संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाग्न्युपघातेप्रायश्चित्तानि

संस्कारप्रकरणम् - अथाग्न्युपघातेप्रायश्चित्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रपूर्वमग्न्युपघातेप्रायश्चित्तम् ॥ अस्मिन्कर्मणिस्वयंज्वलनादिग्न्युपघातजनित
प्रत्यवायपरिहारार्थंप्रायश्चित्तंकरिष्ये ॥
ॐ पुनस्त्वादित्यारुद्रावसवसमिंधतांपुनर्ब्रह्माणोवसुनीथयज्ञै: ॥ घृतेनत्वंतनुवोवर्धयस्व
सत्या:संतुयजमानस्यकामा: ॥
इतिमंत्रेणाग्नौसम्दिहमाधायतेनैवमंत्रेणस्त्रुवाहुतिंजुहुयात् ॥ आदित्यरुद्रवसुब्रह्मभ्यइदंनम
म ॥ अस्मिन्क० आसादितप्रणीतास्कंदनशोषणप्रस्त्रवणादिजनितप्रत्यवाय० विहितप्राय
श्चित्तं० ॥
आपोहिष्ठेतितृचेनप्रणीतायामुदकमापूर्यस्त्रुवाहुतिंजुहुयात् ॥ ॐ ततंमआपस्तदुतायतेपुन:
स्वादिष्ठाधीतिरुचथायशस्यते ॥ अयसमुद्रउतविश्वभेषज:स्वाहाकृतस्यसमुतृष्णुतर्भुव:स्वा
हा ॥ ऋतुभ्य० ॥ अस्मिन्क० हवनीयद्रव्याणामग्नेश्चकेशनखकीटपिपीलिकामक्षिकाध्यु
पघातजनितप्रत्य० द्वेमिंदाहुतीहोष्यामि ॥
ॐ यन्मआत्मनोमिंदाभूदग्निस्तत्पुनराहार्जातवेदाविचर्षणि:स्वाहा ॥ मिंदवतेग्नयइदं ॥
ॐ पुनरग्निश्चक्षुरदात्पुनरिंद्रोबृहस्पति: ॥ पुनर्मेअश्विनायुवंचक्षुराधत्तमक्ष्यो:स्वाहा ॥
मिंदवतेग्नय० ॥ अस्मिन्क० परिस्तरणबर्हिरादीनांदाहादिनाशजनितप्रत्यवाय०॥
ॐ त्वमग्नेअयास्ययासन्मनसाहित: ॥ अयासन्हव्यमूहिषेयानोधेहिभेषजंस्वाहा ॥ अयासेग्नयइदं० ॥
ॐ प्रजापतेनत्वदेवतान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोअस्तुव
यस्यामपतयोरयीणांस्वाहा ॥
प्रजावतय० ॥ अस्मिन्क० आयतनाब्दहिरंगारपतनजनितप्रत्यवाय० ॥ ॐ इदंतएकंपरऊ
तएकंतृतीयेनज्योतिषासंविशस्व ॥ संवेशनेतन्व१श्चारुरेधिप्रियोदेवानांपरमेजनित्रे ॥
इतिमंत्रेणांगारानायतनेप्रक्षिप्य भूर्भव:स्व:स्वाहाइतिस्त्रुवाहुतिंजुहुयात् ॥ अस्मिन्कर्मण्युप
युक्तमंत्राणां स्वराक्षरपदवर्णभ्रेषजनितप्रत्यवाय० आभिर्गीर्भिरित्येकामाज्याहुतिंहोष्यामि ॥ ॐ आभिगींर्भिर्यदतोनऊनमाप्याययहरिवोवर्धमान: ॥
यदास्तोतृभ्योमहिगोत्रारुजासिभूयिष्ठभाजोअधतेस्यामस्वाहा ॥ इंद्रायहरिवत० ॥ अस्मिन्क० स्वाहाकारप्रदानासमकालताजनितप्रत्यवायपरिहारार्थं मनोज्योतिरित्येकामा
ज्याहुतिंहोष्यामि ॥ ॐ मनोज्योतिर्जुषतामाज्यंविच्छिन्नंयज्ञ समिमंदधातु ॥
याइष्टाउषसोनिम्नुचश्चता:संदधामिहविषाघृतेनस्वाहा ॥ मनसेज्योतिषइदं० ॥ अस्मि
न्क० नियमासनावाग्लोपजनितप्रत्यवाय० इदंविष्णुस्त्र्यंबकमितिमंत्राभ्यांस्त्रुवाहुतीहोष्या
मि ॥ ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं ॥ समूढमस्यपासुरेस्वाहा ॥ विष्णवइदं० ॥
ॐ त्रियंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीययामृतात्स्वाहा ॥
त्र्यंबकायेदं० ॥
अस्मिन्कर्मणिहौम्यद्रव्याणांसमिदादीनांमध्येउक्तसंख्यातोन्यूनातिरिक्तत्वजनितप्रत्यवा
०य प्रायश्चित्तंकरिष्ये ॥ ॐ यत्पाकत्रामनसा० अग्नयइदं० ॥ अस्मिन्कर्मणि० देवताग्न्योर्मध्येऋत्विगग्निमध्येचपुरुषांतरगमनजनितप्रत्य० पथिककृदग्निदेवताकांपूर्णा
हुतिंहोष्यामि ॥ जुह्वांचतुर्गृहीतमाज्यंगृहीत्वाजुहुयात् ॥ ॐ अग्नयेपथिकृतेस्वाहा अग्नयेपथिकृतइदं० ॥
अस्मिन्क० प्रधानाहुत्युपरिस्विष्टकृदाहुतिप्रक्षेपजनितप्रत्यवाय० ॥ ॐ यत्रवेत्थवनस्पतेदे
वानांगुह्यानामानि ॥ तत्रहव्यानिगामयस्वाहा ॥ इत्यनेनसमिधंहुत्वासमस्तव्याहृत्याज्यं
जुहुयात् ॥ अस्मिन्क० ऋक्तोयज्ञभ्रेष० ॥ ॐ भू:स्वाहा अग्नयइदं० ॥ अ० यजुष्टोयज्ञ
भ्रेषप्रा० ॥ ॐ भुव:स्वाहा वायवइदं० ॥ अ० सामतोयज्ञभ्रेष० ॥ ॐ स्व: स्वाहा सूर्यायेदं० ॥
अविज्ञातप्रायश्चितं० ॥ ॐ भूर्भव:स्व:स्वाहा प्रजापतय० ॥ चरौश्रप्यमाणेतापादुत्सिक्ते चरुत्सेकजनितप्रत्यवा० यदिपूर्वस्यांतदाइंद्रायस्वाहेतिस्त्रुवाहुति: ॥ दक्षिणस्यांयमायस्वा० ॥ पश्चिमायांवरुणाय० ॥ उत्तरस्यांसोमाय ॥ विदिक्षुभूर्भव:स्व;स्वाहेति ॥ एवंहुत्वा स्त्रुव
गृहीतेनाज्येनचरुमाप्याययति आप्यायस्वसंतेपयांसीत्याभ्यां ॥ ततोमिंदाहुती ॥ यन्म आत्मनो० पुनरग्निरितिद्वाभ्यां ॥ तत:सर्वप्रायश्चित्तं भूर्भव:स्व:स्वाहेति ॥ अस्मिन्कर्मणि हूयमानाहुतिस्कंदनजनितप्रत्यवाय० ॥ स्कन्नंहविरभिमृशेत् ॥ ॐ देवांजनमगन्यज्ञस्तस्यमाशीरवतुवर्धतां ॥ भूतिर्घृतेनमुंचतुयज्ञोयज्ञपतिमहस: ॥ भूपतये
स्वाहा ॥ भुवनपतयेस्वाहा ॥ भूतानांपतयेस्वाहा ॥ यज्ञस्यत्वाप्रमयोन्मयाभिमयाप्रतिम
या ॥ तत: ॥ ॐ द्रप्सश्चस्कंदप्रथमाअनुध्यूनिमंत्रचयोनिमनुयश्चपूर्व: ॥ समानंयोनिम
नुसंचरंतंद्रप्संजुहोम्यनुसप्तहोत्रा:स्वाहा ॥ इत्याज्याहुतिंहुत्वाव्याहृतिभिश्च ॥ तत:स्कन्न
मग्नौक्षिपेत् ॥ व्रतलोप० व्रतपतिदेवताकांपूर्णाहुति० ॥ चतुर्गृहीतमाज्यं० ॐ अग्नयेव्रत
पतयेस्वाहा ॥ अग्नेरुक्तस्थानादन्यत्रनासाकर्णादौघृताहुतिप्रक्षेपजनितप्रत्यवाय० मूलेनपं
चविंशतिसंख्याज्याहुतीर्होष्यामि ॥ मूलमंत्रेणजुहुयात् ॥ अस्मिन्क० वेदिकाकुंडकलशप्र
तिमादीनामुक्तप्रमाणाध्दीनाधिकताजनितप्रत्यवायपरि० अष्टाविंशतिवारंसमस्तव्याहृत्या
ज्याहुतीर्होष्यामि ॥ ॐ भूर्भव:स्व:स्वाहा प्रजापतय इदंनमम ॥ सांगतासिध्दयेसर्वप्राय
श्चित्तंकरिष्ये ॥
ॐ भूर्भव:स्व: स्वाहा प्रजापतय इदंनमम ॥ इतिसर्वसाधारणप्रायश्चित्तानि ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP