशिंचकृत्वोपरिभागंसमंकृत्वात
त्राऽष्टदलंकृत्वाआकालशेष्वितितत्राऽव्रणंकुंभंप्रतिष्ठाप्य इमंमेगंगेइतितीर्थोदकेनापूर्व स्यो
नापृथिवीतिसप्तमृद: याओषधीरितिसर्वौषधीरश्वत्थेवइतिपंचपल्लवान् गायत्र्यागंधद्वारा
माप्यायस्वदधिक्राव्ण:शुक्रमसीतिपंचगव्यानि गंधद्वारामितिगंधंसहिरत्नानीतिपंचरत्नानि
तत्रनिक्षिप्य वस्त्रयुग्मेनावेष्टयतदुपरिसूक्ष्मवस्त्रयुतंपूर्णपात्रंपूर्णादवींतिनिधायतदुपरिनिष्क
तदर्धतदर्धान्यतममानेनहेमनिर्मितांसूर्यप्रतिमांनिधायतत्रसूर्यमावाहनाध्युपचारै:पूजयेत् ॥
व्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती उत्सूर्यइतिमंत्रस्यमैत्रावरुणिर्वसिष्ठ:सूर्यस्त्रिष्टु
प् पूजनेवि० ॥ ॐ भूर्भव:स्व: उत्सूर्योबृहदर्ची० ऋक् १ ॥
उत्तरतोरुद्रमा वाहयेत् ॥ अग्निंदूतंकाण्वोमेधातिथिरग्निर्गायत्री अग्निपूजनेविनि० ॥
ॐ भूर्भव:स्व: अग्निदूतं० ऋक् १ ॥
एवमेवसंक्रांतिशांतौसंक्रांतिशांतिकरिष्यइतिसंकल्पेविशेष: ॥ व्यतीपातसंक्रमनयोर्जन्मनि
तुव्यतीपातसंक्रांतिशांतीतंत्रेणकरिष्येइतिसंकल्प: ॥
तिस्त्रोदेवता: षोडशोपचारै: वस्त्रयुग्मसहितै: पंचोपचारैर्वासंपूज्यगंधपुष्पाध्यर्चितेनैवेध्यंफ
लंचसमर्प्य प्रधानप्रतिमांस्पृशन्सर्वसौरमंत्रान् जपेत् ॥
उदुत्यमितित्रयोदशर्चस्यसूक्तस्यकाण्व:प्रस्कण्वोनवाध्यागायत्र्योंत्याश्चतस्त्रोनुष्टुभ: ॥
चित्रंदेवानामितिषळृचस्यसूक्तस्यआंगिरस:कुत्सस्त्रिष्टुप् ॥
इंद्रंमित्रमितिद्वयोरौचथ्योदीर्घतमास्त्रिष्टुप् ॥ हंस:शुचिषदित्यस्यगौतमोवामदेवोजगती ॥
यत्त्वासूर्यइत्यस्यात्रिरनुष्टुप् ॥
यदध्यसूर्येत्येकस्याउत्सूर्यइतितिसृणांउद्वेतीतिसार्धचतसृणां उदुत्यदृर्शतमितिसृणांमैत्रावरु
णिवर्वसिष्ठस्त्रिष्टुप् ॥
उदुत्यदृर्शतमितिबृहती शीर्ष्ण:शीर्ष्ण:सतोबृहती तच्चक्षुरितिपुरउष्णिक् ॥ बण्महाँअसीति
द्वयोर्भार्गवोजमदग्नि:पूर्वाबृहती उत्तरासतोबृहती ॥ नमोमित्रस्येतिद्वादशर्चस्यसूक्तस्यसू
र्योऽभितपा:सूर्योजगतीदशमीत्रिष्टुप् ॥
सूर्योनोदिवइतिपंचर्चस्यसूक्तस्यसौर्यश्चक्षुर्गायत्री ॥ विभ्राड्‍बृहदितिचतसृणांसौर्योविभ्राड्‍ज
गती विभ्राजमितिप्रस्तारपंक्ति: ॥
आयंगौरितितृचस्यसर्पराज्ञीगायत्री ॥ सर्वेषांसूर्योदेवता जपेवि० ॥
ततोरुद्रप्रतिमांस्पृशन् मृत्युंजयमंत्रमष्टोत्तरसहस्त्रमष्टोत्तरशतमष्टाविंशतिवारंवा जपेत् ॥
ततश्चत्वारऋत्विजश्चतुर्दिक्षुकुंभंस्पृष्ट्वाक्रमेणसूक्तानिजपेयु: ॥ पूर्वस्याम् आनोभद्राइति
दशर्चस्यसूक्तस्यराहूगणोगोतमऋषि: विश्वेदेवादेवताआध्या:पंचसप्तमीचजगत्य:षष्ठीवि
राट्‍स्थानाशेषास्त्रिष्टुभ् जपेवि० ॥ ॐ आनोभद्रा:० ऋच: १० ॥
दक्षिणस्याम् भद्राअग्नेरितिद्वादशर्चस्यसूक्तस्यवाध्र्य्श्व:सुमित्रऋषि: अग्निर्देवताआध्ये
द्वेजगत्यौअंत्यास्त्रिष्टुभ: जपेविनियो० ॥ ॐ भद्राअग्नेर्वध्र्यश्वस्य० ऋच:० ॥ १२ ॥
प्रतीच्यां सहस्त्रशीर्षेतिषोळशर्चस्यसूक्तस्य नारायणऋषि:पुरुषोदेवताअनुष्टुप् छंद: अन्त्यात्रिष्टुप् जपेवि० ॥ ॐ सहस्त्रशीर्षा० ऋच: १६ ॥
उत्तरस्याम् त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् जपेवि० ॥ ॐ त्र्यंबकंयजा० ॥ अथकुंभपश्चिमदेशे
स्थंडिलेऽग्निंस्वगृह्योक्तविधिनाप्रतिष्ठाप्यकुंभस्योत्तरतोग्रहाणामावाहनादिपूजांकृत्वातदी
शान्यांकलशस्थापनंकृत्वाऽग्ने: पश्चिमतउपविश्यान्वादध्यात् ॥
चक्षुषीआज्येनेत्यंतेऽत्रप्रधानम् ॥ आदित्यादिनवग्रहांश्चिकीर्षितंसंख्याकाभि:अर्कादिजातीय
समिच्चर्वाज्याहुतिभि: ॥ ग्रहपीठदेवताअमुकसंख्याभि:समिच्चर्वाज्याहुतिभि: ॥  
सूर्यंप्रत्येकमष्टोत्तरशतसंख्याभि:समिदाज्यचर्वाहुतिभि: ॥ अग्निंरुद्रंचप्रत्येकमष्टाविंशतिसं
ख्याभिस्तदाहुतिभि: ॥ मृत्यंजयंअष्टोत्तरशतसंख्याभिस्तिलाहुतिभि: ॥ शेषेणेत्यादि०
प्रायश्चित्ताहुत्यंतेबलिदानंतत: पूर्णाहुति:प्रणीताविमोक:संस्थाजपेनोपस्थानंच ॥
ततोधृतनूतववस्त्रयोर्दंपत्यो:सबालयोरभिषेक: ॥ समुद्रज्येष्ठाइतिचतसृणांवसिष्ठआपस्त्रि
ष्टुप् अभिषेके० ॥
आपोहिष्ठेतितिसृणांसिंधुद्वीप आपोगायत्री अभिषेके० ॥ अक्षीभ्यांतइतिषण्णांविवृहाय
क्ष्माऽनुष्टुप् अभिषेके० ॥
स्वादिष्ठयेतिदशानांमधुच्छंदा: पवमान: सोमोगायत्री अभिषेके० ॥
ॐ उत्सूर्यो० ॐ अग्निंदूतं० ॐ त्र्यंबकं० पूजाकालेउक्तमेषामृष्यादि ॥ सुरास्त्वामभिषिं
चंत्वित्यादिपौराणमंत्रैश्चाभिषेकांतेऽभिषेकवासआचार्यायसमर्पयेत् ॥
सपत्नीक:श्वेतवस्त्रचंदनादिधृत्वा भूषणमालादिनालंकृत आज्यमवेक्ष्य तत्पात्रंसदक्षिणंब्रा
ह्मणायदत्त्वा वस्त्रहेमांगुलीयकैराचार्यंसंपूज्य व्यतीपातजननदोषशांत्यर्थंगोवस्त्रस्वर्णानितु
भ्यंसंप्रददे इतिआचार्यायतानिदत्त्वातर्धंप्रच्छादनपटंतथैवदध्यात् ॥
ऋत्विग्भ्योयथाशक्तिदक्षिणांदत्त्वादीनांधकृपणेभ्योभूयसींदत्त्वाशतंब्राह्मणानृत्विग्भि:सह
मिष्टान्नैर्भोजयित्वासंपूर्णतांवाचयित्वाकर्मेश्वरार्पणंकृत्वाबंधुभि:सहभुंजीत ॥
इतिव्यतीपातसंक्रांतिशांती ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP