संस्कारप्रकरणम् - अभद्राजननशांति:
ऋग्वेदीयब्रह्मकर्मसमुच्चयः
श्रीगणेशायनम: ॥ कर्ताउक्तकालेगोमुखप्रसवंकृत्वादेशकालौसंकीर्त्यअस्यशिशो:भद्राजनन
सूचितसकलारिष्टपरिहारद्वारा० सग्रहमखांगर्गोक्तांशांतिंकरिष्ये इतिसंकल्प्यगणेशपूज
नादिनांदेश्राध्दांतेआचार्यादीन्वृणुयात् ॥
ततआचार्य:प्रादेशकरणांतेगृहस्यपूर्वभागेस्थंडिलात्प्राच्यांमहिध्यौरित्यादिमंत्रावृत्त्यामध्ये एकंपूर्वादिदिक्षुचतुरइत्येवंपंचकुंभान्संस्थाप्य तत्रजलपूरणादिपूर्णपात्रनिधानांतेप्रतिमासुदेव
ताआवाहायेत् ॥
मध्यकुंभे भद्राअग्ने:सुमित्रोभद्राजगती ॥ भद्रावा० ॥ इतिभद्रां ॥ पूर्वे आकृष्णेनहिरण्य
स्तूप:सवितात्रिष्टुप् इतिसूर्यं ॥ दक्षिणे कद्रुदायकण्वोरुद्रोगायत्री ॥ इतिरुद्रं ॥ पश्चिमे गणानांत्वागृत्समदो० इतिगणपतिं ॥ उत्तरे ऋषभंमाऋषभऋषभोऽनुष्टुप् इतिऋषभंचावा
ह्यसर्वान्संपूज्यपुष्पपुष्पमालादिभि:कलशान्भूषयित्वग्निंग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् ॥
ग्रहोत्कीर्तनांते भद्रां सूर्यं रुद्रं गणपतिं ऋषभंचैता:प्रधानदेवता:समिच्चर्वाज्यतिलै:प्रत्येकं
प्रतिद्रव्यंअष्टोत्तरसहस्त्राष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याकाभिर्वाहुतिभि: शेषेणत्यादिप्रा
यश्चित्तहोमांतेबलिदानंपूर्णाहुतिंचकृत्वासंस्त्रावहोमादिशेषंसमाप्य धृतनववस्त्रंपत्नीशिशुस
हितंयजमानं समुद्रज्येष्ठाइत्यादिवारुणैर्ग्रहादिमंत्रैश्चाभिषिंचेत् ॥
ततोयजमानोधृतनवशुक्लांबरोऽभिषेकवस्त्रमाचार्यायदत्त्वाविभूतिंधृत्वोत्तरपूजांकृत्वाऽऽचार्यं
संपूज्य तस्मैगांपीठंचदत्त्वा निरीक्षिताज्यंदत्त्वा ब्राह्मणभोजनंसंकल्प्य भूयसींदत्त्वाशिषो
गृहीत्वाकर्मसमापयेत् ॥ इतिभद्राजननशांति: ॥
N/A
References : N/A
Last Updated : August 06, 2023
TOP