संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथदेवकोत्थापनमंडपोद्वासने

संस्कारप्रकरणम् - अथदेवकोत्थापनमंडपोद्वासने

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ उक्तकालेमंडपांत:सपत्नीकउपविश्याचम्यप्राणानायम्यदेशकालौसंकीर्त्य ॥ विवाहां
गत्वेनस्थापितदेवतानामुत्थापनंमंडपोद्वासनंतदंगंगणपतिपूजनंपुण्याहवाचनंचकरिष्येइति
संकल्प्यसर्वादेवता:प्रत्येकंप्रत्यहवत्पूजयित्वा ॥ ॐ उत्तिष्ठब्रह्मणस्पतेदेवयंतस्त्वेमहे ॥
उपप्रयंतुमरुत:सुदानवइंद्रप्राशूर्भवासचा ॥ ॐ अभ्यारमिद्रयोनिषिक्तंपुष्करेमधु ॥ अवतस्यविसर्जने ॥ इतिविसृज्यभगवत्यादीनांमंडपांतस्तैलाभ्यंगोव्दर्तनोष्णोदकस्नानपूर्व
कंपूजनंविधाय ॥ वेष्टनसूत्रमुन्मुच्यस्वस्तिवाचनंकुर्यात् ॥ तत्राभिषेकांतेपुरोधास्तच्छाखा
दिवंशपात्रेनिधायतदुपरिप्रक्षिप्ताभिषेकजलंसकुटुंबयजमानशिरसिकिंचिस्त्रावयन् ॥
ॐ प्रेतिचेतिचेत्येतव्दैसर्वंस्वस्तयनंयत्प्रेतिचेतिचेतितध्योस्यप्रियस्यात्तमेतेनानुमंत्रयेतप्रेति
चेतिस्वस्त्येवगच्छतिस्वस्तिपुनरागच्छतीति बाह्यणंपठेत् ॥ एवंत्रि:कुर्यात् ॥ तत:कर्ता
स्वशिरसिबध्दांजलिरस्मग्दोत्रेषट्सुषट्‍सुमासेषुशोभनमस्त्वितिभवंतोब्रुवंतु इतिद्विजान्प्रा
र्थयेत् ॥ तेचतथास्त्वितिब्रूयु: ॥ ततोद्विजान्संपूज्यतदाशिषोगृहीत्वासकुटुंबोभुंजीत ॥
इति ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP