संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथग्रहयज्ञ:परिशिष्टोक्त: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथग्रहयज्ञ:परिशिष्टोक्त: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथग्रहयज्ञ:परिशिष्टोक्त: Translation - भाषांतर श्री: ॥ यजमान:स्नात्वानित्यकर्मनिर्वर्त्यमौहूर्तिकोत्तेशुभेकालेआचम्यपवित्रपाणि:प्राणानायम्यदेशकालौसंकीर्त्यकरिष्यमाणेऽमुकस्मिन्नाभ्युदयिकेनिर्विघ्नेफलसिध्दिकामोबर्व्हचगृह्यपरिशिष्टोक्तरीत्याग्रहयज्ञंकरिष्ये ॥ इतरनिमित्तेपुषअमुककर्मकर्तुमादौग्रहानुकूल्यसिध्दिद्वाराअमुककामनासिध्दिद्वाराबाश्रीपरमेश्वरप्रीत्यर्थंग्रहयज्ञंकरिष्यइतिसंकल्प्य ॥ तदंगंगणपतिपूजनंस्वस्तिवाचनमाचार्यादिवरणंचकरिष्ये ॥ आचार्यवरणं ॥ ब्राह्मणंसंपूज्यअमुकप्रवरान्वितोऽमुकगोत्रोऽमुकशर्माअहं ॥ अमुकप्रवरान्वितममुकगोत्रोत्पन्नंऋग्वेदांतर्गतशाकलशाखाध्यायिनममुकशर्माणंब्राह्मणंअस्मिन् ग्रहयज्ञेआचार्यंत्वांवृणे ॥ इतिवृत्वाप्रार्थयेत् ॥ आचार्यस्तुयथास्वर्गेशक्रादीनांबृहस्पति: ॥ तथात्वंममयज्ञेस्मिन्नाचार्योभवसुव्रत ॥ विप्रोवृतोस्मियथाज्ञानत:कर्मकरिष्यामीतिवदेत् ॥ ब्रह्मवरणं ॥ यथाचतुर्मुखोब्रह्मास्वर्गेलोकेपितामह: ॥ तथात्वंममयज्ञेस्मिन्ब्रह्माद्विजपतेभव ॥ सदस्यचरणं ॥ त्वंनोगुरु:पितामातात्वंप्रभुस्त्वंपरायणं ॥ त्वत्प्रसादाच्चविप्रर्वेसर्वमेस्यान्मनोगतं ॥ आपद्विमोक्षणार्थायकुरुयज्ञमतंद्रित: ॥ ऋत्विग्भि:सहित:शुध्दै:संयतै:सुसमाहित्तै: ॥ आचार्येणचसंयुक्त:कुरुकर्मयथोदितं ॥ गाणपत्यवरणं ॥ प्रारिप्सितस्ययज्ञस्यजपस्यहवनस्य ॥ निर्विघ्नेनसमाप्त्यर्थंत्वामहंगणपंवृणे ॥ उपद्रष्टचरणं ॥ भगवन्सर्वधर्मज्ञसर्वधर्मभृतांवर ॥ विततेममयज्ञेस्मिन्नुपद्रष्टाभवद्विज ॥ ऋत्विजश्चयथापूर्वंशक्रादीनांमखे ऽभवन् ॥ यूयंतथामेभवतऋत्विजोर्हथसत्तमा: ॥ अस्ययागस्यनिष्पत्तौभवंतोभ्यर्थितामया ॥ सुप्रसन्नैश्चकर्तव्यंकर्मेदंविधिपूर्वकं ॥ इतिऋत्विज:संप्रार्थ्ययथाविभवमर्चयेत् ॥तेचयथाज्ञानत:कर्मकरिष्यामीत्युक्त्वाआचामेयु: ॥ अथाचार्य:आचम्यपवित्रंधृत्वाप्राणानायम्यदेशकालौंसंकीर्त्ययजमानेनग्रहयज्ञाख्येकर्मणिवृतोहमाचार्यकर्मकरिष्येइतिसंकल्प्य ॥पृथ्वित्वया० ॥ यज्ञकर्मसमारभे ॥ इत्यासनविधिंपुरुषसूक्तन्यासंजपंवाकृत्वा षडंगन्यासंविधाय ॥ कलशस्यमुखे० इतिकलशपूजांकृत्वा ॥ अपवित्र:पवित्रोवा० इतिपूजासंभारान्प्रोक्ष्यआत्मानंचप्रोक्षेत्त् ॥ तत:यदत्रंसंस्थितंभूतंस्थानमाश्रित्यसर्वत: ॥ स्थानंत्यक्त्वातुत्सर्वंयत्रस्थंतत्रगच्छतु ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशं ॥ सर्वेषामवरोधेनयज्ञकर्मसमारभे ॥ इतिगौरसर्षपान्विकीर्य ॥ शुचीवोहव्येतितिसृणांमैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् ॥ अग्नि:शुचिव्रततम:शुचिर्विप्र:शुचि:कवि: ॥ शुचीरोचतआहुत: ॥ उदग्नेशुचयस्तवशुक्राभाजंतईरते ॥ तवज्योतींष्यर्चय: ॥ एतोन्विंद्रंस्तवामशुध्दंशुध्देनसाम्ना ॥ शुध्दैरुक्थैर्वावृध्वांसंशुध्दआशीर्वान्ममत्तु ॥ इंद्रशुध्दोवृत्राणिजिघ्नसेशुध्दोवाजंसिषाससि ॥ पंचगव्येनभूमिप्रोक्षणं ॥ आपोहिष्ठेतितृचस्यांबरीष:सिंधुद्वीपआपोगायत्री भूमिप्रोक्षणेविनियोग: ॥ ॐ आपोहिष्ठा० इतितृचेन कुशोदकेनचप्रोक्षेत् ॥ अपवित्र:पवित्रोवासर्वावस्थांगतोपिवा ॥य:स्मरेत्पुंडरीकाक्षंसबाह्याभ्यंतर:शुचि: ॥ तत:कृतांजलिपुततिष्ठन् ॥ ॐ स्वस्त्ययनंतार्क्ष्यमरिष्टनेमिंमहद्भूतंवायसंदेवतानां ॥ असुरघ्नमिंद्रसखंसमत्सुबृहध्यशोनामिवारुहेम ॥ अंहोमुचमांगिरसंगयम्चस्वस्त्यात्रेयंमनसाचताक्यै ॥ प्रयतपाणि:शरणंप्रपध्येस्वस्तिसंबाधेष्वभयंनोअस्तु ॥ देवाआयांतु ॥ यातुधानाअपयांतु ॥ विष्णोदेवयजनंरक्षस्व ॥ भूमौप्रादेशंकुर्यात् ॥ ततोग्रहपतिमानामग्न्युत्तारणंकृत्वा हस्तमात्रावरंचतुरस्त्रंकुंडंस्थंडिलंवासंस्कृत्यतईशान्यांकृतायांचतुर्दिक्षुहस्तमात्रावरायांचतुस्त्रिद्वयं गुलप्रमाणत्रिभूमिकायांग्रहवेध्यांशुक्लंतंडुलै:सकर्णिकमष्टदलमंबुजमुल्लिख्यकर्णिकायांदलेषुचवर्तुलादिदत्तन्द्रहपीठानिपीठेनवकुर्यात् ॥ यथा-मधेरक्ताक्षतैर्वर्तुलमादित्याय ॥१॥आग्नेयदलेशुक्लाक्षतैश्चतुरस्त्रंसोमाय ॥२॥दक्षिणदलेरक्ताक्षतैस्त्रिकोणंमंगलाय ॥३॥ईशानदलेहरिताक्षतैर्बाणाकारंबुधाय ॥४॥उत्तरदलेपीताक्षतैर्दीर्घचतुरस्त्रंगुरवे ॥५॥पूर्वदलेशुक्लाक्षतै:पंचकोणंशुक्राय ॥६॥पश्चिमदलेकृष्णाक्षतैश्चापाकारंशनैश्वराय ॥७॥नैऋत्यदलेकृष्णाक्षतै:शूर्पाकारंराहवे ॥८॥वायव्यदलेचित्राक्षतैर्ध्वजाकारंकेतवे ॥९॥इतिविलिख्यततउदीच्यांरंगवल्लीपद्मेधान्येनकुंभयोग्यंपीठंप्रकल्प्यतत्रनवमव्रणंतैजसंमृण्मयंवानुलिप्तमक्षतपुष्पमलाध्यलंकृतंशुभमभिषेककुंभंस्थापयेत् ॥ यथा - (महीध्यौ:काण्वोमेधातिथिर्भूमिगायत्री भूमिप्रार्थनेविनियोग: ॥ ॐ महीध्यौ:पृथिवीचनइमंयज्ञंमिमिक्षतां ॥ पिपृतांनोभरीमभि: ॥ इतिभूमिंप्रार्थ्य ॥ ओषधइत्यस्याथर्वणोभिषगोषधयोनुष्टुप् धान्यराशिकरणेवि० ॥ ॐ ओषधय:सवदंतेसोमेनसहराज्ञा ॥ यस्मैकृणोतिब्राह्मणस्तंराजन्पारयामसि ॥ इतिधान्यराशिंकृत्वा) आकलशेष्वित्यस्यकाश्यपोदेवल:पवमान:सोमोगायत्री कलशस्थापनेवि० ॥ ॐ आकलशेषुधावतिपवित्रेपरिषिच्यते ॥ उक्थैर्यज्ञेषुवर्धते ॥ इतिधान्यराश्युपरिकलशंनिधाय ॥ इमंमेगंगइत्यस्यसिंधुक्षित्प्रैयमेधोनध्योजगती उदकपूरणेवि० ॥ ॐ इमंगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुद्वृधेवितस्तयार्जीकीयेश्रृणुह्यासुषोमया ॥ अनेनपुण्यजलेनपूरयित्वा ॥ गायत्र्याविश्वामित्र:सवितागायत्री गोमूत्रप्रक्षेपणेवि० ॥ ॐ तत्सवि० ॥ अनेनगोमूत्रंचनिक्षिप्य ॥ गंधद्वारामित्यस्यानंदकर्दमचिक्लीतेंदिरासुता:श्रीरनुष्टुप् गोमयप्रक्षेपणेवि० ॥ ॐ गंधद्वारांदुराधर्षांनित्यषुष्टांकरीषिणीं ॥ ईश्वरींसर्वभूतानांतामिहोपह्वयेश्रियं ॥ अनेनगोमयं ॥ आप्यायस्वेत्यस्यराहूगणोतम: सोमोगायत्री पय:प्रक्षेपणेवि० ॥ ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ अनेनगोक्षीरं ॥ दधिक्राव्णैत्यस्यराहूगणोतोतम: सोमोगायत्री पय:प्रक्षेपणेवि० ॥ ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ अनेनगोक्षीरं ॥ दधिक्राब्णैत्यस्यगोतमोवामदेवोदधिक्रावानुष्टुप् दधिप्रक्षेपणेवि० ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्ववाजिन: ॥ सुरभिनोमुखाकरत्प्रणआयूंषितारिषत् ॥ अनेनदधि ॥ ॐ शुक्रमसिज्योतिरसितेजोसि ॥ इतिघृतं ॥ पुनराप्यायस्वेत्यादित्रिभि:क्षीरदधिघृतानिप्रक्षिप्य ॥ मधुवाताइतितिसृणांराहूगणोगोतमोविश्वेदेवागायत्री ॥ मधुप्रक्षे० ॥ ॐ मधुवाता० ऋ०३ ॥ स्वादु:पवस्वभार्गवोवेन:पवमान:सोमोजगती ॥ शर्कराप्रक्षे० ॥ ॐ स्वादु:पवस्व० ॥ शर्करांचप्रक्षिप्य ॥ हयगजवल्मीकहृदगोष्ठराजद्वारचतुष्पथमृद: ॥उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ मृत्तिकेहनमेपापंयन्मयादुष्कृतंकृतं ॥ अनेनाथवा स्योनापृथिविकाण्वोमेधातिथिर्भूमिर्गायत्रीमृत्क्षेपणेवि० ॥ ॐ स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छान:शर्मसप्रथ: ॥ इतिमृदंकुंभेनिक्षिप्य ॥ रुवतिभीमइत्यस्य वैश्वामित्रोरेणु:पवमान:सोमोजगती ॥ त्वक् क्षेपणेवि० ॥ ॐ रुवतिभीमोवृषभस्तविष्ययाशृंगेशिशानोहरिणीविचक्षण: ॥ आयोनिंसोम:सुकृतंनिषीदतिगव्ययीत्वग्भवतिनिर्णिगव्ययी ॥ अनेनग्रोधाश्वत्थप्लक्षजंबूचूतवृक्षत्वच: ॥ या:फलिनीरित्यस्याथर्वणोभिषगोषधोयुनुष्टुप् पुष्पफलक्षेपणेवि० ॥ ॐ या:फलिनीर्याअफलाअपुष्पायाश्चपुष्पिणी: ॥ बृहस्पतिप्रसतानोमूंचंत्वंहस: ॥ इतिपुष्पफले ॥ सहिरत्नानीत्यस्यश्यावाश्व:सवितागायत्री रत्नक्षेपेवि० ॥ ॐ सहिरत्नानिदाशुषेसुवातिसविताभग: ॥ तंभागंचित्रमीमहे ॥ अनेननवरत्नानिहीरकौक्तिकपद्मरागनीलमरकतगोमेदपुष्परागवैडूर्यप्रवालाख्यानि ॥ हिरण्यरुपइत्यस्यशौनकोगृत्समदोपान्नपात्रिष्टुप् ॥ हिरण्यक्षेपेवि० ॥ ॐ हिरण्यरुप:सहिरण्यसंदृगपान्नापात्सेदुहिरण्यवर्ण: ॥ हिरण्ययात्परियोनेर्निषध्याहिरण्यदादत्यन्नभस्मै ॥ इतिहिरण्यं ॥ याओषधिरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ ओषधिप्र० ॥ ॐ याऽओषधी:पूर्वाजातादेवेभ्यस्त्रियुगंपुरा ॥ मनिनुबभ्रूणामहंशतंधामानिसप्तच ॥ अनेनशतौषधानि तदभावेदशमूलानि ॥तदभावेसुवर्णंवा ॥ गंधद्वारामितिगंधंनिक्षिप्य ॥ ॐ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणी ॥ ईश्वरीसर्वभूतानांतामिहोपह्वयेश्रियं ॥ तत:कांडात्कांडादितिदूर्वा:प्रक्षिप्य ॥ प्रवोयज्ञेष्वित्यस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ पल्लवप्रक्षेवेपि० ॥ ॐ प्रवोयज्ञेषुदेवयंतोअर्चन्ध्यावानमोभि:पृथिवीइषध्यै ॥ येषांब्रह्माण्यसमानिविप्राविष्वग्वियंतिवनिनोनशाखा: ॥अनेनन्यग्रोधाध्युक्तवृक्षपल्लवैर्मुखमाच्छाध्य ॥ युवंवस्त्राणीत्यस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् ॥ कुंभेवस्त्रयुग्मवेष्टनेवि० ॥ ॐ युवंवस्त्राणिपीवसावसाथेयुवोरच्छिद्रामंतवोहसर्गा: ॥ अवातिरतमनृतानिविश्वऋतेनमित्रावरुणासचेथे ॥ इतिवस्त्रयुग्मेनवेष्टयित्वाकुंभेतीर्थान्यावाहयेत् ॥ सर्वेसमुद्रा:सरितस्तीर्थानिजलदानदा: ॥ आयांतुयजमानस्यदुरितक्षयकारका: ॥ गंगेचयमुनेचैवगोदावरिसरस्वति ॥ नर्मदेसिंधोकावेरिजलेस्मिन्संधिंकुरु ॥इमंमेगंग इत्यस्यसिंधुक्षित्प्रैयमेधोनध्योजगती ॥ तीर्थावाहने० ॥ ॐ इमंगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुद्वृधेवितस्तयार्जीकीयेशृणुह्यासुषोमया॥ इतितीर्थान्यावाह्य ॥ तत:कुंभमभिमृश्यजपेत् ॥ आपोहिष्ठेतितिसृणामांबरीष:सिंधुद्वीपआपोगायत्री ॥ नहितेक्षत्रम्तित्तिसृणामाजीगर्ति:शुन:शेषोवरुणस्त्रिष्टुप् ॥ स्वादिष्टयेतितिसृणांमधुच्छंदा:पवमान:सोमोगायत्री ॥ सर्वासांजपेविनि० ॥ ॐ आपोहिष्ठा० ऋ० ३॥ ॐ नहितेक्षत्रंनसहोनमन्युंवयश्चनामीपतयंतआपु: ॥ नेमाऽआपोअनिमिषंचरंतीर्नयेवातस्यप्रमिनंत्यभ्वं ॥ अबुध्नेराजावरुणोवनस्योर्ध्वंस्तूपंददतेपूतदक्ष: ॥ नीचीना:स्थुरुपरिबुध्नएषामस्मेअंतर्निहिता:केतव:स्यु: ॥ उरुंहिराजावरुणश्चकारसूर्यायपंथामन्वेतवाऽउ ॥ अपदेपादाप्रतिधातवेकरुतापवक्ताहृदयाविधश्चित् ॥३॥इतिकुंभमभिमंत्रयेत् ॥ (अवऋक्त्रयेणैवसिध्देप्राचांसूक्तोपन्यासश्चिंत्यैतिकौस्तुभे) ॥अथयजमान:प्राड्मुख:समाहितचित्तआचार्यर्त्विक्सहित:पुण्याहवाचनंकुर्यात् ॥ अस्यनवग्रहमखकर्मण:पुण्याहंभवंतोब्रुवंत्विति ॥ एवंस्वस्तीति ॥ ऋध्दिंभ० ॥ श्रीरस्विति ॥ ततोग्रहपूजांकरिष्येइतिसंकल्प्य पूर्वनिर्मितपीठेषुयथास्थानमुखीर्ग्रहप्रतिमा:स्थापयित्वातद्दक्षिणवामपार्श्वयोरधिदेवताप्रत्यधिदेवताप्रतिमेतदभिमुख्यौस्थोपयेत् ॥ प्रतिमानामसंभवेपूगीफलपुष्पाक्षतादिषुदेवताआवाहयेत् ॥ प्रत्यावाहंप्रतिमायांपूगीफलादौवापुष्पांजल्यर्पंणं ॥ तत्रायंक्रम: ॥ प्रणवस्यपरब्रह्मपरमात्मागायत्री ॥ व्यस्तसमस्तव्याहृतीनामत्रिभृगुभरद्वाजप्रजापतयोग्निवायुसूर्यप्रजापतयोगायत्र्युष्णिगनुष्टुब्बृहत्य: ॥ ग्रहावाहानेविनियोग: ॥ॐ भूरादित्यमावाहयामि ॥ ॐ भुवआदित्यमा० ॥ ॐ स्वरादित्यमा० ॥ ॐ भूर्भव:स्वरादित्यमा० ॥ आकृष्णेनेत्यस्यहिरण्यस्तूप:सवितात्रिष्टुप् सूर्यावाहनेविनियोग: ॥ ॐ आकृष्णेनरसजावर्तमानोनिवेशयन्न्मृतंमर्त्यंच ॥ हिरण्ययेनस्वैतारथेनादेवोयातिभुवनानिपश्यन् ॥ भगवन्नादित्यग्रहाधिपतेकाश्यपगोत्रकलिंगदेशेश्वरजपापुष्पोपमांगध्युतेद्विभुजपद्माभयहस्तसिंदूरवर्णांबरमाल्यानुलेपनज्वलन्माणिक्यखचितसर्वांगाभरणभास्करतेजोनिधेत्रिलोकप्रकाशकत्रइदेवतामयमूर्तेनमस्तेसन्नध्दारुणध्वजपताकोपशोभितेनसप्ताश्वरथवाहनेन मेरुंप्रदक्षिणीकुर्वन्नागच्छाग्निरुद्राभ्यांसहपद्मकर्णिकायांताम्रप्रतिमांप्राड्मुखींवर्तुलपीठेऽधितिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भूरादित्याधिदेवमग्निमावाहयामि ॥ ॐ भुवआदित्याधिदेव० ॥ ॐ स्वरादित्याधिदेव० ॥ ॐ भूर्भव:स्वरादित्याधिदेव० ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री अग्न्यावाहनेविनि० ॥ ॐ अग्निंदूतंवृणीमहेहोतारंविश्ववेदसं ॥ अस्ययज्ञस्यसुक्रतुं ॥ पिंगश्मश्रुकेशंपिंगाक्षित्रितयमरुणवर्णांगंछागस्थंसाक्षसूत्रंसप्तार्चिषंशक्तिधरवरदहस्तद्वयमादित्याधिदेवमग्निमावाहयामि ॥ वामपार्श्वे ॥ ॐ भूरादित्यप्रत्यधिदेवंरुद्रमावाहयामि ॥ ॐ भुवाआदित्यप्र० ॥ ॐ स्वरादित्यप्र० ॥ ॐ भूर्भव:स्व:स्वरादित्यप्र० ॥ त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टुप् रुद्रावाहनेविनियोग: ॥ॐ त्र्यंबकंयजामहेसुगंधिपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥ त्रिलोचनोपेतंपंचवक्रंवृषारुढंकपालशूलखट्वांगधारिणंचंद्रमौलिंसदाशिवमादित्यप्रत्यधिदेवंरुद्र्मावा० ॥१॥तदृक्षिणपूर्वदले ॥ ॐ भू:सोममावा० ॥ ॐ भुव:सोममा० ॥ ॐ स्व:सोममावाहयामि ॥ ॐ भूर्भव:स्व:सोममावाहयामि ॥ आप्यायस्वगोतम:सोमोगायत्री सोमावाहनेविनियोग: ॥ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ भगवन्सोमद्विजाधिपतेसुधामयशरीरात्रिगोत्रयायमुनदेशेश्वरगोक्षीरध्वलांगकांते द्विभुजगदावरदानांकितकरशुक्लांबरमाल्यानुलेपनसर्वांगमुक्तमौक्तिकाभरणरमणीयसमस्त्लोकाप्यायकदेवतास्वाध्यमूर्तेनमस्तेसन्नध्दधवलध्वजपताकोपशोभितेनदशश्वेताश्वरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छाभ्दिरुमयाचसहपद्माग्नेयदलमध्येस्फाटिकप्रतिमांप्रत्यड्यमुखींचतुरस्त्रपीठेऽधितिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भू:सोमाधिदेवताअप आवाहयामि ॥ ॐ भुव:सोमा० ॥ ॐ स्व:सोमा० ॥ ॐ भूर्भव:स्व:सोमा० ॥ अप्सुमइत्यस्यांबरीष:सिंधुद्वीपआपोगायत्री ॥ अबावा० ॥ ॐ अप्सुमेसोमोअब्रवीदंतर्विश्वानिभेषजा ॥ अग्निंचविश्वशंभुवं ॥ स्त्रीरुपधारिणी:श्वेतवर्णामकरवाहना:पाशकलशधारिणीर्मुक्ताभरणभूषिता: सोमाधिदेवताअपआवा० ॥ तद्वामपार्श्वे ॥ ॐ भू:सोमप्रत्यधिदेवतामुमामावा० ॥ ॐ भुव: सोमप्र० ॥ ॐ स्व:सोमप्र० ॥ ॐ भूर्भव:स्व:सोमप्र० ॥ गौरीर्मिमायादीर्घतमाउमाजगती उमावाहनेविनियोग: ॥ ॐ गौरीर्मिमायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी ॥ अष्टापदीनवपदीबभूवुषीसहस्त्राक्षरापरमेव्योमन् ॥ अक्षसूत्रकमलदर्पणकमंडलुधारिणींत्रिदशपूजितांसोमप्रत्यधिदेवतामुमामावाहयामि ॥२॥दक्षिणत्रिकोणमंडले ॥ ॐ भूरंगारकमावाहयामि ॥ ॐ भुवोंगारक० ॥ ॐ स्वरंकारक० ॥ ॐ भूर्भव:स्वरंगारक० ॥ अग्निर्मूर्धाविरुपोंगारकोगायत्री अंगारकावाहनेविनियोग: ॥ॐ अग्निर्मूर्धादिव:ककुत्पति:पृथिव्याअयं ॥ अपांरेतांसिजिन्वति ॥ भगवन्नंगारकाग्र्याकृभारद्वाजगोत्रावंतिदेशेश्वरज्वालापुंजोपमांगध्युतेचतुर्भुजशक्तिशूलगदाखड्गधारिन् ॥रक्तांबरमाल्यानुलेपनप्रवालाभरणभूषितसर्वांगदुर्धरालोकदीप्तेनमस्तेसन्नध्दरक्तध्वजपताकोपशोभितेनरक्तमेषरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छभूमिस्कंदाभ्यांसहपद्मदक्षिणदलमध्ये रक्तचंदनप्रतिमांदक्षिणामुखींत्रिकोणपीठेऽधितिष्ठपूजार्थंत्वामावाहयामि ॥ तद्दक्षिणपार्श्वे ॥ ॐ भूरंगारकाधिदेवतांभूमिमावाहयामि ॥ ॐ भुवोंगारक० ॥ ॐ स्वरंगारक० ॥ ॐ भूर्भव:स्वरंगारक० ॥ स्योनापृथिवीत्यस्यमेधातिथिर्भूमिर्गायत्री ॥ भूम्यावाहने० ॥ॐ स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छान:शर्मसप्रथ: ॥ शुक्लवर्णांदिव्याभरणभूषितांचतुर्भुजांसौम्यवपुषंडांशुसदृशांबरांरत्नपात्रसस्यपात्रौषधिपात्रपद्मोपेतकरांचतुर्दिड्गापृष्ठगतामंगारकाधिदेवतांभूमिमावा० ॥ तद्वामपार्श्वे ॥ ॐ भूरंगारकप्रत्यधिदेवंस्कंदमावा० ॥ ॐ भुवोऽड्गारक० ॥ ॐ स्वरंगारक० ॥ ॐ भूर्भव:स्वरंगारक० ॥ कुमारश्चिदित्यस्यगृत्समद:स्कंदस्त्रिष्टुप् स्कंदावाहने० ॥ ॐ कुमारश्चित्पितरंवंदमानंप्रतिनानामरुद्रोपयंतं ॥ भूरेर्दातारंसत्पतिंगृणीषेस्तुतस्त्वंभेषजारास्यस्मे ॥ षण्मुखंशिखंडकविभूषणंरक्तांबरधरंमयूरयानंकुक्कुटघंटापताकाशक्त्युपेतचतुर्भुजमंगारकप्रत्यधिदेवंस्कंदमावाहयामि ॥३॥तत:प्रागुत्तरदले ॥ ॐ भूर्बुधमावाहयामि ॥ ॐ भुवोबुध० ॥ ॐ स्वर्बुध० ॥ ॐ भूर्भव:स्वर्बुधमावाहयामि ॥ उब्दुध्यध्वंबुधोबुधस्त्रिष्टुप् ॥ बुधावाहनेविनियोग: ॥ ॐ उब्दुध्यध्वंसमनस:सखाय:समग्निमिंध्वंबहव:सनीळा: ॥ दधिक्रामग्निमुषसंअदेवीमिंद्रावतोवसेनिह्वयेव: ॥ भगवन्सौम्यसौम्याकृतेसर्वज्ञानमयात्रिगोत्रमगधदेशेश्वर्कुंकुमवर्णोपमांगध्युतेचतुर्भुजखड्गखेटकगदावरदानांकितपीतांबरमाल्यानुलेपनमरकताभरणालंकृतसर्वांगविबुधपते नमस्तेसन्नध्दपीतध्वजपताकोपशोभितेनचतु:सिंहरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छविष्णुपुरुषाभ्यांसहैशानलदलमध्ये सुवर्णप्रतिमामुदड्मुखींबाणाकारपीठेतिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भूर्बुधाधिदेवंविष्णुमावा० ॥ ॐ भुवोबुधा० ॥ ॐ स्वर्बुधा० ॥ ॐ भूर्भव:स्वर्बुधाधिदेवं० ॥ इदंविष्णुर्मेधातिथिर्विष्णुर्गायत्रीविष्णवावा०॥तद्वामपार्श्वे ॥ ॐ भूर्बुधप्रत्यधिदेवंपुरुषमावा० ॥ ॐ भुवोबुध० ॥ ॐ स्वर्बुध० ॥ ॐ भूर्भव:स्वर्बुध० ॥ सहस्त्रशीर्षानारायण:पुरुषोनुष्टुप् पुरुषावाह० ॥ ॐ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशांगुलं ॥ कौमोदकीपद्मशंखचक्रोपेतंचतुर्भुजंसौम्यप्रत्यधिदेवंपुरुषमावाहयामि ॥४॥ततउत्तरदले ॥ ॐ भूर्बहस्पतिमावा० ॥ ॐ भुवोबृह० ॥ ॐ स्वर्बृहस्पति० ॥ ॐ भूर्भव:स्वर्बृह० ॥ बृहस्पतेअतीत्यस्यगृत्समदोबृहस्पतिस्त्रिष्टुप् बृहस्पत्यावाहनेविनियोग: ॥ॐ बृहस्पतेअतियदर्योअर्हाध्युमद्विभातिक्रतुमज्जनेषु ॥ यद्दीदयच्छवसऋत्प्रजातदस्मासुद्रविणंधेहिचित्रं ॥ भगवन्बृहस्पतेसमस्तदेवताचार्यांगिरसगोत्रसिंधुदेशेश्वरतप्तसुवर्णसदृशांगदीप्तेचतुर्भुजदंडकमंडल्वक्षसूत्रवरदानांकितपीतांबरमाल्यानुलेपनपुष्परागमयाभरणरमणीय सर्वविध्याधिपतेननमस्तेसन्नध्दपीतध्वजपताकोपशोभितेनपीताश्वरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छेंद्रब्रह्मभ्यांसहपद्मोत्तरदलमध्ये सुवर्णप्रतिमामुदड्मुखींदीर्घचतुरस्त्रपीठेऽधितिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भूर्बृहस्पत्यधिदेवमिंद्रमावाहयामि ॥ ॐ भुवोबृह० ॥ ॐ स्वर्बृह० ॥ॐ भूर्भव:स्वर्बृह० ॥ इंद्रश्रेष्ठानीत्यस्यगृत्समदइंद्रस्त्रिष्टुप् ॥ इंद्रावाहने० ॥ ॐ इंद्रश्रेष्ठानिद्रविणानिधेहिचित्तिंदक्षस्यसुभगत्वमस्मे ॥ पोषंरयीणामरिष्टिंतनूनांस्वाद्मानंवाच:सुदिनत्वमह्नां ॥ चतुर्दंतगजारुढंवज्रांकुशधरंशचीपतिंनानाभरणभूषितंबृहस्पत्यधिदेवमिंद्रवाहयामि ॥ तद्वामपार्श्वे ॥ ॐ भूर्बृहस्पतिप्रत्यधिदेवंब्रह्माणमावा० ॥ ॐ भुवोबृह० ॥ ॐ स्वर्बृह० ॥ ॐ भूर्भव:स्वर्बृह० ॥ ब्रह्मणातइत्यस्यविश्वामित्रोब्रह्मात्रिष्टुप् ब्रह्मावाहनेविनि० ॥ ॐ ब्रह्मणातेब्रह्मयुजायुनज्मिहरीसखायासधमादआशू ॥ स्थिरंरथंसुखमिंद्राधितिष्ठन्प्रजानन्विद्वाँउपयाहिसोमं ॥ पद्मासनस्थंजटिलंचतुर्मुखमक्षमालास्त्रुवपुस्तककमंडलुधारिणंकृष्णाजिनवाससंपार्श्वस्थितहंसंबृहस्पतिप्रत्यधिदेवंब्रह्माणमावा० ॥५॥तत:प्राग्दले ॥ ॐ भू;शुक्रमावाहयामि ॥ॐ भुव:शुक्र० ॥ ॐ स्व:शुक्र० ॥ ॐ भूर्भव:स्व:शुक्रमावा० ॥ शुक्रंतइत्यस्यभरद्वाज:शुक्रस्त्रिष्टुप् शुक्रावाहनेविनियोग: ॥ ॐ शुक्रंतेअन्यध्यजतंतेअन्यद्विषुरुपेअहनीध्यौरिवासि ॥ विश्वाहिमायाअवसिस्वधावोभद्रातेपूषन्निहरातिरस्तु ॥ भगवन्भार्गवसमस्तदैत्यगुरोभार्गवगोत्रभोजकटदेशेश्वरजतोज्वलांगकांतेचतुर्भुजदंडकमंडल्वक्षसूत्रवरदानांकितशुक्लांबरमाल्यानुलेपनवज्राभरणभूषितसर्वांगसमस्तनीतिशास्त्रनिपुणमतेनमस्तेसन्नध्दशुक्लध्वज्पताकोपशोभितेनशुक्लाश्वसहितेनरथेनमेरुंप्रदक्षिणीकुर्वन्नागच्छेंद्राणींद्राभ्यांसहपूर्वदलमध्ये रजतप्रतिमांप्राड्मुखींपंचकोणपीठेऽधितिष्ठपूजार्थंत्वामावा० ॥ तदृक्षिणपार्श्वे ॥ ॐ भू:शुक्राधिदेवतामिंद्राणीमावा० ॥ ॐ भुव:शु० ॥ ॐ स्व:शु० ॥ ॐ भूर्भुव:स्व:शु० ॥इंद्राणीमास्वित्यस्यवृषाकपिरिद्रानीपंक्ति: इंद्राण्यावाहने० ॥ ॐ इंद्राणीमासुनारिषुसुभगामहमश्रवं ॥ नह्यस्याअपरंचनजरसामरतेपतिर्विश्वस्मादिंद्रउत्तर: ॥ संतानमंजरीवरदानधरद्विभुजांशुक्राधिदेवतामिंद्राणीमावा० ॥ तद्वामपार्श्वे ॥ ॐ भू:शुक्रप्रत्यधिदेवमिंद्रमावा० ॥ ॐ भुव:शुक्र:० ॥ ॐ स्व:शुक्र० ॥ ॐ भूर्भुव:स्व:शुक्र० ॥ इंद्रमिद्देवतातयइत्यस्यमेधातिथिरिंद्रोबृहती इंद्रावाहनेविनि० ॥ ॐ इंद्रमिद्देवतातयइंद्रंप्रयत्यध्वरे ॥ इंद्रसमीकेवनिनोहवामहइंद्रंधनस्यसातये ॥ चतुर्दंतगजारुढंवज्रांकुशधरंशचीपतिंनानाभरणभूषितंभार्गवप्रत्यधिदेवमिंद्रमावा० ॥६॥तत:पश्चिमदले ॥ ॐ भू:शनैश्चरावाहनेविनियोग: ॥ ॐ शमग्निरग्निभि:करच्छंनस्तपतुसूर्य: ॥ शंवातोवात्वरपाअपस्निध: ॥ भगवन् शनैश्वरभास्करतनयकाश्यपगोत्रसौराष्ट्रदेशेश्वरकज्जलसमानांगकांतेचतुर्भुजचापतूनीरकृपाणाभयांकितनीलांबरमाल्यानुलेपननीलरत्नभूषणालंकृतसर्वांगसमस्तभुवनभीषणामर्षमूर्तेनमस्तेसन्नध्दनीलध्वजपताकोपशोभितेननीलगृध्ररथवाहनेमेरुंप्रदक्षिणीकुर्वन्नागचप्रजापतियमाभ्यांसहपद्मपश्चिमदलमध्ये कालायसप्रतिमांप्रत्यड्मुखींचापाकारपीठेऽधितिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भू:शनैश्चराधिदेवंप्रजापतिमावाहयामि ॥ ॐ भूव:शनै० ॥ ॐ स्व:शनै: ॥ ॐ भूर्भव:स्व:शनै० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् प्रजापत्यावा० ॥ ॐ प्रजापतेनत्वदेतान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोअस्तुवयंस्यामपतयोरयीणां ॥ यज्ञोपवीतिनंहंसस्थमेकवक्रमक्षमालास्त्रुवपुस्तककमंडलुसहितंचतुर्भुजंशनैश्चराधिदेवंप्रजापतिमावा० ॥ तद्वामपार्श्वे ॥ ॐ भू:शनैश्चरप्रत्यधिदेवंयममावा० ॥ ॐ भुव:शनै० ॥ ॐ भूर्भव:स्व:शनै: ॥ यमायसोममित्यस्ययमोयमोनुष्टुप् यमावा० ॥ ॐ यमायसोमंसुनुतयमायजुहुताहवि: ॥ यमंहयज्ञोगच्छत्यग्निदूतोअरंकृत: ॥ ईषत्पीनंदंडहस्तंरक्तसदृशंपाशधरंकृष्णवर्णंमहिषारुढंसर्वाभरणभूषितंशनिश्चरप्रत्यधिदेवंयममावा० ॥७॥तत:प्रत्यग्नदक्षिणदले ॥ ॐ भूराहुमावाहयामि ॥ ॐ भुवोराहु० ॥ ॐ स्वाराहु० ॥ ॐ भूर्भव:स्वाराहुमा० ॥ कयानइत्यस्यवामदेवोराहुर्गायत्री ॥ राह्वावाहनेविनियोग:० ॥ ॐ कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशचिष्ठयावृता ॥ भगवन् राहोरविसोममर्दनसिंहिकानंदनपैठीनसगोत्रबर्बरदेशेश्वरकालमेघध्युतेव्याघ्रवदनचतुर्भुजखड्गचर्मशूलवरदानांकितकृष्णांबरमाल्यानुलेपनगोमेदकाभरणभूषितसर्वांगशौर्यनिधे नमस्तेसन्नध्दकृष्णध्वजपताकोपशोभितेनकृष्णसिंहरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छसर्पकालाभ्यांसहपद्मनैऋतदलमध्ये सीसकप्रतिमांदक्षिणामुखीं शूर्पाकारपीठेधितिष्ठपूजार्थंत्वामावा० ॥ तदृक्षिणपार्श्वे ॥ ॐ भूराह्वधिदेवान्सर्पानावाहयामि ॥ ॐ भुवोराह्व० ॥ ॐ स्वाहाह्व० ॥ ॐ भूर्भव:स्वाराह्व० ॥ आयंगौ:सार्पराज्ञीसर्पागायत्री ॥ सर्पावा० ॥ ॐ आयंगौ:पृश्निरक्रमीदसदन्मातरंपुर: ॥ पितरंचय्रयन्त्सव: ॥ अक्षसूत्रधरान्कुंडलाकारपुच्छयुक्तानेकभोगांस्त्रिभोगान्भीषणानाह्वाधिदेवान्सर्पानावा० ॥ तद्वामपार्श्वे ॥ ॐ भूराहुप्रद्यधिदेवंकालमावा० ॥ ॐ भुवोरा० ॥ ॐ स्वारा० ॥ ॐ भूर्भव:स्वारा० ॥ परंमृत्योसंकुसुक:कालस्त्रिष्टुप् कालावाहने० ॥ ॐ परंमृत्योअनुपरेहिपंथांयस्तेस्वइतरोदेवयानात् ॥ चक्षुष्मतेश्रृण्वतेतेब्रवीमिमान:प्रजांरीरिषोमोतवीरान् ॥ करालवदनंनीलांगंभीषणंपाशदंडधरंसर्पवृश्चिकरोमाणंराहुप्रत्यधिदेवंकालमावा० ॥८॥तत:प्रत्यगुत्तरदले ॥ ॐ भू:केतुमावा० ॥ ॐ भुव:केतुमा० ॥ ॐ स्व:केतुमा० ॥ ॐ भूर्भव:स्व:केतुमा० ॥ केतुंकृण्वन्नित्यस्यमधुच्छंदा:केतुर्गायत्री केत्वावाहनेविनियोग: ॥ ॐ केतुंकृण्वन्नकेतवेपेशोमर्याअपेशसे ॥ समुषभ्दिरजायथा; ॥ भगवन्केतोकामरुपजैमिनिगोत्रमध्यदेशेश्वरधूम्रवर्णध्वजाकृतेद्विभुजगदावरदानाकितचित्रांबरमाल्यालेपन वैडूर्यमयाभरणभूषितसर्वांगचित्रशक्ते नमस्तेसन्नध्दचित्रध्वजपताकोपशोभितेनचित्रकपोतरथवाहनेनमेरुंप्रदक्षिणीकुर्वन्नागच्छ्चित्रगुप्ताभ्यां सहपद्मवायव्यदलमध्ये कांस्यप्रतिमांदक्षिणामुखींध्वजाकारपीठेधितिष्ठपूजार्थंत्वामावाहयामि ॥ तदृक्षिणपार्श्वे ॥ ॐ भू:केत्वधिदेवंब्रह्माणमावा० ॥ ॐ भुव:केत्वधि० ॥ ॐ स्व:केत्वधि० ॥ ॐ भूर्भव:स्व:केत्वधि० ॥ब्रह्मजज्ञानंवामदेवोब्रह्मात्रिष्टुप् ब्रह्मावा० ॥ ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचेओवेनआव: ॥ सबुध्न्याउपमाअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥ पद्मासनस्थंजटिलंचतुर्मुखमक्षमालास्त्रुवपुस्तककमंडलुधरंकृष्णाजिनवाससंपार्श्वस्थितहंसंकेत्वधिदेवंब्रह्माणमावा० ॥ तदामपार्श्वे ॥ ॐ भू:केतुप्रत्यधिदेवंचित्रगुप्तमावा० ॥ ॐ भुव:केतु० ॥ ॐ स्व:केतु० ॥ ॐ भूर्भव:स्व:केतु० ॥ सचित्रचित्रमित्यस्यभरद्वाजश्चित्रगुप्तस्त्रिष्टुप् ॥ चित्रगुप्तावाहने० ॥ ॐ सचित्रचित्रंइतयंतमस्मेचित्रक्षत्रचित्रतमंवयोधां ॥ चंद्रंरयिंपुरुवीरंबृहंतंचंद्राभिर्गृणतेयुवस्व ॥ उदीच्यवेषधरंसौम्यदर्शनंलेखनीपत्रोपेतद्विभुजंकेतुप्रत्यधिदेवंचित्रगुप्तामावाहयामि ॥९॥अथकर्मसाद्नुण्यदेवता: ॥ शनेर्वायुप्रदेशे ॥ ॐ भूर्विनायकमावाहयामि ॥ ॐ भूवोविना० ॥ ॐ स्वर्विना० ॥ ॐ भूर्भव:स्वर्विना० ॥ आतूनइत्यस्यकाण्व:कुसीदोविनायकोगायत्री विनायकावाहने० ॥ ॐ आतूनइंद्रक्षुमंतंचित्रंग्राभंसंगृभाय ॥ महाहस्तीदक्षिणेन ॥ त्रिनेत्रंगजाननंनागयज्ञोपवीतिनंचंद्रधरंदंताक्षमालापरशुमोदकोपेतंचतुर्भुजंविना० ॥ तदृक्षिणत: ॥ ॐ भूर्दुर्गामावाह० ॥ ॐ भुवोदुर्गा० ॥ ॐ स्वर्दुर्गा० ॥ ॐ भूर्भव:स्व:स्वर्दुर्गा० ॥ जातवेदसेकश्यपोदुर्गात्रिष्टुप् दुर्गावाहने० ॥ ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ शक्तिबाणशूलखड्गचक्रचंद्रबिंबखेटकपालपरशुंटकोपेतांदशभुजांसिंहारुढांदुर्गाख्यदैत्यासुहारिणींद्रुगामा० ॥ तदृक्षिणत: ॥ ॐ भू:क्षेत्रपालमावाहयामि ॥ ॐ भुव:क्षेत्रपा० ॥ ॐ स्व:क्षेत्रपा० ॥ ॐ भूर्भव:स्व:क्षेत्रपाल० ॥ क्षेत्रस्यपतिनावामदेव:क्षेत्रपालोनुष्टुप् ॥ क्षेत्रपालावा० ॥ ॐ क्षेत्रस्यपतिनावयंहितेनेवजयामसि ॥ गामश्वंपोषयित्न्वासनोमृळातीदृशे ॥ श्यामवर्णंत्रिलोचनमूर्ध्वकेशंसुंदंष्ट्रंभ्रुकुटीकुटिलानंनूपुरालंकृताघ्रिंसर्पमेखलयायुतसर्वांगमतिक्रुध्दंक्षुद्रघंटाबध्दगुल्फावलंबिनृकरोटीमालाधारिणमुरगकौपीनंचंद्रंमौलिंदक्षिणहस्तै:शूलवेतालखड्गदुंदुभीन्दधानंवामहस्तै:कपालघंटाचर्मचापान्दधानंभीमंदिग्वाससममितध्युतिंक्षेत्रपालमावाहयामि ॥ तदृक्षिणत: ॥ ॐ भूर्वायुमा० ॥ ॐ भुवोवायु० ॥ ॐ स्वर्वायु० ॥ ॐ भूर्भव:स्वर्वायुमा० ॥ क्राणाशिशुरित्यस्यत्रितोवायुरुष्णिक् वायवावाहने० ॥ ॐ क्राणाशिशुर्महीनांहिन्वृन्नतस्यदीधितिं ॥ विश्वापरिप्रियाभुवदधद्विता ॥ धावध्दरिणपृष्ठगतंध्वजवरदानधारिणंधूम्रवर्णंवायुमावा० ॥ तदृक्षिणत: ॥ ॐ भूराकाशमावा० ॥ ॐ भुवाआका० ॥ ॐ स्वराकाश० ॥ ॐ भूर्भव:स्वराकाश० ॥ आदित्प्रत्नस्यवत्सआकाशोगायत्री आकाशावाहने० ॥ ॐ आदित्यत्नस्यरेतसोज्योतिष्पश्यंतिवासरं ॥ परोयदिध्यतेदिवा ॥ नीलोत्पलाभंनीलांबरधारिणंचंद्रार्कोपेतंद्विभुजंषंढमाकाशमा० ॥ तदृक्षिणत: ॥ ॐ भूरश्विनावावाहयामि ॥ ॐ भुवोश्विनावा० ॥ ॐ स्वरश्विनावा० ॥ ॐ भूर्भव:स्वरश्विना० ॥ अश्विनावर्तीराहूगणोगोतमोश्विनावुष्णिक् अश्व्यावाहनेवि० ॥ ॐ अश्विनावर्तिरस्मदागोमदृस्त्राहिरण्यवत् ॥ अर्वाग्रथंसमनसानियच्छतं ॥ प्रत्येकमौषधिपुस्तकोपेतदक्षिणवामहस्तावन्योन्यसंसक्तदेहावेकस्यदक्षिणपार्श्वेअपरस्यवामपार्श्वेरत्नभांडवरशुक्लांबरधारिनारीयुग्मोपेतौदेवभिषजावश्विनावावाहयामि ॥६॥अथक्रतुसंरक्षकदेवता: ॥ प्राग्दलाग्रे ॥ ॐ भूरिंद्रमावाहयामि ॥ ॐ भुवइंद्र० ॥ ॐ स्वरिंद्र० ॥ ॐ भूर्भुव:स्वरिद्र० ॥ इंद्रंवोमधुच्छंदाइंद्रोगायत्री इंद्रावा० ॥ ॐ इंद्रंवोविश्वतस्परिहवामहेजनेभ्य: ॥ अस्माकमस्तुकेवल: ॥ स्वर्णवर्णसहस्त्राक्षमैरावतवाहनंवज्रपाणींशचीप्रियमिंद्रमावा० ॥ आग्नेयदलाग्ने ॥ ॐ भूरग्निमा० ॥ ॐ भुवोग्निमा० ॥ ॐ स्वरग्निमा० ॥ ॐ भूर्भव:स्वरग्नि० ॥ अग्निमीळेवैश्वामित्रोमधुच्छंदाअग्निर्गायत्री अग्न्यावाहने० ॥ ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमं ॥ रक्तवर्णंसाक्षसूत्रंसप्तार्चिषंसप्तहस्तंशत्त्म्यन्नस्त्रुवतोमरव्यजनघृतपात्राणिदधानंस्वाहाप्रियंमेषवाहनमग्निमावा० ॥ याम्यदलाग्रे ॥ ॐ भूर्यममावाहयामि ॥ ॐ भुवोयम० ॥ ॐ स्वर्यम० ॥ ॐ भूर्भव:स्वर्यममा० ॥ यमायसोमंयमोयमोनुष्टुप् यमावाह्ने० ॥ ॐ यमायसोमंसुनुतयमायजुहुताहवि: ॥ यमंहयज्ञोच्छत्यग्निदूतोअरंकृत: ॥ रक्तवर्णंदंडधरंमहिषवाहनमिलाप्रियंयममावा० ॥ नैऋतदलाग्रे ॥ ॐ भूर्निऋतिमावा० ॥ ॐ भुवोनिऋति० ॥ ॐ स्वर्निऋति० ॥ ॐ भूर्भव:स्वर्निऋतिमा० ॥ मोषुण:कण्वोनिऋतिगायत्रीनिऋत्यावा० ॥ ॐ मोषुण:परापरानिऋतिर्दुर्हणावधीत् ॥ पदीष्टतृष्णयासह ॥ नीलवर्णंखड्गचर्मधरमूर्ध्वकेशंनरवाहनंकालिकाप्रियंनिऋतिमा० ॥ पश्चिमदलाग्रे ॥ ॐ भुर्वरुणमावा० ॥ ॐ भुवोवरुण० ॥ ॐ स्वर्वरुण० ॥ ॐ भूर्भव:स्वर्वरुण० ॥ उदुत्तममाजीगर्ति:शुन:शेपोवरुणोगायत्री वरुणावाहने० ॥ ॐ उदुत्तमंमुमुग्धिनोविपाशंमध्यमंचृत ॥ अवाधमानिंजीवसे ॥ रक्तवर्णंनागपाशधरंमकरवाहनंपद्मिनीप्रियंसुवर्णभूषणंवरुणमावाहयामि ॥ वायव्यदलाग्रे ॥ ॐ भूर्वायुमावा० ॥ ॐ भुवोवायु० ॥ ॐ स्वर्वायु० ॥ॐ भूर्भुव:स्वर्वायु० ॥ तववायोव्यश्वोवायुर्गायत्री वाय्वावाहने० ॥ ॐ तववायवृतस्पते त्वष्टुर्जामातरद्भुत ॥ अवांस्यावृणीमहे ॥ श्यामवर्णंहेमदंडधरंकृष्णमृगवाहनंजगत्प्राणरुपंमोहिनीप्रियंवायुमा० ॥ उत्तरदलाग्रे ॥ ॐ भू:कुबेरमावा० ॥ ॐ भुव:कु० ॥ ॐ स्व:कु० ॥ ॐ भूर्भव:स्व:कुबेरमा० ॥ त्वनं:सोमराहुगणोगोतम:कुबेरोगायत्री कुबेरावाहनेविनि० ॥ ॐ त्वंन:सोमविश्वतोरक्षाराजन्नघायत: ॥ नरिष्येत्त्वावत:सखा ॥ स्वर्णवर्णंनिधीश्वरंकुंतपाणिमश्ववाहनंचित्रिणीप्रियंकुबेरमा० ॥ ऐशानदलाग्रे ॥ ॐ भूरीशानमावा० ॥ ॐ भुवईशा० ॥ ॐ स्वरीशान० ॥ ॐ भूर्भव:स्वरीशान० ॥ कद्रुद्रायेत्यस्यकण्वईशानोगायत्री ईशानावा० ॥ ॐ कद्रुद्रायप्रचेतसेमीह्ल्लुष्टमायतव्यसे ॥ वोचेमशतंमंहृदे ॥ शुध्दस्फटिकवर्णंवरदाभयशूलाक्षसूत्रधरंवृषभवाहनंगौरीप्रियमीशानमावाहयामि ॥८॥एवमेकचत्वारिंशद्देवताआवाह्य ॥ तत्वायाम्याजीगर्ति:शुन:शेप:सकृत्रिमोवैश्वामित्रोवरुणस्त्रिष्टुप् ॥ वरुणावाहनेवि० ॥ ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेळमानोवरुणेहबोध्युरुशंसमान आयु:प्रमोषी: ॥ इतिकलशेचवरुणमावाह्यपूजयेत् ॥ तत्रचंदनादिषुग्रहभेदेनव्यवस्था ॥ चंदनोमलयजोदेवदारु:कुंकुमंमन:शिलाशंखपिष्टंतिलपिष्टंकेतकीरज:कस्तूरीतिनवानुलेपनानि मलयजमेववा ॥ रक्तपद्मंकुमुदंरक्तकरवीरंपाटलंचंपकंकुंदुंइंदीवरंकृष्णधत्तूरंतच्चित्रवर्णमितिनवपुष्पाणि सर्वेषांमल्लिकैववा ॥ ग्रहानपिपुष्पांजलिप्रयोगेणावाहनमंत्रैरावाह्यनमोंतैर्नामभि:क्रमेणपुष्पांतानुषचारानर्पयेत् ॥ नामभि:आदित्यायनम:इत्येवंरुपै: ॥ एवंग्रहपीठगतसर्वदेवतानांपुष्पांतपूजांकृत्वाकुंडेस्थंडिलेवाआचार्योग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अथान्वाधानादिप्रयोग: ॥ ऋत्विग्भिरन्वारब्ध:समिद्वयमादायदेशकालौसंकीर्त्यक्रियमाणेग्रहयज्ञहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा ॥ अत्रप्रधानं ॥ आदित्यंप्रत्येकंशतसंख्याभिरर्कसमिच्चर्वाज्याहुतिभि:अग्निंरुद्रंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥१॥सोमंप्रत्येकंशतसंख्याभि: पलाशसमिच्चर्वाज्याहुतिभि: अपउमांचप्रत्येकंदशसंख्याभिस्तदाहुति ॥२॥अंगारकंप्रत्येकंशतसंख्याभि:खादिरसमिच्चर्वाज्याहुतिभि: भूमिंस्कंदंचप्रत्येकंदशसंख्याभि:खादिरसमिच्चर्वाज्याहुतिभि: भूमिंस्कंदंप्रत्येकंदशसंख्याभिस्तदाहुति: ॥३॥बुधंप्रत्येकंशतसंख्याभिरपामार्गसमिच्चर्वाज्याहुतिभि: विष्णुंपुरुषंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥४॥बृहस्पतिंप्रत्येकंशतसंख्याभिरश्चत्थसमिच्चर्वाज्याहुतिभि: इंद्रंब्रह्माणंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥५॥शुक्रंप्रत्येकंशतसंख्याभिरौदुंबरसमिच्चर्वाज्याहुतिभि: इंद्राणीमिंद्रंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥६॥शनिंप्रत्येकंशतसंख्याभि: शमीसमिच्चर्वाज्याहुतिभि: प्रजापतिंयमंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥७॥राहुंप्रत्येकंशतसंख्याभिर्दूर्वासमिच्चर्वाज्याहुतिभि: सर्पान्कालंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥८॥केतुंप्रत्येकंशतसंख्याभि:कुशसमिच्चर्वाज्याहुतिभि: ब्रह्माणंचित्रगुप्तंचप्रत्येकंदशसंख्याभिस्तदाहुतिभि: ॥९॥विनायकंदुर्गांक्षेत्रपालंवायुमाकाशमश्विनौ इंद्रमग्निंयमंनिऋतिंवरुणंवायुंकुबेरंईशानंचप्रत्येकंपंचसंख्याभि:पलाशसमिच्चर्वाज्याहुतिभि: ॥ अग्निंवायुंसूर्यंप्रजापतिंचैकेकयाप्रभूतव्रीहितिलाहुत्या सूर्यंत्रयोदशवारमाज्येन अग्निंचतुस्त्रिंशद्वारमाज्येन रुद्रंद्वात्रिंशद्वारमाज्येन शेषेणस्विष्टकृतमित्यादि ॥ पात्रासादनकालेबह्नीनांचरुद्वासनस्थालीनामाज्यस्थालीनांस्त्रुबाणांचबहूनामासादनंकार्यं युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय ॥ आज्यसंकारकालेलोकसिध्दान्नतिलव्रीहिभि:सहाज्यस्यत्रि:पर्यग्निकरणं ॥ स्त्रुवाणांसंमार्गांतेदर्व्या:संमार्ग: ॥ ततोन्नंपात्रांतरेपृथक्कृत्वाग्रावधिश्रित्यस्त्रुवेणाभिघार्योदगुद्वास्याज्यादक्षिणतोव्यवहितदेशेबर्हिष्यासाध्यप्रत्यभिघार्य तदुत्तरतोव्रीहितिलानासाध्यर्त्विगन्वारब्धइध्माधानाध्याज्यभागांतंकुर्यात् ॥ ततोयजमानस्त्यागंकुर्यात् ॥ सयथा ॥ शतशतसंख्या अर्कादिजातीया:समिध:शतशतसंख्याहुतिपर्याप्तश्चरु:शतशतसंख्याहुतिपर्याप्तमाज्यंच आदित्यायसोमायांगारकायबुधायबृहस्पतयेशुक्रायशनैश्चरायराहवेकेतवेचनमम ॥ दशदशसंख्याअर्कादिजातीया:समिध:दशदशसंख्याहुतिपर्याप्तश्चरु:दशदशसंख्याहुतिपर्याप्तमाज्यंचअग्नयेरुद्रायाभ्ध्योगौर्येपृथिव्यैस्कंदायविष्णवेपुरुषायेंद्रायब्रह्मणेइंद्रायप्रजापतयेयमायसर्पेभ्य:कालायब्रह्मणेचित्रगुप्तायचनमम ॥ पंचपंचसंख्या:पलाशसमिध:पंचपंचसंख्याहुतिपर्याप्तश्चरु:पंचपंचसंख्याहुतिपर्याप्तमाज्यंचविनायकायदुर्गायैक्षेत्रपालायवायवेआकाशाय अश्विभ्याइंद्रायाग्नयेयमायनिऋतयेवरुणायवायवेकुबेरायईशानयचनमम ॥ एकैकाहुतिपर्याप्ता:प्रभूततिलव्रीहय:अग्नयेवायवेसूर्यायप्रजापतयेचनमम ॥ त्रयोदशाहुतिपर्याप्तमाज्यंसूर्यायनमम ॥ चतुस्त्रिंशदाहुतिपर्याप्तमाज्यमग्नयेनमम ॥ द्वात्रिंशदाहुतिपर्याप्तमाज्यंरुद्रायनमम ॥ ततोष्टर्त्विक्सहिताचार्यपक्षेआचार्यआदित्यायजुहुयादितरेइतरग्रहेभ्य: ॥ ऋत्विक्कतुष्टयपक्षेद्वाभ्यांद्वाभ्यांग्रहाभ्यामिकैकोजुहुयात् ॥ तत्रद्व्यंगुलादूर्ध्वंमध्यमानानिकांगुष्ठैर्मूलभागेसमिधमादायदधिमध्वाज्याक्तांजुहुयात् ॥ पाणिनाग्राससमंचरुं ॥ आज्यंस्त्रुवेणतदभावेऽश्वत्थादियज्ञियपर्णेनवा ॥ सर्वेप्राड्मुखाउदड्मुखावाहृदयनिहितोर्ध्वांगुलिवामपाणयोजुहुय: ॥ आचार्य:प्रभूततिलव्रीहीन्व्यस्तसमस्तव्याहृतिभिर्हुत्वाज्यहोमंकुर्यात् ॥ तत्रमंत्रा:सूक्तानिचलिख्यंते ॥ तत्रप्रत्यृचंस्वाहांतैर्होम:कार्य: ॥ सूर्योनइतिपंचर्चस्यसूक्तसौर्यश्चक्षु:सूर्योगायत्री ॥ उदुत्यमितिमंत्रस्यकाण्व:प्रस्कण्व:सूर्योगायत्री ॥ नमोमित्रस्येतिमंत्रस्यसौर्योभितपा:सूर्योजगती ॥ चित्रंदेवानामितिमंत्रस्यांगिरस:कुत्स:सूर्यस्त्रिष्टुप् ॥ उद्वेतिसुभगइतिपंचर्चस्यमैत्रावरुणिर्वसिष्ठ:सूर्यस्त्रिष्टुप् ॥ त्वमग्नेप्रथमइत्यष्टादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगतीअंत्याष्टमीषोड्श्यस्त्रिष्टुभ: ॥ त्वमग्नेध्युभिरितोषउर्चस्यसूक्तस्यगृत्समदोग्निर्जगती ॥ कद्रुद्रायेतिषडृचस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्री तृतीयामैत्रावरुणी ॥ इमारुद्रायतवसकइत्येकादशर्चस्यसूक्तकुत्सोरुद्रोजगती अंत्येत्रिष्टुभौ ॥ आतेपितर्मरुतामितिपंचदशर्चस्यसूक्तस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥ सर्वत्रग्रहमखांगाज्यहोमेविनियोग: ॥ ॐ सूर्योनोदिवस्पातुवातोऽअंतरिक्षात् ॥ अग्निर्न:पार्थिवेभ्य:स्वाहा ॥१॥ॐ जोषासवितर्यस्यतेहर:शतंसवाँऽअर्हति ॥ पाहिनोदिध्युत:पतंत्या:स्वाहा ॥२॥ॐ चक्षुर्नोदेव:सविताचक्षुर्नऽउतपर्वत: ॥ चक्षुर्धातादधातुन:स्वाहा ॥३॥ॐ चक्षुर्नोधेहिचक्षुषेचक्षुर्विख्यैतनूभ्य: ॥ संचेदंविचपश्येमस्वाहा ॥४॥ॐ सुसंदृशंत्वावयंप्रतिपश्येमसूर्य ॥ विपश्येनमनृचक्ष:स्वाहा ॥५॥ॐ उदुत्यंजातवेदसंदेवंवहंतिकेतव: ॥ दृशेविश्वायसूर्यंस्वाहा ॥६॥ॐ नमोमित्रस्यवरुणस्यचक्षसेमहोदेवायतदृतंसपर्यंत ॥ दूरेदृशेदेवजाताकेवतेदिवस्पुत्रायसूर्यायशंसतस्वाहा ॥७॥ॐ चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्रे: ॥ आप्राध्यापृथिवीअंतरिक्षंसूर्यआत्माजगतस्तस्थुषश्चस्वाहा ॥८॥ॐ उद्वेतिसुभगोविश्वचक्षा:साधारण:सूर्योमानुषाणां ॥ चक्षुर्मित्रस्यवरूणस्यदेवश्चर्मेवय:समविव्यक्तमांसिस्वाहा ॥९॥ॐ उद्वेतिप्रसवीताजनानांमहान्केतुरर्णव:सूर्यस्य ॥ समानंचक्रंपर्याविवृत्सन्यदेतशोवहतिधूर्षुयुक्त:समविव्यक्तमांसिस्वाहा ॥१०॥ॐ विभ्राजमानउषसामुपस्थाद्रेभैरुदेत्यनुमध्यमान: ॥ एषमेदेव:सविताचच्छंदय:समानंनप्रमिनातिधामस्वाहा ॥११॥ॐ दिवोरुक्मऽउरुचक्षाऽउदेतिदूरेऽअर्थस्तरणिर्भ्राजमान: ॥ नूनंजना:सूर्येणप्रसूताऽअयंनर्थानिकृणवन्नपांसिस्वाहा ॥१२॥ॐ यत्राचक्रुरमृतागातुमस्मैश्येनोनदीयन्नत्वेतिपाथ: ॥ प्रतिवांसूरउदितेविधेमनमोभिर्मित्रावरुणोतहव्यै: स्वाहा ॥१३॥ॐ त्वमग्नेप्रथमोऽअंगिराऽऋषिर्देवोदेवानामभव:शिव:सखा ॥ तवव्रतेकवयोविद्मनापसोजायंतमरुतोभ्राजदृष्टय: स्वाहा ॥१४॥ॐ त्वमग्नेप्रथनोऽअंगिरस्तम:कविर्देवानांपरिभूषसिव्रतं ॥ विभुर्विश्वस्मैभुवनायमेधिरोद्विमातशयु:कतिधाचिदायवेस्वाहा ॥१५॥ॐ त्वमग्नेप्रथमोमातरिश्वनऽआविर्भवसुक्रतूयाविवस्वते ॥ अरेजेतांरोदसीहोतृवूर्येसघ्नोर्भारमजजोमहोवसोस्वाहा ॥१६॥ॐ त्वमग्नेमनवेध्यामवाशय:पुरुरवसेसुकृतेसुकृत्तर: ॥ श्वात्रेणयत्पित्रोर्मुच्यसेपर्यात्वापूर्वमनयन्नापरंपुन:स्वाहा ॥१७॥ॐ त्वमग्नेवृषभ:पुष्टिवर्धनऽउध्युतस्त्रुचेभवसिश्रवाय्य: ॥ यऽआहुतिंपरिवेदावषट्कृतिमेकायुरग्रेविशऽआविवाससि स्वाहा ॥१८॥ॐ त्वमग्नेवृषभ:पुष्टिवर्धननिंनरंसक्मन्पिपर्षिविदथेविचर्षणे ॥ य:शूरसातापरितक्म्येधनेदभ्रेभिश्चित्समृताहंसिभूयस: स्वाहा ॥१९॥ॐ त्वंतमग्नेअमृतत्वऽउत्तमेमर्तदधासिश्रवसेदिवेदिवे ॥ यस्तातृषाणउभयायजन्मनेमय:कृणोषिप्रयआचसूरयेस्वाहा ॥२०॥ॐ त्वंनोऽअग्नेसनयेधनानांयशसंकारुंकृणुहिस्तवान: ॥ ऋध्यामकर्मापसानवेनदेवैर्ध्यावापृथिवीप्रावतनं: स्वाहा ॥२१॥ॐ त्वंनोऽअग्नेपित्रोरुपस्थऽआदेवोदेवेष्वनवध्यजागृवि: ॥ तनूकृब्दोधिप्रमतिश्चकारवेत्वंकल्याणवसुविश्वमोपिषेस्वाहा ॥२२॥ॐ त्वंमग्नेप्रमतिस्त्वंपितासिनस्त्वंवयस्कृत्तजामयोवयं ॥ संत्वाराय:शतिन:संहस्त्रिण:सुवीरंयंतिव्रतपामदाभ्यस्वाहा ॥२३॥ॐ त्वामग्नेप्रथममायुमायवेदेवाऽअकृण्वन्नहुषस्यविश्पति ॥ इळामकृण्वन्मनुषस्यशासनींपितुर्यत्पुत्रोममकस्यजायतेस्वाहा ॥२४॥ॐ त्वंनोअग्नेतवदेवपायुभिर्मघोनोरक्षतन्वश्चवंध्य ॥ त्रातातोकस्यतनयेगवामस्यनिमेषंरक्षमाणस्तवव्रतेस्वाहा ॥२६॥ॐ त्वंमग्नऽउरुशंसायवाघतेस्पहार्यंयद्रेक्ण:परमंवनोषितत् ॥ आध्रस्यचित्प्रमतिरुच्यसेपिताप्रपाकंशास्सिप्रदिशोविदुष्टुर:स्वाहा ॥२७॥ॐ त्वंनोअग्नेप्रयतदक्षिणंनरंवर्मेवस्यूतंपरिपासिविश्वत: ॥ स्वादुक्षद्मायोवसतौस्योनकृज्जीवयाजंयजतेसोपमादिव:स्वाहा ॥२८॥ॐ इमामग्नेशरणिंमीमृषोनइममध्वानंयमगामदूरात् ॥ आपि:पिताप्रमिति:सोम्यानांभृमिरस्यृषिकृन्मर्त्यानांस्वाहा ॥२९॥ॐ मनुष्वदग्नेऽअंगिरस्वंदगिरोययातिवत्सदनेपूर्ववच्छुचे ॥ अच्छयाह्यावहादैव्यंजनमासादयबर्हिषियक्षिचप्रियं स्वाहा ॥३०॥ॐ एतेनाग्नेब्रह्मणावृधस्वशक्ती वायत्तेचकृमाविदावा ॥ उतप्रणेष्यभिवस्योऽअस्मान्त्संन:सृजसुमत्यावाजवत्यास्वाहा ॥३१॥ॐ त्वमग्नेध्युभिस्त्वमाशुशुक्षणिस्त्वमभ्ध्यस्त्वमश्मनस्परि ॥ त्वंवनेभ्यस्त्वमोषधीभ्यस्त्वंनृणांनृपतेजायसेशुचि:स्वाहा ॥३२॥ॐ तवाग्नेहोत्रंतवपोत्रमृत्वियंतवनेष्ट्रंत्वमग्निदृतायत: ॥ तवप्रशास्त्रंत्वमध्वरीयसिब्रह्माचासिंगृहपतिश्चनोदमेस्वाहा ॥३३॥ॐ त्वमन्गऽइंद्रोवृषभ:सतामसित्वंविष्णुरुरुगायोनमस्य: ॥ त्वंब्रह्मारयिविद्र्बह्मणस्पतेत्वंविधर्त:सचसेपुरंध्यास्वाहा ॥३४॥ॐ त्वमग्नेराजावरुणोधृतव्रतस्त्वंमित्रोभवसिदस्मईडय: ॥ त्वमर्यमासत्पतिर्यस्यसंभुजंत्वमंशोविदथेदेवभाजयु:स्वाहा ॥३५॥ॐ त्वमग्नेत्वष्टाविधतेसुवीर्यंतवग्नावोमित्रमह:सजात्यं ॥ त्वमाशुहेमाररिषेस्वश्व्यंत्वंनराँशर्धोऽअसिपुरुवसु:स्वाहा ॥३६॥ॐ त्वमग्नेरुद्रोऽअसुरोमहोदिवस्त्वंशर्धोमारुतंपृक्षऽईशिषे ॥ त्वंवातैररुणैर्यासिशंगयस्त्वंपूषाविधत:पासिनुत्मनास्वाहा ॥३७॥ॐ त्वमग्नेद्रविणोदाऽअरंकृतेत्वंदेव:सवितारत्नधाऽअसि ॥ त्वंभगोनृपतेवस्वईशिषेत्वंपायुर्दमेयस्तेविधत्स्वाहा ॥३८॥ॐ त्वामग्नेदमऽआविश्पतिंविशस्त्वांराजानंसुविदत्रमृंजते ॥ त्वंविश्वानिस्वनीकपत्यसेत्वंसहस्त्राणिशतादशप्रतिस्वाहा ॥३९॥ॐ त्वामग्नेपितरमिष्टिभिर्नरस्त्वांभ्रात्रायशम्यातनूरुचं ॥ त्वंपुत्रोभवसियस्तेविधत्त्वंसखासुशेव:पास्याधृष:स्वाहा ॥४०॥ॐ त्वमग्नऽऋभुराकेनमस्य१ स्त्वंवाजस्यक्षुमतोरायऽईशिषे ॥ त्वंविभास्यनुदक्षिदानवेत्वंविशिक्षुरसियज्ञमातनि:स्वाहा ॥४१॥ॐ त्वमग्नेऽअदितिर्देवदाशुषेत्वंहोत्राभारतीवर्धसेगिरा ॥ त्वमिळाशतहिमासिदक्षसेत्वंवृत्रहावसुपतेसरस्वतीस्वाहा ॥४२॥ॐ त्वमग्नेसुभृतउत्तमंवयस्तवस्पार्हेवर्णऽआसंदृशिश्रिय: ॥ त्वंवाज:प्रतरणोबृहन्नसित्वंरयिर्बहुलोविश्वतस्पृथु:स्वाहा ॥४३॥ॐ त्वामग्नऽआदित्यासऽआस्यं१ त्वांजिह्वांशुचयश्चक्रिरेकवे ॥ त्वांरातिषाचोऽअध्वरेषुसश्चिरेत्वेदेवाहविरदंत्याहुतंस्वाहा ॥४४॥ॐ त्वेऽअग्नेविश्वेऽअमृतासोऽअद्रुहऽआसादेवाहविरदंत्याहुतं ॥ त्वयामर्तास:स्वदंतऽआसुतिंत्वंगर्भोवीरुधांजज्ञिशुचि:स्वाहा ॥४५॥ॐ त्वंतान्त्संचप्रतिचासिमज्मनाग्नेसुजातप्रचदेवरिच्यसे ॥ पृक्षोयदत्रमहिनावितेभुवनदनुध्यावापृथिवीरोदसीउभेस्वाहा ॥४६॥ॐ येस्तोतृभ्योगोअग्रामश्वपेशसमग्नेरातिमुपसृजंतिसूरय: ॥ अस्मान् चताँश्चप्रहिनेषिवस्यऽआबृहद्वदेमविदथेसुवीरा:स्वाहा ॥४७॥ॐ कद्रुद्रायपचेतसेमीह्लुष्टमायतव्यसे ॥ वोचेमशंतमंहृदेस्वाहा ॥४८॥ॐ यथानोअदिति:करत्पश्वेनृभ्योयथागवे ॥ यथातोकायरुद्रियंस्वाहा ॥४९॥ॐ यथानोमित्रोवरुणोयथारुद्रश्चिकेतति ॥ यथाविश्वेसजोष:स्वाहा ॥५०॥ॐ गाथपतिंमेधपतिंरुद्रंजलाषभेषजं ॥ तच्छंयो:सुम्नमीमहेस्वाहा ॥५१॥ॐ य:शुक्रइवसूर्योहिरण्यमिवरोचते ॥ श्रेष्ठोदेवानांवसु:स्वाहा ॥५२॥ॐ शंन:करत्यर्वतेसुगंमेषायमेष्ये ॥ नृभ्योनारिभ्योगवेस्वाहा ॥५३॥ॐ इमारुद्रायतवसेकपर्दिनेक्षयद्वीरायप्रभरामहेमती: ॥ यथाशमसद्विपदेचतुष्पदेविश्वंपुष्टंग्रामेऽअस्मिन्ननातुरंस्वाहा ॥५४॥ॐ मृळानोरुद्रोतनोमयस्कृधिक्षयदेवारायनमसाविधेमते ॥ यच्छंचयोश्चमनुरायेजेपितातदश्यामतवरुद्रप्रणीतिषुस्वाहा ॥५५॥ॐ अश्यामतेसुमतिंदेवयज्ययाक्षयद्वीरस्यतवरुद्रमीढ्व: ॥ सुम्नायंनिद्विशोअस्माकमाचरारिष्टवीराजुहवामतेहवि:स्वाहा ॥५६॥ॐ त्वेषंवयंरुद्रंज्ञसाधंवंकुंकुविमवसेनिह्वयामहे ॥ आरेऽअस्मद्दैव्यंहेळोऽअस्यतुसुमतिमिद्वयमस्यावृणीमहेस्वाहा ॥५७॥ॐ दिवोवराहमरुषंकपर्दिनंत्वेषंरुपंनमसानिह्वयामहे ॥ हस्तेबिभ्रभ्देषजावार्याणिशर्मवर्मच्छर्दिरस्मभ्यंसत्स्वाहा ॥५८॥ॐ इदंपित्रमरुतामुच्यतेवच:स्वादो:स्वादीयोरुद्रायवर्धनं ॥ रास्वाचनोऽअमृतमर्तभोजनंत्मनेतोकायतनयायमृळस्वाहा ॥५९॥ॐ मानोमहांतमुतमानोऽअर्भकंमानऽउक्षंतमुतमानऽउक्षितं ॥ मानोवधी:पितरंमोतमातरंमान:प्रियास्तन्वोरुद्ररीरिष:स्वाहा ॥६०॥ॐ मानस्तोकेतनयेमानऽआयौमानोगोषुमानोऽअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहेस्वाहा ॥६१॥ॐ उपतेस्तोमान्पशुपाइवाकरंरास्वापितर्मरुतांसुम्नमस्मे ॥ भद्राहितेसुमतिर्मृळयत्तमाथावयमवइत्तेवृणीमहेस्वाहा ॥६२॥ॐ आरेतेगोध्नमुतपूरुषघ्नंक्षयद्वीरसुम्नमस्मेतेऽअस्तु ॥ मृळाचनोऽअधिचब्रूहिदेवाधाचन:शर्मयच्छद्विबर्हा:स्वाहा ॥६३॥ॐ अवोचामनमोऽअस्माऽअवस्यव:शृणोतुनोहवंरुद्रोमरुत्वान् ॥ तन्नोमित्रोवरुणोमामहंतामदिति:सिंधु:पृथिवीऽउतध्यौ:स्वाहा ॥६४॥ॐ आतेपितर्मरुतांसुम्नमेतुमान:सूर्यस्यसंदृशोयुयोथा: ॥ अभिनोवीरोऽअर्वतिक्षमेतप्रजायेमहिरुद्रप्रजाभि:स्वाहा ॥६५॥ॐ त्वादत्तेभीरुद्रशंतमेभि:शतंहिमाऽअशीयभेषजेभि: ॥ व्य१ स्मद्वेषोवितरंव्यंहोव्यमीवाश्चातयस्वाविषूची:स्वाहा ॥६६॥ॐ श्रेष्ठोजातस्यरुद्रश्रियासितवस्तमस्तवसांवज्रबाहो ॥ पर्षिण:पारमंहस:स्वस्तिविश्वाऽअभीतीरपसोयुयोधिस्वाहा ॥६७॥ॐ मात्वारुद्रचुक्रुधामानमोभिर्मादुष्टुतीवृषभमासहूती ॥ उन्नोवीराँऽअर्पयभेषजेभिर्भिषक्तमंत्वाभिषजांश्रृणोमिस्वाहा ॥६८॥ॐ हवीमभिर्हवतेयोहविर्भिरवस्तोमेभीरुद्रंदिषीय ॥ ऋदूदर:सुहवोमानोऽअस्यैबभ्रु:सुशिप्रोरीरधन्मनायैस्वाहा ॥६९॥ॐ उन्माममंदवृषभोमरुत्वान्त्वक्षीयसावयसानाधमानं ॥ घृणीवच्छायामरपाऽअशीयाविवासेयंरुद्रस्यसुम्नंस्वाहा ॥७०॥ॐ क्व१ स्यतेरुद्रमृळयाकुर्हस्तोयोअस्तिभेषजोजलाष: ॥ अपभर्तारपसोदैव्यस्याभीनुमावृषभचक्षमीथा:स्वाहा ॥७१॥ॐ प्रबभ्रवेवृषभायश्चितीचेमहोमहींसुष्टुतिमीरयामि ॥ नमस्याकल्मलीकिनंनमोभिर्गृणीमसित्वेषंरुद्रस्यनामस्वाहा ॥७२॥ॐ स्थिरेभिरंगै:पुरुरुप:ऽउग्रोबभ्रु:शुक्रेभि:पिपिशेहिरण्यै: ॥ ईशानादस्यभुवनस्यभूरेर्नवाऽउयोषद्रुद्रादसुर्यं१स्वाहा ॥७३॥ॐ अर्हन्बिभर्षिसायकानिधन्वार्हन्निष्कंयजतंविश्वरुपं ॥ अर्हन्निदंदयसेविश्वमभ्वंवाऽओजीयोरुद्रत्वदस्तिस्वाहा ॥७४॥ॐ स्तुहिश्रुतंगर्तसदंयुवानंमृगंनभीममुपहत्नुमुग्रं ॥ मृळाजरित्रेरुद्रस्तवानोन्यंतेअस्मन्निवपंतुसेना:स्वाहा ॥७५॥ॐ कुमारश्चित्पितरंवंदमानंप्रतिनानामरुद्रोपयंतं ॥ भूरेर्दातारंसत्पतिंगृणीषेस्तुतस्त्वंभेषजारास्यस्मेस्वाहा ॥७६॥ॐ यावोभेषजामरुत:शुचीनियाशंतमावृषणोयामयोभु ॥ यानिमनुरवृणीतापितानस्ताशंचयोश्चरुद्रस्यवश्मिस्वाहा ॥७७॥ॐ परिणोहेतीरुद्रस्यवृज्या:परित्वेषस्यदुर्मतिर्महीगात् ॥ अवस्थिरामघवभ्ध्यस्तनुष्वमीढ्वस्तोकायतनयायमृळस्वाहा ॥७८॥ॐ एवाबभ्रोवृषभचेकितानयथादेवनहृणीषेनहंसि ॥ हवनश्रुन्नोरुद्रेहबोधिबृहद्वदेमविदथेसुवीरा:स्वाहा ॥७९॥एतैरेकोनाशीतिमंत्रै:प्रतिमंत्रंस्वाहांतैराज्यंहुत्वाग्रहवेध्यामाराधितैकचत्वारिंशद्देवताभ्योवरुणायचघंटाशब्देनधूपदीपनैवेध्यतांबूलादीन्पुष्पांजल्यंतानुपचारान्समर्पयेत् ॥ ग्रहाणांधूपदीपनैवेध्येषुसाधारणोविधि: ॥ तत्रसूर्यायभद्रमुस्ताख्यकंदधूप: ॥ सोमायमयूरशिखा ॥ भौमायदशांग: ॥ बुधायरालाख्य:सर्जरस: ॥ गुरवेबिल्वफलं ॥ शुक्रायचीडाख्य:श्रीवास: ॥शिष्टेभ्यस्त्रिभ्य:क्रमेणकृष्णागरुजटामांसीमधूकानीतिधूपा: ॥ दीप:सर्पिषातिलतैलेनवासर्वेषां ॥ पाष्टिकमादित्याय ॥ सोमायपायसं ॥ भौमायपयोमिश्रौदन: ॥ बुधायगुडमिश्रित: ॥ क्षीरमोदनंचपृथग्गुरवे ॥ भृगवेदध्योदन ॥ शनयेकृसर: ॥ मांसस्थानीयमाषविकारमिश्रितौदनोराहवे ॥ चित्रान्नंकेतवे ॥ इतिनैवेध्यानि ॥ तत:प्रसीदंतुभवंतइतितान्संप्रार्थ्यऋत्विगन्वरब्धश्चर्वाज्यतिलव्रीहिशेषेणस्विष्टकृतंहुत्वाइध्मसन्नहनींरज्जुमग्नौप्रास्य प्रायश्चित्तादिहोमातंसमाप्य सामात्ययजमानान्वारब्धआचार्योद्वादशगृहीतेनाज्येनपूर्णाहुतिंजुहुयात् ॥ अध्यपू० सर्वकर्मप्रपूरणींभद्रद्रव्यदांपूर्णाहुतिमाज्येनहोष्यामीतिसंकल्प्य स्त्रुवेणाज्यंगृहीत्वास्त्रुचंसमबिलापूरयित्वा तस्यांस्त्रुवमूर्ध्वाबिलंनिधाय पुनरधोबिलंनिक्षिप्य स्त्रुवाग्रेकुसुमाक्षतंनिधायसव्यपाणिनास्त्रुक् स्त्रुवमूलेधृत्वादक्षिणपाणिनास्त्रुक् स्त्रुवंशंखसमुद्रयागृहीत्वातिष्ठन्समपादऋजुकाय:स्त्रुवाग्रन्यस्तदृष्टि:प्रसन्नात्मा ॥ समुद्रादूर्मिरितितिसृणांगोतमोवमदेवोग्निस्त्रिष्टुप् ॥ मूर्धानमांगिरसोभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् ॥ पुनस्त्वाग्निर्वसुरुद्रादित्यास्त्रिष्टुप् ॥ पूर्णादर्विविश्वेदेवा:शतक्रतुरनुष्टप् ॥ सप्ततेअग्नेसप्तवानग्निर्जगती ॥ धामंतेगोतमोवामदेव आपोजगती ॥ पूर्णाहुतौविनियोग: ॥ ॐ समुद्रादूर्मिर्मधुमाँउदारदुपांशुनासममृततत्वमानट् ॥ घृतस्यनामगुह्यंयदस्तिह्वादेवानाममृतस्यनाभि: ॥ वयंनामप्रब्रवामाघृतस्यास्मिन्यज्ञेधारयामानमोभि: ॥ उपब्रह्माश्रृणवच्छस्यमानंचतु:शृंगोवमीद्गौरएतत् ॥ चत्वारिश्रृंगात्रयोअस्यपादद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहोदेवोमर्त्याँआविवेश ॥१॥ॐ मूर्धानंदिवोअरतिंपृथिव्यावैश्वानरमृतआजातमग्निं ॥ कविंसम्राजमतिथिंजनानामासन्नापात्रंजनयंतदेवा: ॥१॥ॐ पूर्णादर्विपरापतसुपूर्णापुनरापत ॥ वस्त्रेवविक्रीणावहाइषमूर्जशतक्रतो ॥१॥ॐ सप्ततेअग्नेसमिध:सप्तजिह्वा:सप्तऋषय:सप्तधामप्रियाणि ॥ सप्तहोत्रा:सप्तधात्वायजंतिसप्तयोनीपृणस्वाघृतेन ॥१॥ॐ धामंतेविश्वंभुवनमधिश्रितमंत:समुद्रेहृध्यं१तरायुषि ॥ अपामनीकेसमिथेयआभृतस्तमश्याममधुमंतंतऊर्मिस्वाहा ॥१॥अग्नयेवैश्वानरायवसुरुद्रादित्येभ्य:शतक्रतवेसप्तवतेग्नयेचेदंनमम ॥ ॐ पूर्णाहुतिमुत्तमांजुहोति ॥ सर्वंवैपूर्णाहुति: ॥ सर्वमेवाप्नोति ॥ अथोइयंवैपूर्णाहुति: ॥ अस्यामेवप्रतितिष्ठति ॥ विज्योतिषेत्यस्यजारोवृशोग्निस्त्रिष्टुप् ॥ संस्त्रावहोमेविनियोग: ॥ ॐ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥ प्रादेवीर्माया:सहतेदुरेवा:शिशितेश्रृंगेरक्षसेविनिक्षेत्रस्वाहा ॥ अग्नयइदंनमम ॥ अथवसोर्धारा ॥ तत:पूर्णपात्रनिनयनसंस्थाजपेनोपस्थानपरिस्तरणविसर्जनपरिसमूहनपर्युक्षणाग्न्यर्चनपात्रोत्सर्जनांतंकुर्यात् ॥अथमंडपईशानेग्रहवेध्या:प्रागुदीच्यांशुचौदेशेसंमृष्टेपंचरंगै:स्वस्तिकंकृत्वा चतुष्पदंदीर्घचतुरस्त्रंसोत्तरच्छदंपीठंनिधायतत्रोदगग्रानमूलान् हरितदर्भानास्तीर्य तत्रयजमान्म्परिहितनववस्त्रंप्राड्मुखमुपवेश्याचार्यऋत्विभि:सहमंगलावाध्यैरभिषेककुंभोदकंपात्रांतरेआदाय प्रत्यड्मुखस्तिष्ठन् सपलाशयौदुंबर्यार्द्रशाखयासहिरण्यपवित्रयासकुशदूर्वापल्लवयाहस्तमंतर्धायोदकपृषभ्दिरब्लिंगाभिर्वारुणीभि:पावमानीभिरन्याभिश्चशांतिपवित्रलिंगाभिर्ग्रहाभिषेकमंत्रै: (सुरास्त्वामिति) इमाआप:शिवतमाइतितृचेनदेवस्यत्वेतिचयजुषाभूर्भव:स्वरितिव्याहृतिभिराभिषिंचेत् ॥ तेचमंत्रा: ॥ आपोहिष्ठेतितिसृणामांबरीष:सिंधुद्वीपआपोगायत्रीअभिषेकेविनियोग: ॥ ॐ आपोहिष्ठा० ॥३॥तत्त्वायामीतितिसृणामाजीगर्ति:शुन:शेप:सकृत्रिमोवैश्वामित्रोदेवरातोवरुणस्त्रिष्टुप् ॥ अभिषेके० ॥ ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेळमानोवरुणेहबोध्युरुशंसमानआयु:प्रमोषी: ॥ तदिन्नक्तंतद्दिवामह्यमाहुस्तदयंकेतोहृदआविचष्टे ॥ शुन:शेपोयमह्वग्दृभीत:सोअस्मान्नाजावरुणोमुमोक्तु ॥ शुन:शेपोह्यह्वद्ग्दृभीतस्त्रिष्वादित्यंद्रुपदेषुबध्द: ॥ अवैनंराजावरुण:ससृज्याद्विदाँअदब्धोविमुमोक्तुपासान् ॥३॥स्वादिष्ठयेतितिसृणांवैश्वामित्रोमधुच्छंदा:पवमान:सोमोगायत्री ॥ अभिषेके० ॥ ॐ स्वादिष्टया ॥३॥शंनइंद्राग्नीइतितिसृणांमैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ अभिषेके० ॥ ॐ शंन इंद्राग्निभवतामवोभि:शनंइंद्रावरुणारातहव्या ॥ शमिंद्रासोमासुवितायशंयो:शंनंइंद्रापूषणावाजसातौ ॥ शंनोभग:शमुन:शंसोअस्तुशंन:पुरंधि:शमुसंतुराय: ॥ शंन:सत्यस्यसुयमस्यशंस:शंनोअर्यमारुपुरुजातोअस्तु ॥ शंनोधाताशमुधर्तानोअस्तुशंनउरुचीभवतुस्वधामि: ॥ शंरोदसीबृहतीशंनोअद्रि:शंनोदेवानांसुहवानिसंतु ॥३॥पवित्रंतइतितिसृणामांगिरस:पवित्र:पवमान:सोमोजगती ॥ अभिषेके० ॥ ॐ पवित्रंतेविततंब्रह्मणस्पतेप्रभुर्गात्राणिपर्येषिविश्वत: ॥ अतप्ततनूर्नतदामोअश्नुतेशृतासइद्वहंतस्तत्समाशत ॥ तपोष्पवित्रंविततंदिवस्पदेशोचंतोअस्यतंवोव्यस्थिरन् ॥ अंवत्यस्यपवीतारमाशवोदिवस्पृष्ठमधितिष्ठंतिचेतसा ॥ अरुरुचदुषस:पृश्निरग्रियउक्षाबिभर्तिभुवनानिवाजयु: ॥ मायाविनोमममिरेअस्यमाययायानृचक्षस:पितरोगर्भमादधु: ॥ अथग्रहमंत्रा: ॥ ग्रहाणामादिरादित्योलोकरक्षणकारक: ॥ विषमस्थानसंभूतांपीडांहरतुतेरवि: ॥१॥रोहिणीश:सुधामूर्ति:सुधागात्र:सुधाशन: ॥ विषमस्थानसंभूतांपीडांहरतुतेविधु: ॥२॥भूमिपुत्रोमहातेजाजगतांभयकृत्सदा ॥ वृष्टिद्वृष्टिहर्ताचपीडांहरतुतेकुज: ॥३॥उत्पाररुपोजगतांचंद्रपुत्रोमहाध्युति: ॥ सूर्यप्रियकरोविद्वान् पीडांहरतुतेबुध: ॥४॥देवमंत्रीविशालाक्ष:सदलोकहितेरत: ॥ अनेकशिष्यसंपूर्ण:पीडांहरतुतेगुरु: ॥५॥दैत्यमंत्रीगुरुस्तेषांप्राणदश्चमहामति: ॥ प्रभुस्ताराग्रहाणांचपीडांहरतुतेभृगु: ॥६॥सूर्यपुत्रोदीर्घदेहोविशालाक्ष:शिवप्रिय: ॥ मंदचार:प्रसन्नात्मापीडांहरतुतेशनि: ॥७॥महाशिरामहावक्रोदीर्घदंष्ट्रोमहाबल: ॥ अतनुश्चोर्ध्वकेशश्चपीडांहरतुतेतम: ॥८॥अनेकरुपवर्णैश्चशतशोऽथसहस्त्रश: ॥ उत्पातरुपोजगत:पीडांहरतुतेशिखी ॥९॥तथदेवमंत्रा: ॥ सुरास्त्वामभिशिंचंतुब्रह्माविष्णुमहेश्वरा: ॥ वासुदेवोजगन्नाथस्तथासंकर्षणोविभु: ॥१॥प्रध्युम्नश्चानिरुध्दश्चभवंतुविजयायते ॥ आखंडलोग्निर्भगवान्यमोवैनिऋतिस्तथा ॥२॥वरुण:पवनश्चैवधनाध्यक्षस्तथाशिव: ॥ ब्रह्मणासहिता:सर्वेदिक्पाला:पांतुतेसदा ॥३॥कीर्तिर्लक्ष्मीर्धृतिर्मेधापुष्टि:श्रध्दाक्रियामति: ॥ बुध्दिर्लज्जावपु:शांति:कांतिस्तुष्टिश्चमातर: ॥४॥एतास्त्वामभिषिंचंतुदेवपत्न्य:समागता: ॥ आदित्यश्चंद्रमाभौमोबुधजीवसितार्कजा: ॥५॥ग्रहास्त्वामभिषिंचंतुराहु:केतुश्चतर्पिता: ॥ देवदानवगंधर्वायक्षराक्षसपन्नगा: ॥६॥ऋषयोमनवोगावोदेवमातरएवच ॥ देवपत्न्योद्रुमानागादैयाश्चाप्सरसांगणा: ॥७॥अस्त्राणिसर्वशस्त्राणिराजानोवाहनानिच ॥ औषधानिचरत्नानिकालस्यावयवाश्चये ॥८॥सरित:सागरा:शैलास्तीर्थानिजलदानदा: ॥ एतेत्वामभिषिंचंतुसर्वकामार्थसिध्दये ॥९॥एतैर्मंत्रै:प्रतिमंत्रमभिषिच्य ॥ हिरण्यवर्णामितिपंचदशर्चस्यसूक्तस्यआनंदकर्दमचिक्लीतेंदिरासुताऋषय: श्रीरग्निश्चेत्युभेदेवते आध्यास्तिस्त्रोनुष्टुभ:चतुर्थीबृहतीपंचमीषष्ठयौत्रिष्टुभौततोष्टावनुष्टुभोंत्याप्रस्तारपंक्ति: ॥ अभिषेकेविनियोग: ॥ ॐ हिरण्यवर्णांहरिंणीं० ऋ० ॥१५॥इमाआपइतितिसृणामैतरेयआपोनुष्टुब्जगत्यनुष्टुभ: ॥ अभिषेकेविनियोग: ॥ ॐ इमाऽआप:शिवतमा० ॥३॥देवस्यत्वेत्यस्यैतरेय:स्वैताश्विनौपूषाचयजु: ॥ अभिषेके विनियोग: ॥ ॐ देवस्यत्वासवितु:प्रसवेऽश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामग्नेस्तेजसासूर्यस्यवर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥बलायश्रियैयशसेन्नाध्यायभुर्भव:स्व: ॥ अमृताभिषेकोस्तुशांति: पुष्टिस्तुष्टिश्चास्तुइत्यभिषिंचेत् ॥ ततोभिषेकशालायामेवाभिषिक्तयजमानस्यपूर्वादिदिक्षुविदिक्षुचचित्रान्नैराचार्योदिग्देवताभ्य:इंद्रायनम:अग्नयेनम: इत्यादिनाममंत्रैर्बलीनुत्क्षिपेत् ॥ ततोयजमानस्यसुवासिनीभिदींपैर्नीराजनंकारयेत् ॥ ततोयजमानोभिषेकवस्त्रमाचार्यायदत्वाश्वेतांबरंर्बलीनुत्क्षिपेत् ॥ ततोयजमानस्यसुवासिनीभिदींपैर्नीराजनंकारयेत् ॥ ततोयजमानोभिषेकवस्त्रमाचार्यादत्वाश्वेतांबरंश्वेत्चंदनंश्वेतपुष्पाणिचधृत्वाभिषेककशालातोऽग्निसमीपमागत्याग्नेर्ग्रहपीठदेवतानांचपंचोपचारपूजांतेग्निंग्रहांस्तदुपदेवताश्चध्यात्वा ॥ ॐ अग्नयेनम: ॐ आदित्यायनम: इतिमंत्रै: प्रणवादिभि:प्रत्येकंपुष्पांजलिंसमर्पयेत् ॥ ततआचार्योदेवतोद्वासनंकुर्यात् ॥ ॐ भूर्भव:स्व:आदित्यायनम: ॥ आदित्यमुद्वासयामि ॥ एवंसोमादीनामुद्वासनवाक्यमूह्यं ॥ ततआचार्यप्रभृतिभ्योजपहोमफलंगृहीत्वातेभ्योदक्षिणांगौ:शंख:रक्तोनड्वान् हिरण्यंपीतवास:श्वेताश्व:कृष्णागौ:कालायसंहस्तीछागोवितिग्रहक्रमेणदध्यात् ॥ अत्रन्य़ूनदक्षिणाबुधदक्षिणायाहिरण्येनसमाकार्याआध्यगवावा ॥ एतदभावेसर्वेभ्योयथाशक्तिहिरण्यंवादध्यात् ॥ आचार्यायद्विगुणं ॥ अन्येश्चयथाशक्तिभूयसीं ॥ तत:कांस्यपात्रगताज्ये रुपंरुपंप्रतिरुपोबभूवेतिमंत्रेणसकुटुंब:स्वप्रतिरुपंप्रेक्ष्य ॥ आज्यंतेज:समुद्दिष्टमाज्यंपापहरंस्मृतं ॥ आज्यंसुराणामाहारआज्येदेवा:प्रतिष्ठिता: ॥ इतिमंत्रंपठित्वातदाज्यंसदक्षिणंब्राह्मणायदध्यात् ॥ ततोभूरिदक्षिणांदत्वासंकल्प्यवा ॥ एकस्याआहुतेरेकंशतस्यैकंसहस्त्रस्यवैकंयथाशक्तिवाब्राह्मणान्भोजयित्वा तेभ्य:शांति:पुष्टिस्तुष्टिश्चास्त्विध्याशिषोगृहीत्वातान्संप्रार्थ्यप्रणिपत्य ॥ यस्यस्मृत्याचनामोक्तयातपोयज्ञक्रियादिषु ॥न्यूनंसंपूर्णतांयातिसध्योवंदेतमच्युतमितिपठित्वा ॥ प्रमादात्कुर्वतांकर्मप्रच्यवेताध्वरेषुयत् ॥ स्मरणादेवतद्विष्णो:संपूर्णंस्यादितिश्रुति: ॥ इत्युक्त्वान्यूनातिरिक्ताच्छिद्रत्वार्थंयथाशक्तिअच्युतानंतगोविंदेतिनाममंत्रजपंकृत्वाग्रहयज्ञफलंश्रीविष्णवेसमर्प्यस्वयंहृष्टमनाबंधुभि:सहभुंजीत ॥ अयंचाश्वलायनगृह्यपरिशिष्टानुसारीग्रहमख:स्मार्ताग्निमतामाश्वलाययनानामेव ॥ बह्वल्पंवावस्वगृह्योक्तंयथाकर्मप्रचोदितं ॥ अयंचाश्वलायनगृह्यपरिशिष्टानुसारीग्रहमख:स्मार्ताग्निमतामाश्वलायनानामेव ॥ बह्वल्पंवास्वगृह्योक्तंयथाकर्मप्रचोदितं ॥ तस्यतावतिशास्त्रार्थेकृतेसर्व:कृतोभवेदितिवचनात् ॥ एवमन्येषामपियदिस्वगृह्यादावुक्तस्तदासएव ॥येषांतुस्वगृह्यादौनोकतस्यैर्याज्ञवल्क्यादिस्मृत्युक्तोमत्स्यपुराणाध्युक्तोवानुष्ठेय:स्मृत्यादे:साधारण्यादितिदिक् ॥ इतिपरिशिष्टोक्तोनवग्रहमखप्रयोग:समाप्त: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP