संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथतिथ्यादिगंडांतशांति:

संस्कारप्रकरणम् - अथतिथ्यादिगंडांतशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथिगंडपूर्वार्धजन्मनिकर्तास्नात:पुत्रमनालोक्याऽस्यशिशोस्तिथिगंड
पूर्वोर्धजन्मसूचितसर्वारिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थंअनुडुद्दानंकरिष्येइतिसंकल्प्य
नालच्छेदनात्पूर्वंगंडदोषेब्राह्मणपूजनपूर्वकमनड्वाहंदध्यात् ॥ असंभवेकार्षापणाष्टकंवा ॥
सूतकांतेशुभदिनेवास्त्रातोऽनडुद्दानमित्यस्यस्थानेगर्गोक्तांशांतिमित्यूहेनसंकल्प्यगणेशपू
जादिआचार्यवरणांतंकुर्यात् ॥
सचयदत्रेत्यादिनाभूशुध्दिकलशस्थापनेकृत्वा कलशेयाओषधी: सहिरत्नानिस्योनापृथिविरु
वतिभीमोऽश्वेत्थवइतिशतौषधीरत्नानिमृदंत्वच:पल्लवांश्चनिक्षिप्य पूर्णादवींतिस्थापितपू
र्णपात्रेस्थापितहैमवरुणप्रतिमायांतत्त्वायामीतिमंत्रेणवरुणंपूजयेत् ॥
ततोऽग्निंप्रतिष्ठाप्यग्रहान्संपूज्यान्वादध्यात् ॥ चक्षुषीआज्येनेत्यादिग्रहोत्कीर्तनांतेऽत्रप्रधा
नम् ॥  
वरुणंप्रतिद्रव्यमष्टोत्तरशतसंख्याकाभि:समिधांचरोराज्यतिलयवानांचाहुतिभि: शेषेणेत्यादि
बलिदानपूर्णाहुतिप्रणीताविसर्गांते कलशद्वयोदकेनसमुद्रज्येष्ठाइत्यादिभि:पित्रादित्रयाणाम
भिषेकोयवब्रीहिमाषतिलमुद्गानांदक्षिणात्वेनदानंविसर्जनादि यथाशक्तिब्राह्मणभोजनंचेति ॥ तिथिगंडोत्तरार्धजन्मनितुतात्कालिकंदानं ॥ शांतौमातु:शिशोश्चाभिषेकइतिविशेष: ॥
लग्नगंडपूर्वार्धजन्मनिकांचनदानमितिविशेष: ॥
नक्षत्रगंडस्योत्तरादिनिषिध्दभागस्यचपूर्वार्धजन्मनिधेनोस्तिलपात्रादेश्चदानम् ॥ शांतौनक्ष
त्रप्रतिमायास्तत्तद्वाक्याष्टकेनपूजनम् ॥
उत्तरार्धेजन्मनिनदानं दक्षिणाकालेउत्तरादौतिलपात्रादेर्दानं ॥ इतरत्रयवव्रीह्यादे:अभिषेकव्य
वस्थाचपूर्ववत् ॥ इतितिथ्यादिगंडांगशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP