संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथमंडपदेवताप्रतिष्ठा

संस्कारप्रकरणम् - अथमंडपदेवताप्रतिष्ठा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ साचेत्थं ॥ दूर्वाशमीपल्लवकुलदेवतावृक्षपल्लवानाम्रादिप्रशस्तवृक्षपत्रवेष्टितान्सूत्रे
णषोढावेष्टयेत् ॥ तत्रैकत्रमुसलमेकत्रचछुकरिकादिशस्त्रंमध्येप्रक्षिप्य वेष्टयेत् ॥ तानिष
ड्‍वंशपात्रेनिधायतन्मध्येउदक्संथेषुचतुर्षुक्रमेणनंदिनींनलिनींमैत्रांउमांपशुवर्धिनींभगवतींचा
वाह्य तंडुलपूर्णेहरिद्राखंडपूगीफलयुतेन्युज्जशरावपिहितेशरावेणसहसूत्रवेष्टितेहरिद्रादिरंजि
तेकलशेअविघ्नसंज्ञंगणपतिंचावाह्य तदस्तुगृहावैइतिप्रतिष्ठाप्यनीराज्यआसनाध्याचनांतं
कृत्वा तैलोद्वर्तनोष्णोदकैरभ्यंगस्नानंषण्णांवेष्टितानांकारयित्वागंधादिदक्षिणांतोपचारै:पू
जयित्वानीराज्य सपत्नीकउत्थायआग्नेयकोणस्थमंडपस्तंभोपरिनंदिनींतदस्तुगृहावैइतिप्र
तिष्ठाप्यसमुद्रज्येष्ठाआपोहिष्ठेतिमंत्राभ्यांप्रोक्ष्य गंधद्वारामितिगंधाक्षतान् दधिक्राव्णइ
तिदधि कांडात्कांडादिदूर्वा:पुष्पाणिचसमर्पयेत् ॥ ततोनैऋत्यवायव्यैशानस्तंभेषुमंडपमध्यो
परिभागेकाष्ठेचक्रमेण नलिनीमैत्रोमापशुवर्धिनीनामकवेष्टितानिउक्तवत्स्थापयित्वापूजये
त् ॥ याआपोदिव्याइतिनलिन्या:प्रोक्षणेमंत्र: ॥ यासांराजेतिमैत्राया: ॥ यासुराजेत्युमाया: ॥ समुद्रज्येष्ठाइत्यादिचत्वारोपिपशुवर्धिन्या: ॥ अन्यत्सर्वंसमानं ॥ ततोवंशपात्रेणसहभ
गवतींगौर्यादिमातृकास्थापितवंशपात्रंस्वयंगृहीत्वाअविघ्नकलशंचपत्न्याग्राहयित्वासहब्राह्मण:कनिक्रदज्जनुषमितिसूक्तंपठन्मंगलावाध्यघोषेणगृहांतर्गत्वा ईशानदेशेतंडुलादिपुंजत्रयो
परित्रीण्यपितदस्तुगृहावैइतिस्थापयित्वा चंदनादिनासंपूज्यस्थापितदेवताप्रीत्यर्थंब्राह्मणसु
वासिनीभोजनंसंकल्प्यभूयसींदध्यात् ॥ ततोनीराजिताभ्यांदंपतीभ्यांसुहृदोवस्त्राणि युवंव
स्त्राणि० अभिवस्त्रा० भद्रावस्त्रा० वसिष्वाहि० सतुवस्त्रा० उभाउनूनं इत्यादिमंत्रैर्दध्यु: ॥
ततोतिक्रांतजातकर्मादिसंस्कारानुष्ठानं ॥ इतिमंडपदेवताप्रतिष्ठा ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP