संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथकृष्णचतुर्दशीजननशांति:

संस्कारप्रकरणम् - अथकृष्णचतुर्दशीजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ कर्ताआचम्यप्राणानायम्यदेशकालौसंकीर्त्य अस्यशिशो:कृष्णचतुर्दश्या
अमुकांशजननसूचितसर्वारिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थं सग्रहमखांगर्गोक्तांकृष्णच
तुर्दशीजननशांतिंकरिष्ये ॥
तदंगत्वेनगणपतिपूजनंस्वस्तिपुण्याहवाचनंआचार्यर्त्विग्वरणंचकरिष्ये ॥ वृतानांपूजनं ॥
अग्न्युत्तारणं ॥ आचार्य: आचार्यकर्मकरिष्येइतिसंकल्प्य ॥ यदत्रसंस्थितमित्यादिस्वस्त्य
नंतार्क्ष्यमित्यंतेस्थंडिलपूर्वभागेमहीध्यौरित्यादिमंत्रावृत्त्यापदार्थानुसमयेनमध्येशतच्छिद्रं तस्यआग्नेय्यादिविदिक्षुचतुर:कलशान्संस्थाप्यशतच्छिद्रेस्योनापृथिवीतिसप्तमृद:अश्वत्थे
वइतिपंचपल्लवान् सहिरत्नानीतिपंचरत्नानि रुवतिभीमेतिपंचत्वच: ओषधय:समितिपंच
धान्यानि हिरण्यरुपइतिसुवर्णं याओषधीरितिसर्वौषधी:शतावरींचनिक्षिप्य युवासुवासाइति
श्वेतवस्त्रै:श्वेतपुष्पैश्चसंवेष्टय पूर्णादवींतिपूर्णापात्रनिधानांते रुद्रप्रतिमांकर्षतदर्धतदर्धान्य
तमपरिमितहेमनिर्मितांवराभयांकितहस्तद्वयांवृषभारुढां स्थापयित्वा त्र्यंबकंवसिष्ठोरुद्रोनु
ष्टुप् रुद्रावाहनेविनि० ॥ ॐ त्र्यंबकंयजामहे० ऋक् १ ॥
शुध्दस्फटिकसंकाशंश्वेतमाल्यांवरावृतंतंध्यात्वा एकादशिन्यभिषेकघटितोपचारैरुद्रंसंपूज्य
आग्न्येय्यादिचतुर्षुकलशेषुइमंमेगंगेइत्यप:गंधद्वारामितिगंधमोषधयइतियवान् अश्वत्थेव
इतिपंचपल्लवान् कांडात्कांडादितिदूर्वा: सहिरत्नानीतिपंचरत्नानि हिरण्यरुपइतिहिरण्यं
या:फलिनीरितिफलम् युवासुवासाइतिवस्त्रवेष्टनं पूर्णादवींतिपूर्णपात्रनिधानं एतावत्कांडानु
समयेनकृत्वा आग्नेयकुंभेइमंमेवरुणइतिसर्वेसमुद्राइतिचसमुद्रादिसहितंवरुणमावाहयेत् ॥
इमंमेवरुणशुन:शेपोवरुणोगायत्री वरुनावाहनेवि० ॥ ॐ इमंमेवरुणश्रुधीहवमध्याचमृळय ॥ त्वामवस्युराचके ॥ ॐ भूर्भव:स्वर्वरुणायनम:वरुणमावाहयामीति समुद्रादिसहितंवरुणं
संपूज्यउत्तरकलशेष्वपिसमुद्रानावाह्यनदीसहितवरुणपूजनेक्रमेणतत्त्वायामित्वंनोअग्नेसत्वं
नोअग्नेइत्यादयोमंत्रा: ॥
नैऋते तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् ॥ वरुणावाहनेवि० ॐ तत्त्वायामि० ॥ वायव्ये
त्वंनोअग्नेइत्यस्यगौतमोवामदेवोऽग्नीवरुणौत्रिष्टुप् ॥
वरुणावाहनेवि० ॥ ॐ त्वंनोअग्नेवरुणस्यविद्वान्देवस्यहेळोवयासिसीष्ठा: ॥ यजिष्ठोव
न्हितम:शोशुचानोविश्वाद्वेषांसिप्रमुमुग्ध्यस्मत् ॥ ऐशाने ॥ सत्वंनोअग्नइत्यस्यवामदेवो
ऽग्नीवरुणौत्रिष्टुप् ॥
पूजनेवि० ॥ ॐ सत्वंनोअग्नेवमोभवोतीनेदिष्ठोअस्याउषसोव्युष्टौ ॥ अवयक्ष्वनोवरुणंर
राणोवीहिमृळीकंसुहवोनएधि ॥ सर्वपूजांतेदेवदानवइतिप्रतिकलशंप्रार्थना ॥ तत्रक्रमेणचतु
र्षुकलशेसूक्तजप: ॥
आनोभद्राइतिदशर्चस्यसूक्तस्यराहूगणोगोतमोविश्वेदेवादेवता आध्या:पंचसप्तमीचजगत्य:
षष्ठीविराट्‍स्थानाशे षास्त्रिष्टुभ:जपेविनियो० ॥ ॐ आनोभद्रा:क्रतवोयंतु० ऋच: १० ॥
भद्राअग्नेरितिद्वादशर्चस्यवाध्र्यश्व:सुमित्रोग्निर्देवताआध्येजगत्यौ अंत्यास्त्रिष्टुभ: जपेवि
नि० ॥ ॐ भद्राअग्नेर्वध्य्रश्वस्य० ऋच:१२ ॥
सहस्त्रशीर्षेतिषोळशर्चस्यसूक्तस्यनारायण:पुरुषोऽनुष्टुबंत्यात्रिष्टुप् जपेवि० ॥ ॐ सहस्त्र
शीर्षा० ऋच: १६ ॥
कद्रुदायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्रीअंत्यानुष्टुप् जपेवि० ॥ ॐ कद्रुद्राय प्रचेतसे० इतिनवर्चंसूक्तम् ॥ ततोग्निंवेध्यांग्रहांश्चप्रतिष्ठाप्यान्वाधानंकुर्यात् ॥ समिदृव
यमादायात्रप्रधानम् ॥ आदित्यादिनवग्रहान् अष्टाष्टसंख्याकाभि: अर्कादिजातीय समिदा
हुतिभिश्चर्वाहुतिभिराज्याहुतिभिश्च अधिदेवताप्रत्यधिदेवताध्याग्रहपीठदेवता एकैकसंख्या
काभि:समिच्चर्वाज्याहुतिभि: रुद्रंप्रत्येकमष्टोत्तरशतसंख्याकाभिरश्वत्थप्लक्षपलाशखदिरजा
तीयसमिदाहुतिभिश्चर्वाहुतिभिराज्याहुतिभि: संमिश्राभिस्तिलमाषसर्षपाहुतिभिश्च अग्नि
वायुसूर्यप्रजापतीनष्टोत्तरशतसंख्याभिस्तिलाहुतिभि:शेषेणस्विष्टकृतमित्याध्याज्यभागांतेकृते यजमानोयथादैवतंत्यागंकुर्यात् ॥
तदनंतरंहोमांतेस्विष्टकृदादिनवाहुत्यंतेबलिदानंपूर्णाहुति:प्रणीतानिनयनांतंसंस्थाजप: दंपत्योर्बालकस्यचाभिषेक: धौतवस्त्रचंदनादिधारणं आज्यंरुपंरुपमित्यवलोक्यसदक्षिणंद
त्त्वापूर्णाहुतिंहुत्वाकृतंकर्मरुद्रार्पणंकृत्वाआचार्यायवस्त्रयुग्मसहितसोपस्करगोनिष्क्रयदानंऋ
त्विग्भ्य:हिरण्यनिष्क्रयदानं स्थापितदेवतानांपूजनविसर्जनेआचार्यहस्तेप्रतिपादनंचअग्ने:
पूजनविसर्जनेयथाशक्तिब्राह्मणभोजनस्यसंकल्प: भूयसींदक्षिणांदत्त्वा विष्णुस्मरणंदर्प
णंच कुर्यात् इति ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP