संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथनागबलि: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथनागबलि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथनागबलि: Translation - भाषांतर श्री: ॥ सतुसिनीवाल्यांपौर्णिमास्यांपंचम्याशेल्षायुक्तनवम्यांवाकार्य: ॥ कर्तापर्षदंप्रदक्षिणीकृत्यनत्वातदग्रेगोवृषनिष्क्रयंनिष्कंतदर्धवानिधाय सभार्यस्यममेहजन्मानेजन्मांतरेवाज्ञादज्ञाद्वाजातसर्पवधदोषपरिहारार्थंप्रायश्चित्तमुपदिशंतुभवंत: ॥ सर्वेधर्मविवेक्तारइतिश्लोकान्पठित्वामामनुगृह्णंतुभवंतइतिप्रणमेत् ॥ तैश्चतुर्दशकृच्छ्रप्रायश्चित्तेनामुकप्रत्याम्नायद्वारापूर्वोत्तरांगसहितेनाचारितेनतवशुध्दिर्भविष्यतीत्युपदिष्टोदेशकालौसंकीर्त्य पर्षदुपदिष्टंचतुर्दशकृच्छ्रप्रायश्चित्तंयथोक्तप्रत्याम्नायेनाचरिष्येइतिसंकल्पपूर्वकंवपनादिविधिनातदाचरेत् ॥ वपनासंभवेद्विगुण:कृच्छ्रप्रत्याम्नाय: ॥ पूर्वोच्चरितएवंगुणविशिष्टायांपुण्यतिथौममसर्पवधदोषपरिहारार्थंब्राह्मणायलोहदंडदानं (तन्मूल्यदानवां) करिष्यइतिसंकल्प्यब्राह्मणंसंपूज्यस्वस्त्यस्तु० इमंलोहदंडंसर्पवधदोषहरंसदक्षिणंअमुकगोत्रायामुकशर्मणेब्राह्मणायतुभ्यमहंसंप्रददे प्रतिगृह्यतां देवस्यत्वासवितु० प्रतिगृह्णामीति विप्र: ॥ ततोगुर्वाज्ञांलब्ध्वाप्रियंगुव्रीहिगोधूमतिलोपिष्टेष्वेकतमपिष्टेनसर्पाकृतिंकृत्वाशूर्पेनिधायसर्पप्रार्थयेत् ॥ एहिपूर्वमृतसर्पअस्मिन्पिष्टेसमाविश ॥ संस्कारार्थमहंभक्त्याप्रार्थयामिसमाहित: ॥ तत: ॥ भुजंगेशायविद्महेसर्पजातायधीमहि ॥ तन्नोनाग:प्रचोदयातिआवाहनादिषोडशोपचारपूजांकृत्वा पुष्पांजलिंदत्वाप्रणिपत्य भोसर्पइमंबलिंगृहाणमाभ्युदयंकुरु इतिपायसादिनाबलिंसमर्प्यहस्तौपादौप्रक्षाल्याचामेत् ॥ तत:शुध्द:भूमौस्थित्वाप्राणानायम्यसंकल्पंकुर्यात् ॥ सभार्यस्यममेहजन्मनिजन्मांतरेवा ज्ञानादज्ञानाद्वा जातसर्पवधोत्थदोषपरिहारार्थंसर्पसंस्कारकर्मकरिष्येइतिसंकल्प्य स्थंडिलेलौकिकाग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अस्मिन्सर्पसंस्कारहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये अस्मिन्नन्वाहितेग्नावित्याध्याघारचक्षुष्यंतमुक्त्वात्रप्रधानं अग्निं वायुं सूर्यं एता:प्रधानदेवताआज्येन भूर्भव:स्वरितिसर्पमुखे प्रजापतिमाज्येन आज्यशेषेणसर्पंसध्योयक्ष्ये इत्युक्त्वासमिधावग्नावाधाय ततोग्नेरग्निदिशिभूमौजलेनप्रोक्ष्यचितिंकृत्वाअग्निंचितिंचपरिसमुह्य आग्न्येय्यग्रकैर्दर्भै:परिस्तीर्यपरिषिच्य षट्पात्राण्यासाध्येध्मानाध्याघारचक्षुष्यंतंकुर्यात् ॥ तत:सर्पंगृहीत्वाचित्यामारोप्य:श्रोत्रंचस्पृष्ट्वाअग्निसमीपमेत्य ॥ तत:प्रधानहोम: ॥ व्यस्तसमस्तव्याहृतीनांविश्वामित्रजमदग्निभरद्वाजप्रजापतयऋषय:अग्निवायुसूर्यप्रजापतयोदेवता: गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि सर्पसंस्थापनप्रधानाज्यहोमेवि० ॥ ॐ भू:स्वाहाअग्नयइदंनममेत्यादिव्यस्तव्याहृतित्रयेणाज्याहुतीरग्नौहुत्वा ॥ समस्तव्याहृत्याचतुर्थींसर्पमुखेजुहुयात् ॥ आज्यशेषंस्त्रुवेणैवसर्पदेहेनिषिंचेत् ॥ नात्रस्विष्टकृदादि ॥स्त्रुवंतत्रैवनिधाययज्ञपात्राणिबर्हिषिनिदध्यात् ॥ ततश्चितिंप्रदक्षिणीकृत्यप्रणम्यक्षमाप्यहस्तगृहीतैश्चमसजलै:समस्तव्याहृत्यासर्पंपाणिनाभ्युक्ष्य ॥ अग्नेरक्षणोवसिष्ठोग्निर्गायत्रीसर्पायाग्निप्रदानेविनि० ॥ ॐ अग्नेरक्षणोअंहस:प्रतिष्मदेवरीषत: ॥ तपिष्ठैरजरोदह ॥ ततउपस्थानं ॥ ॐ नमोअस्तुसर्पेभ्योयेकेचपृथिवीमनु ॥ येअंतरिक्षेयेदिवितेभ्य:सर्पेभ्योनम: ॥ येदोरोचनेदिवोयेवासूर्यस्यरश्मिषु ॥ येषामप्सुषद:कृतंतेभ्य:सर्पेभ्यो० ॥ याइषवोयातुधानानांयेवावनस्पतीरनु ॥ येवावटेषुशेरतेतेभ्य:सर्पेभ्यो० ॥ अथपौराणमंत्रा: ॥ कर्कोटकनमस्तेस्तुशंखपालनमोस्तुते ॥ नागराजमहादेवदिव्यरुपायतेनम: ॥ अफणा:फणिनोयेचसविषानिर्विषाश्चये ॥ सर्वेवटेशया:सर्पा:पुण्यमूर्तेनमोस्तुते ॥ त्वयाभगवतेश्रीमद्वासुदेवायनिर्मितं ॥ स्वभोगेनैवपर्यंकमायतंभोगिनांवर ॥ त्वयेयंजगतीस्वामिन्स्वफणामंडलोपरि ॥ धृतैकदेशेह्यणुवत्तस्मैतुभ्यंनमोनम: ॥ इतिदह्यमानंसर्पमुपस्थाय ॥ त्राहित्राहिमहाभोगिन्सर्पोपद्रवदु:खत: ॥ संततिंदेहिमेपुण्यांनिर्दुष्टांदीर्घदेहिनीम् ॥ प्रपन्नंपाहिमांभक्त्याकृपालोदीनवत्सल ॥ ज्ञानतोऽज्ञानतोवापिकृत:सर्पवधोमया ॥ जन्मांतरेतथैतस्मिन्मपूर्वैरथवाविभौ ॥ तत्पापंनाशयक्षिप्रमपराधंक्षमस्वमे ॥ इतिप्रार्थ्यस्त्रात्वागत्य व्याहृतिभि:क्षीराज्येनाग्निंसंप्रोक्ष्यहुतेसर्पेजलेनाग्निंसिंचेत् ॥ नात्रास्थिसंचयनं ॥ इदंसर्वंसव्येनैवकार्यं ॥ तत:स्त्रात्वाचम्यगृहंगच्छेत् ॥ कर्तासभार्यस्त्रिरात्रमाशौचंब्रह्मचर्यंचकुर्यात् ॥ बोधायनमतेत्वेकरात्रमाशौचं ॥ ततश्चतुर्थेहनिसचैलंस्त्रात्वाष्टौविप्रान्निमंत्र्य आचम्यप्राणानायम्यदेशकालौसंकीर्त्य नागबल्यंगविहितंब्राह्मणभोजनंकरिष्ये इतिसंकल्प्य ॥ सर्पस्वरुपिणेब्राह्मणायइदंतेपाध्यं एवंअनंतस्व० शेषस्व० कपिलस्व० नागस्व० कालिकस्व० शंखपालस्व० भूधरस्वरुपिणे० इतिक्रमेणतेषांपादौप्रक्षाल्यतानाचमय्यस्वयंचाचम्य विप्रान्प्राड्मुखानुदमुखान्वोपवेश्य ॥ सर्पस्वरुप० भूर्भव:स्वरिदमासनं आस्यतां ॥ एवमनंतादिभ्य: ॥ सर्पस्थानेक्षण:क्रियतां ॥ प्राप्नोतुभवान् ॥ एवमनंतस्थानेइत्यादि ॥ भो:सर्पस्वरुपअयंतेगंध: ॥ तत:पुष्पधूपदीपवस्त्रादिदध्यात् ॥ एवमन्येषामपिपूजनांतेचतुरस्त्रमंडलेषुपात्राणिनिधायपायसभक्ष्यादीन्परिविष्यसावित्र्याप्रोक्ष्यपरिषिच्य सर्पायेदमन्नममृतरुपंपरिविष्टंपरिवेक्ष्यमाणंचातृप्ते:स्वाहासंपध्यतांनमम ॥ एवंसर्वेषां ॥ आचांतेषुप्रागग्रदर्भेषु भो:सर्पअयंतेबलिर्नममेत्यादिनामंत्रै:पिंडरुपान्पायसबलीन्दत्वावस्त्रादिभिरभ्यर्च्यविप्रेभ्यस्तांबूलंदक्षिणांचदत्वाविसर्जयेत् ॥ इदमपिसर्वंसव्येनैवकार्यं ॥ ततोमहीध्यौरित्यादिविधिनास्थापितकलशेसौवर्णंनागंषोडशोपचारैरभ्यर्च्यप्रार्थयेत् ॥ ब्रह्मलोकेचयेसर्पा:शेषनागपुरोगमा: ॥ नमोस्तुतेभ्य:सुप्रीता:प्रसन्ना:संतुमेसदा ॥ विष्णुलोकेचयेसर्पावासुकिप्रमुखाश्चये ॥ नमोस्तुतेभ्य:सुप्रीता:प्रसन्ना:संतुमेसदा ॥ रुद्रलोकेचयेसर्पास्तक्षकप्रमुखास्तथा ॥ नमोस्तुतेभ्य:० ॥ खांडवस्यतथादाहेस्वर्गंयेचसमाश्रिता: ॥ नमोस्तुतेभ्य:० ॥ सर्पसत्रेचयेसर्पाआस्तिकेनाभिरक्षिता: ॥ नमोस्तुतेभ्य:० ॥ मलयेचैवयेसर्पा:कर्कोटप्रमुखाश्चये ॥ नमोस्तुतेभ्य:० ॥ धर्मलोकेचयेसर्पावैतरण्यांसमाश्रिता: ॥ नमोस्तुतेभ्य:० ॥येसर्पा:पर्वतीयेषुदरीसंधिषुसंस्थिता: ॥ नमोस्तुतेभ्य:० ॥ ग्रामेवायदिवारण्येयेसर्पा:प्रचरंतिहि ॥ नमोस्तुतेभ्य:० ॥ पृथिव्यांचैवयेसर्पायेसर्पाबिलसंस्थिता: ॥ नमोस्तुतेभ्य:० ॥ रसातलेचयेसर्पाअनंताध्यामहाबला: ॥ नमोस्तुतेभ्य:० ॥ एवंस्तुत्वाचार्यंसंपूज्य कृतस्यसर्पसंस्कारकर्मण:सांगतासिध्यर्थंइमंहेममयंनागंसकलशंसवस्त्रंसदक्षिणंतुभ्यमहंसंप्रददे ॥अनेनस्वर्णनागदानेनअनंतादयोनागदेवता:प्रीयंतां ॥ ततस्तस्मैसवृषभांकृष्णांगांतन्निष्क्रयंवादध्यात् ॥ ततोदंपतीवस्त्रालंकारादिभिर्यथाविभवमन्यान्ब्राह्मणांश्चसंपूज्ययस्यस्मृत्याचनामोक्तेत्युक्त्वा ॥ मयायत्कृतंसर्पसंस्काराख्यंकर्मतभ्दवतांब्राह्मणानांवचनात् ॥श्रीपरमेश्वरप्रसादात्सर्वंपरिपूर्णमस्तु ॥ तथास्त्वितितेब्रूयु: । तत:कर्मण:सांगतायैयथाशक्तिब्राह्मणान्संभोज्यभूयसींदत्वाकर्मसमापयेत् ॥ कृत्वासर्पस्यसंस्कारमनेनविधिनानर: ॥ विरोगोजायतेक्षिप्रंसंततिंलभतेशुभां ॥ ॥ इतिनागबलिं: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP