संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगोप्रसवशांति:

संस्कारप्रकरणम् - अथगोप्रसवशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताआचम्यप्राणानायम्यदेशकालौसंकीर्त्यास्यबालकस्यामुकदुष्टकालोत्पत्तिसूचिता
रिष्टनिवृत्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थंगर्गोक्तांगोमुखप्रसवाख्यांशांतिकरिष्ये ॥
तदंगत्वेनगणेशपूजांकरिष्येइतिसंकल्प्य तंसंपूज्याचार्यवरणंतत्पूजनंचकुर्यात् ॥
आचार्योयदत्रसंस्थितमितिसर्षपविकिरणं शुचीवइतिपंचगव्येनापोहिष्ठेत्यभ्दिश्चदेशप्रोक्षणं
स्वस्त्ययनंतार्क्ष्यमितिप्रार्थनंचविधायगृहस्यैशानभागेगोमयेनोपलिप्य श्वेतरजोभि:कर्णिका
युक्तंमहत्पंकजंकृत्वा तत्रव्रीहीन्निक्षिप्य तेषुशूर्पेप्रागग्रेरक्तवस्त्रेप्रसारितेतत्रतिलविकिरणंच
कृत्वा प्राड्मुखमवाक्पादंशिशुंसंस्थाप्य रक्तवस्त्रेणाच्छाध्य सशिशुशूर्पंसूत्रेणवेष्टयित्वा
तस्मिन् गोमुखसान्निध्यंकृत्वा ॥
विष्णुर्योनिमितिसॄणांत्वष्टाविष्णुरनुष्टुप् गोमुखप्रसवभावनेविनियोग: ॥ ॐ विष्णुर्योर्नि
कल्पयतुत्वष्टारुपाणिपिंशतु ॥ आसिंचतुप्रजापतिर्धातागर्भदधातुते ॥ गर्भधेहिसिनीवालि
गर्भधेहिसरस्वति ॥ गर्भतेअश्विनौदेवावाधत्तांपुष्करस्त्रजा ॥ हिरण्ययीअरणीयंनिर्मंथतोअ
श्विना ॥ तंतेगर्भहवामहेदशमेमासिसूतवे ॥ विष्णो:श्रेष्ठेनरुपेणास्यांनार्यागवीन्यां ॥ पुमांसंपुत्रानाधेहिदशमेमासिसूतवे ॥ इतिसूक्तेनजन्मचिंतनंकृत्वातेनैवावृत्त्यापंचगव्येनशि
शुंस्नापयित्वा ॥ गवामंगेषुतिष्ठंतिभुवनानिचतुर्दश ॥ यस्मात्तस्माच्छिवंमेस्यादिहलोकेप
रत्रचेतिगो:सर्वांगेषुमांगेष्वेववास्पृशेत् ॥
तताआचार्यो विष्णो:श्रेष्ठेनेत्यस्यत्वष्टाविष्णुरनुष्टुप् बालादानेविनियोग: ॥ विष्णो:श्रेष्ठे
नेतिशिशुंगृहीत्वामात्रेदध्यात् ॥ मातातुबालमादायगोमुखसमीपेनीत्वापश्चिमभागस्थासती
गोपुच्छदेशेपित्रेदध्यात् ॥
ततआचार्य:पितृहस्तेनमात्रेदापयेत् नवेवस्त्रेशिशुंसंस्थाप्याच्छादनमपसार्यपुत्रमुखेक्षणं
कुर्यात् ॥ तत:पंचगव्येनाचार्य:शिशुंप्रोक्षेत् ॥ आपोहिष्ठेतितिसृणांसिंधुद्वीपआपोगायत्री
शिशोरभिषेकेवि० ॐ आपोहिष्ठाऋ० ॥३॥
तत:पिताहस्तद्वयेनपरिग्रहणपूर्वकं अंगादंगाध्दिरण्यगर्भोधातानुष्टुप् अवघ्राणेवि० ॥
अंगादंगात्संभवसिहृदयादधिजायसे ॥ आत्मावैपुत्रनामासिसजीवशरद:शतंइतिमंत्रेणशिशोर्मू
र्धनित्रिरवघ्नाय प्रत्याघ्राणंमंत्रावृत्ति: ॥ (मंत्रेसइतिपुंनिर्देशात्कन्यायास्तूष्णीमाघ्राणं) यथा
स्थानेशिशुस्थापनंकृत्वाशाखाध्यायिभि:स्वशाखोक्तविधिनापुण्याहंवाचयेत् ॥
तांगांदरिद्रब्राह्मणायविधिनादध्यात् ॥ ततोयजमानोवस्त्रस्वर्णधान्यानियथाशक्तयर्कादि
प्रीत्यर्थंआचार्यायदत्त्वान्येभ्योब्राह्मणेभ्योभूयसींदक्षिणांदध्यात् ॥
ततआचार्य:गोमुखप्रसवशांतिहोमंकरिष्येइतिसंकल्प्यस्थंडिलेवरदनामाग्निप्रतिष्ठापनांतेऽ
धिप्रत्यधिदेवतारहितान्ग्रहानावाह्यान्वादध्यात् ॥ चक्षुषीआज्येनेत्यंतेऽत्रप्रधानं अप:द्वाद
शोत्तरशतसंख्याकाभि:संयुक्तदधिमध्वाज्याहुतिभिर्द्वात्रिंशत्संख्याभिर्वा विष्णुंअष्टाविंशति
संख्याकाभिर्दधिमध्वाज्याहुतिभि:प्रत्येकमष्टाभिर्वा यक्ष्माणंअष्टषष्ठयाधिकशतसंख्याभि:
दधिम० आदित्यादिनवग्रहान्प्रत्येकमष्टसंख्याभिर्दधिम० ॥
शेषेणेत्याध्याज्यभागांतेस्थंडिलस्यैशानदिशिग्रहपीठोत्तरतोमहीध्यौरित्यादिविधिना धान्यो
परिघटस्थापनंकृत्वा तस्मिन् पंचगव्यंतिलान् क्षीरद्रमुकषायान् पंचरत्नानिक्रमेणनिक्षि
प्यवस्त्रयुग्मेनसंछाध्यगंधपुष्पादिभि:कलशमभ्यर्च्य कृताग्न्युत्तरणप्रतिमासुविष्णुवरुणय
क्ष्माण:पूजयेत् ॥
तद्विष्णोर्मेधातिथिर्विष्णुर्गायत्री ॥ गोप्रसवप्रधानपूजनेवि० ॥ ॐ तद्विष्णो:० ऋक् ॥
तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् गोप्रस्वप्रधानपूजनेवि० ॥ ॐ तत्त्वायामिब्रह्मणा० ॥
ऋक् ॥ अक्षीभ्यामित्यस्यविवृहायक्ष्मानुष्टुप् यक्ष्मावाहनेवि० ॥ ॐ अक्षीभ्यांते० ॥
इतियक्ष्माणंचावाह्यसंपूज्य ॥ (अत्रयक्ष्मपूजनंनेत्येके) पूजांतेकुंभंस्पृष्ट्वाभिमंत्रयेत् ॥
यतइंद्रेतिषण्णांभर्गइंद्रोबृहती ॥ समानांसतोबृहतीपंक्ति: ॥ कुंभाभिमंत्रणेवि० ॥ ॐ यतंइंद्रभयामहेततोनोअभयंकृधि ॥ मघवन्छग्धितवतन्नऊतिभिर्विद्विषोविमृधोजहि ॥
त्वंहिराधस्पतेराधसोमह:क्षयस्यासिविधत: ॥ तंत्वावयंमघवन्निंद्रगिर्वण:सुतावंतोहवामहे ॥ इंद्रस्पळुतवृत्रहापरस्पानोवरेण्य: ॥ सनोरक्षिपच्चरमंसमध्यमंसपश्चात्पातुन:पुर: ॥
त्वंन:पश्चादधरादुत्तरात्पुरइंद्रनिपाहिविश्वत: ॥ आरेअस्मत्कृणुहिदैव्यंभयमाहेरेहेतीरदेवी: ॥ अध्याध्या:श्वश्वइंद्रत्रास्वपरेचन: ॥ विश्वाचनोजरितृन्सत्पते अहादिवानक्तंचरक्षिष: ॥
प्रभंगीशूरोमघवातुवीमघ:संमिश्लोवीर्यायकं ॥ उभातेबाहूवृषणाशतक्रतोनियावज्रंमिमिक्षतु: ॥ ऋच: ६ ॥ एतैर्मंत्रैरभिमंत्र्य ॥ ततआचार्य:स्त्रुवेणमिलितदधिमध्वाज्यहोमंकुर्यात् ॥
आपोहिष्ठेतिसृणांसिंधुद्वीप आपोगायत्री ॥ गोप्रसवप्रधानहोमे० ॥ (सत्यपिवरुणहोमस्य
वारुणत्वेऽभ्द्यइत्येवत्याग:पार्वणहोमेपूर्णमासायेदमितिवत् )॥
ॐ अप्सुमे० ऋष्यादिपूर्ववत् ॥ अतएवनानुष्टुभोग्रहणं ॥ तद्विष्णोरित्यस्यमेधातिथिर्वि
ष्णुर्गायत्री ॥ गोप्रसवप्रधानहोमे० ॥ ॐ तद्विष्णो:० विष्णवइदं० ॥ अक्षीभ्यांतइतिष
ण्णांविवृहायक्ष्मानुष्टुप् ॥ गोप्रसवप्रधानहोमेवि० ॥
ॐ अक्षीभ्यांतेनासिकाभ्यांकर्णाभ्यांछुबुकादधि ॥ यक्ष्मंशीर्षण्यंमस्तिष्काज्जिह्वायाविवृहा
मितेस्वाहा ॥ यक्ष्मणइदं० ॥ ॐ ग्रीवाभ्यस्तउष्णिहाभ्य:कीकसाभ्योअनूक्यात् ॥ यक्ष्मं
दोषण्या१मंसाभ्यांबाहुभ्यांविवृहामितेस्वाहा ॥ यक्ष्मणइदं० ॥
ॐ आंत्रेभ्यस्तेगुदाभ्योवनिष्ठोर्हृदयादधि ॥ यक्ष्मंमतस्त्राभ्यांभाभ्यांयक्न:प्लाशिभ्योवि
वृहामितेस्वाहा ॥ यक्ष्मणइदं० ॥ ॐ ऊरुभ्यांतेअष्ठीवभ्द्यांपार्ष्णिभ्यांप्रपदाभ्यां ॥ यक्ष्मं
श्रोणीभ्यांभासदाभ्दंससोविवृहामितेस्वाहा ॥ यक्ष्मणइदं० ॥ ॐ मेहनाद्वनंकरणाल्लोम
भ्यस्तेनखेभ्य: ॥ यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामितेस्वाहा ॥ यक्ष्मणइदं० ॥
ॐ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि ॥ यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते
स्वाहा ॥ यक्ष्मणंइदं० ॥ तत: आकृष्णेनेत्यादिभिर्दध्यादिहोम: ॥ सवित्रेसोमायेदमिति
त्याग:सर्वत्र ॥ प्रत्यृचंअष्टाविंशतिरष्टौवाहुतय: ॥ प्रणीताप्रणयनसंस्थाजपांतेपरिस्तरण
विसर्जनादिआचार्यायथाशक्तिदक्षिणांदत्त्वास्थापितदेवतानामुत्तरपूजाविसर्जनांते तत्प्रतिमां
आचार्यहस्तेप्रतिपाध्याग्निंसंपूज्य विभूतिधारणांतेगच्छगच्छेतितंविसृज्यदशत्रीन्वाब्राह्म
णान्भोजयेत् कर्मण:संपूर्णतांवाचयित्वेश्वरार्पणंकुर्यात् ॥
इतिगोप्रसवशांतिप्रयोग: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP