संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथस्थालीपाकप्रयोग:

संस्कारप्रकरणम् - अथस्थालीपाकप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रयजमान:कृतनित्यक्रिय:शुचि:परिहितधौतवासा:पीठोपवशिष्ट:प्राड्मुखोवाग्यतो
द्विराचम्यदर्भपाणि:प्राणानायम्यदेशकालौसंकीर्त्यममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्य
र्थममुककर्मकरिष्ये ॥ तदंगहोमंकर्तुंस्थंडिलसंस्कारादिकरिष्ये ॥ इतिसंकल्प्य गोमयादि
लिप्तेशुध्ददेशेशुध्दमृदाऐशान्यारंभमुदक्संथंचतुरंगुलोन्नतमंगुलोन्नतंवाचतुर्दिक्षुमिलित्वा
द्विसप्तत्यंगुलपरिधिकंफलितमष्टादशांगुलविस्तृतं होमानुसारेणतदधिकंवानतुतोन्यूनं
मध्योन्नतंस्थंडिलंकुर्यात् ॥ तद्गोमयेनप्रदक्षिणमुपलिप्यदक्षिणेष्टौउदीच्यांद्वेप्रतीच्यांच
तु:प्राच्यामर्धमित्यंगुलानित्यक्त्वा दक्षिणोप्रक्रमामुदक्संस्थांप्रादेशमात्रामेकांलेखांलिखित्वा
तस्यादक्षिणोत्तरयो:प्रागायतेपूर्वरेखयाअसंसृष्टेप्रादेशसंमितेद्वेलेखेलिखित्वा तयोर्मध्येपर
स्परमसंसृष्टाउदक्संस्था:प्रागायता:प्रादेशसंमितास्तिस्त्रइतिषड्रलेखायज्ञियशकलमूलेनदक्षि
णहस्तेनोल्लिख्यलेखासुतच्छकलमुदगग्रंथनिधाय स्थंडिलमभ्दिरभ्युक्ष्यशकलंभंक्त्वाग्ने
य्यांनिरस्यपाणिंप्रक्षाल्यवाग्यतोभवेत् ॥
ततसैजसेनासंभवेमृन्मयेनवापात्रयुग्मेसंपुटीकृत्यसुवासिन्याश्रोत्रियागारात्स्वगृहाद्वासमृध्दं
निर्धूमग्निमाहृतंस्थंडिलादाग्न्येय्यांनिधाय ॥ जुष्टोदमूनाआत्रेयोवसुश्रुतोग्निस्त्रिष्टुप् ॥
एह्यग्नेराहूगणोगोतमोग्निस्त्रिष्टुप् ॥ अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथि
र्दुरोणइमंनोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्नेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एह्यग्नइहहोतानिषीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविश्वमिन्वेयजामहेसौ
मनसायदेवान् ॥ इत्यक्षतैरावाह्याच्छादनंदूरीकृत्य ॥ समस्तव्याहृतीनांपरमेष्ठीप्रजापति:
प्रजापतिर्बृहती ॥ अग्निप्रतिष्ठापने विनियोग: ॥ ॐ भूर्भव:स्वरित्यात्माभिमुखंपाणिभ्यां
षट्‍सुलेखास्वमुकनामानमग्निंप्रतिष्ठापयामीत्यग्निंप्रतिष्ठाप्य ॥ प्रोक्षितेधनानिनिक्षिप्यवे
णुधमन्याप्रबोध्यध्यायेदेवम् ॥ चत्वारिश्रृंगागोतमोवामदेवोग्निस्त्रिष्टुप् ॥ अग्निमूर्तिध्या
नेविनियोग: ॥
ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहादे
वोमर्त्यांऽआविवेश ॥ सप्तहस्तश्चतु:श्रृंग:सप्तजिह्वोद्विशीर्षक: ॥ त्रिपात्प्रसन्नवदन:सु
खासीन:शुचिस्मित: ॥ स्वाहांतुदक्षिणेपार्श्वेदेवींवामेस्वधांतथा ॥ बिभ्रदृक्षिणहस्तैस्तुश
क्तिमन्नंस्त्रुचंस्त्रुवं ॥ तोमरंव्यजनंवामैर्घृतपात्रंचधारयन् ॥ मेषारुढोजटाबध्दोगौरवर्णोम
हौजस: ॥ धूम्रध्वजोलोहिताक्ष:सप्तार्चि:सर्वकामद: ॥ आत्माभिमुखमासीनएवंरुपोहुताश
न: ॥ ततोयदिसमिदादौसमोरोपितोग्निस्तर्हिप्रत्यवरोहणंकार्यम् ॥ तच्चैवम् ॥
प्रत्यवरोहेत्यस्यहिरण्यगर्भोग्निस्त्रिष्टुप् ॥ समारोपितस्याग्ने:प्रत्यवरोहणेविनियोग: ॥
ॐ प्रत्यवरोहजातवेद:पुनस्त्वंदेवेभ्योहव्यंहन:प्रजानन् ॥ प्रजांपुष्टिंरयिमस्मासुधेह्यथाभव
यजमानायशंयो: ॥ इतिमंत्रेणसमारोपिताग्निसमिधंस्थापितेग्नौप्रक्षिपेदिति ॥ एतदंतंसं
स्थापितेग्नौहोमेकार्यं ॥ नित्यधारितहोमेतुनैतावत् ॥ तत:पार्वणस्थालीपाकेप्रधानदिनात्पू
र्वदिनेसध्यस्कालायांपौर्णमास्यामशक्तौचप्रधानदिनएववाप्रातरौपासनंहुत्वान्वाधानंकुर्यात् ॥ तच्चेत्थं ॥ आचम्यप्राणानायम्यसमिदृद्वयंत्रयंवादायदेशकालौस्मृत्वा ममोपात्तदुरितक्ष
यद्वाराश्रीपरमेश्वरप्रीर्त्यर्थं दर्शपूर्णमासाभ्यांस्थालीपाकाभ्यांयक्ष्ये ॥ तत्रेदानींपूर्णमासस्था
लीपाकेनयक्ष्ये ॥ दर्शेतुपूर्वसंकल्पितेनदर्शस्थालीपाकेनयक्ष्यइतिविशेष: ॥ तत्रदेवतापरिग्र
हार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिंचाघारदेवते
आज्येनाग्नीषौमौचक्षुषीआज्येन ॥ अग्निमग्नीषोमौचप्रधानदेवतेचरुद्रव्येण ॥
दर्शेतुअग्निमिंद्राग्नीचप्रधानदेवतेचरुद्रव्येण इतिविशेष: ॥ शेषेणस्विष्टकृतमग्निमिध्मस
हसन्नहनेनरुद्रमयासमग्निंदेवान् विष्णुमग्निंवायुंसूर्यंप्रजापतिंचैता:प्रायश्चित्तदेवताआज्येन
ज्ञाताज्ञातदोषनिबर्हणार्थंत्रिवारमग्निंमरुतश्चाज्येनविश्वान् देवान् संस्त्रावेणांगदेवता:प्रधा
नदेवता:सर्वा:सन्निहिता:संतुएवंसांगोपांगेनकर्मणाश्वोयक्ष्ये ॥ सध्यस्कालेकर्तव्येतुसध्योय
क्ष्ये इतिसंकल्प्यतूष्णींसमस्तव्याहृतिभिर्वासमिध्दोमंकुर्यात् ॥ व्याहृतिपक्षे समस्तव्याहृ
तीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती अन्वाधानसमिध्दोमेविनियोग: ॥ ॐ भूर्भव:स्व:
स्वाहा ॥ प्रजापतयइदंनमम ॥ (तंचाग्निंधारयेत् ॥ संकटेतुतुभ्यंताइर्त्यृचाज्याहुतिंहुत्वा
समारोपयेत् ॥ तध्यथा ॥ अग्ने: समारोपकं० ॥ तुभ्यंताविरुपोग्निर्गायत्री ॥ कृतान्वा
धानाग्ने: समारोपाधिकार्थंप्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ तुभ्यंताअंगिरस्तमविश्वा:
सुक्षितय:पृथक् ॥ अग्नेकामाययेमिरेस्वाहा ॥ अग्नयइदंनमम)
व्रतलोपाहुतिंहुत्वा ॥ तत:प्रतिपदिप्रातरौपासनंहुत्वाग्निंपरिसमुह्यपरिस्तृणीयात् ॥
तच्चेत्थं ॥ अग्न्यायतनादष्टांगुलपरिमितेदेशेऐशानींदिशमारभ्यप्रदक्षिणंसमंतात्सोदकेन
पाणिनात्रि:परिमृज्यैकादशांगुलमितेदेशेप्राच्यादिषुपूर्वमुपरिनिहितदर्भै:परिस्तृणीयात् ॥
तत्रप्राच्यांप्रतीच्यांचोदगग्रादर्भा: अवाच्यामुदीच्यांचप्रागग्रा: पूर्वपश्चात्परिस्तरणमूलयोरु
परिदक्षिणपरिस्तरणं उत्तरपरिस्तरणंतुतदग्रयोरधस्तात् ॥ तेचदर्भाअनियतसंख्याएकैक
स्यांदिशिचत्वारश्चत्वारइत्येवंषोडशवा ॥ ततोग्नेर्द्क्षिणतोब्रह्मासनार्थंउत्तरतश्चपात्रासादन
नार्थंकांश्चित्प्रागग्रान्दर्भानास्तृणीयात् ॥ अग्नेरैशानीतस्त्रिरंभसापरिषिच्य उत्तरास्तीर्णेषुद
र्भेषुदक्षिणसव्यपाणिभ्यांक्रमेण चरुस्थालीप्रोक्षण्यौ दर्वीस्त्रुवौ प्रणीताज्यपात्रे इध्माबर्हिषी
शूर्पकृष्णाजिने उलूखलमुसले चेतिद्वेद्वेउदगपवर्गंप्राक्संस्थंचन्युब्जान्यासादयेत् ॥
आज्यमात्रहोमेतु प्रोक्षणीस्त्रुवौ प्रणीताज्यपात्रेइध्माबर्हिषीचेत्येतावतामेवासादनम् ॥
तत:प्रोक्षणीपात्रमुत्तानंकृत्वातत्रानंतर्गर्भितसाग्रसमस्थूलप्रादेशमात्रकुशद्वयरुपेपवित्रेनिधाय
शुध्दाभिरभ्दिस्तत्पात्रंपूरयित्व गंधपुष्पादिक्षिप्त्वाहस्तयोरंगुष्ठोपकनिष्ठिकाभ्यामुत्ताना
भ्यांपाणिभ्यामुदगग्रेपृथक् पवित्रेधृत्वाअपस्त्रिरुत्पूयपात्राण्युत्तानानिकृत्त्वा इध्मंविस्त्रस्यस
र्वाणिपात्राणित्रि:प्रोक्षेत् ॥ ताअप:किंचित्कमंडलौक्षिपेदित्येके ॥ ततोयथोक्तलक्षणमीशान
दिगवस्थितंब्रह्माणमस्मिन्कर्मणिब्रह्माणंत्वामहंवृणइतितत्पाणिंपाणिगृहीत्वावृणुयात् ॥
बृह्यावृतोस्मीत्युक्त्वाप्राड्मुखोयज्ञोपवीत्याचम्यसमस्तपाण्यंगुष्ठोभूत्वाग्रेणाग्निंपरीत्यद
क्षिणतउदड्मुख:स्थित्वाआसनार्थदर्भेषुदक्षिणभागस्थमेकंदर्भमंगुष्ठानामिकाभ्यांगृहीत्वा
निरस्त:परावसु:इतिनैऋत्यांनिरस्याप:स्पृष्ट्वा इदमहमर्वावसो:सदनेसीदामीत्युक्त्वोदड्मु
खएववामोरुपरिदक्षिणपादंसंस्थाप्योपविश्ययजमानेनगंधाक्षतादिभिरर्चित:सन् ॥
ॐ बृहस्पतिर्बह्माब्रह्मसदनआशिष्यतेबृहस्पतयेयज्ञंगोपाय (सयज्ञंपाहिसयज्ञपतिंपाहिस
मांपाहि) इतिजपित्वासदायज्ञमनाएववर्तेत ॥ ततोयजमान:प्रणीतापात्रमग्ने:प्रत्यड्निधाय
तत्रप्रागपवित्रेनिधायोत्पूताभिरभ्दिस्तत्पात्रंपूरयित्वागंधपुष्पाक्षतान्निक्षिप्य ब्रह्मन्नप:प्रणे
ष्यामीतिपृच्छेत् ॥ ततोब्रह्माउपांशुभूर्भव:स्वर्बृहस्पतिप्रसूत: ॥ उच्चै: ॐ प्रणय इत्युनु
जानीयात् ॥ कर्तापूर्णपात्रंमुखसमुध्दृत्याग्नेरुत्तरतोदर्भेषुनिधायतेपवित्रेगृहीत्वान्यैर्दर्भैराच्छा
दयेत् ॥ (तत:प्रत्यगग्ने:कुशेषुशूर्पंनिधायतत्रप्रागग्रेपवित्रेनिधाय अग्नयेत्वाजुष्टंनिर्वपामि)
इतिमंत्रावृत्त्याव्रीहीणांयवानांवाचतुरश्चतुरोमुष्टीन्निरुप्याग्नीषोमाभ्यांत्वाजुष्टनिर्वपामीति
तथैवनिरुप्यतेपवित्रेनिरुप्तव्रीहीणामुपरिनिधायोत्पूताभिरभ्दिरग्नयेत्वाजुष्टंप्रोक्षामीतिनिर्वा
पसंख्ययाप्रोक्षेत् ॥
एवमग्नीषोमाभ्यांत्वाजुष्टंप्रोक्षामीतितथैवप्रोक्षेत् ॥ दर्शेतुअग्नीषोमस्थानेइंद्राग्निभ्यांत्वे
त्यादिनिर्वापेप्रोक्षणेचविशेष: ॥ एवंनाममंत्रकहोमेनिर्वाप:प्रोक्षणंचयथाप्रधानदैवतंदेवतानाम
ग्रहणेकार्यम् ॥ समंत्रकहोमेतुश्रवणाकर्मादौतूष्णींचतुरश्चतुरोमुष्टीन्निर्वपेत् प्रोक्षेच्च ॥
तत:पात्राणामुत्तरत:प्राग्ग्रीवमास्तीर्णेऊर्ध्वलोम्निकृष्णाजिनेनिहितेउलूखलेमुसलेनपत्न्यवह
त्यशूर्पेणतुषादीन् संशोध्यत्रि:शुक्लीकुर्यात् ॥
ततश्च तांस्त्रि:प्रक्षालितान्पृथक् पात्रीकपात्रेवाअविग्धमनवस्त्रावितमंतरुष्मपक्वंसुश्रृतंचरुं
पचेत् ॥ ततस्तेपवित्रेआज्यपात्रेनिधायतत्पात्रंपुरत:संस्थाप्यतस्मिन्नाज्यमासिच्य अग्ने
रुत्तरत:स्थितांगारान्भस्मनासहाग्नेरुदक् परिस्तरणाब्दहिर्निरुह्य तेष्वाज्यपात्रमधिश्रित्य
ज्वलतादर्भोल्मुकेनावज्वल्यांगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्षिप्य पुनर्ज्वलताते
नैवदर्भोल्मुकेन चरुणासहाज्यंत्रि:पर्यग्निकृत्वा तदुल्मुकमपास्याप:स्पृष्ट्वाआज्यस्थालीं
भुविकर्षयित्वाउदगुद्वास्यअंगारान्प्रत्यूह्याप:स्पृष्ट्वातत्रस्थमेवाज्यं ॥
सवितुष्ट्वाहिरण्यस्तूप:सवितापुरउष्णिक् ॥ आज्यस्योत्पवनेविनियोग: ॥
ॐ सवितुष्ट्वाप्रसवउत्पुनाम्यच्छिद्रेणपवित्रेणवसो:सूर्यस्यरश्मिभिरितिमंत्रेणकश्रुत्योच्चारि
तेनैकवारंद्विस्तूष्णीं उत्तानपाणिद्वयांगुष्ठोपकनिष्ठिकाभ्यामंतयोरसंसृष्टगृहीताभ्यामुद
ग्राभ्यांपवित्राभ्यांप्रागुत्पूय तेपवित्रेअभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥ तूष्णीं (स्कंदायस्वाहा स्कंदा
येदंनमम इतिमंत्रेणेतिकेचित् ) ॥
अथाग्ने:पश्चात्परिस्तरणाब्दहिरात्मनोग्रतोभूमिंप्रोक्ष्यतत्रबर्हि:सन्नहनींरज्जुमुदगग्रांप्रसार्य
तस्यांबर्हि:प्रागग्रमुदगपवर्गमविरलमास्तीर्यतस्मिन्नाज्यपात्रंनिधायस्त्रुवादिसंमार्जयेत् ॥
तध्यथा ॥ दक्षिणेनहस्तेनस्त्रुक्स्त्रुवौगृहीत्वासव्येनकांश्चिदृर्भानादायसहैवाग्नौप्रताप्य स्त्रुचंनिधायस्त्रुवंवामहस्तेगृहीत्वा दक्षिणहस्तेनुस्त्रुवस्यबिलंदर्भाग्रै:प्रादक्षिण्येनप्रागादिप्राग
पर्वर्गंत्रि: समृज्याभ्दि:प्रोक्ष्यस्त्रुवंनिष्टप्याज्यस्थाल्याउत्तरत:स्त्रुगसंसृष्टंनिधायोदकंस्पृष्टा
तैरेवदर्भेर्जुहूंचैवमेवसंमृज्यस्त्रुवादुत्तरतोनिधायदर्भानभ्दि:क्षालयित्वाग्नावनुप्रहरेत् ॥
तत:श्रृतंचरुंस्त्रुवगृहीतेनाज्येनाभिघार्योदगुद्वास्याग्न्याज्ययोर्मध्येननीत्वाज्यादृक्षिणतोबर्हि
षिसांतरमासाध्यपुनरप्यभिघार्य [नवाभिघार्य] हवि:पृथक्करणायपात्रांतरंचर्वाज्ययोर्मध्येनि
धायैकादशांगुलिमितेदेशेगंधाक्षतपुष्पैरग्निंसमंत्रकमचर्येत् ॥ विश्वानिनइतिसृणामात्रेयोवसु
श्रुतोग्निस्त्रिष्टुप् द्वयोरर्चनेअंत्यायाउपस्थानेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥ ॐ सिंधुंननावादुरितापिपर्षि ॥ ॐ अग्नेअत्रिवन्नमसागृणान: ॥ ॐ अस्माकंबोध्यवि
तातनूनां ॥ ॐ यस्त्वाहृदाकीरिणामन्यमान: ॥ ॐ अमर्थ्यंमर्त्योजोहवीमि ॥ ॐ जातवेदोयशोअस्मासुधेहि ॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥ ॐ यस्मैत्वंसुकृतेजातवेदउ
लोकमग्नेकृणवस्योनं ॥ अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ ततआत्मानंचा
लंकृत्यहस्तंप्रक्षाल्यइध्मब्म्धनरज्जुमिध्मस्थानेनिधायपाणिनेध्ममादायमूलमध्याग्रेषुस्त्रुवे
णात्रिभिघार्यं मूलमध्ययोर्मध्यभागेगृहीत्वा ॥ अयंतेवामदेवोजातवेदाअग्निस्त्रिष्टुप् इध्म
हवनेविनियोग: ॥ ॐ अयंतइध्मआत्माजातवेदस्तेनेध्यस्ववर्धस्वचेध्दवर्धयचास्मान्प्रज
यापशुभिर्ब्रह्मवर्चसेनान्नाध्येनसमेधयस्वाहा ॥ जातवेदसेग्नयइदंनमम ॥ तत:स्त्रुवेणा
ज्यमादायाग्नेरायतनस्यवायव्यकोणमारभ्याग्नेयकोणपर्यंतंप्रजापतयइतिमनसास्मरन्
स्वाहेत्युच्चार्यनैरंतर्येणाज्यधारामग्नाविध्मदरुपरिहुत्वा ॥ पुनराज्यमादायाग्नेरायतनस्य
नैऋतकोणतऐशानीपर्यंतंतथैवहुत्वात्यक्त्वाच ॥ स्त्रुवेणाज्यमादायअग्नयेस्वाहेत्यग्नेरुत्तर
पार्श्वेपूर्वभागेहुत्वा पुनरज्यंसोमायस्वाहेत्यग्निदक्षिणपार्श्वेतत्समप्रदेशेहुत्वा ॥ पूर्वनिहित
पात्रेचरुमुध्दृत्यपृथक्कृत्य इदमग्नयेइदमग्नीषोमाभ्यामितिचरुभागद्वयमुत्तरसंस्थमभिमृ
श्यावदानधर्मेणजुहुयात् ॥ एवंनाममंत्रकहोमेयथादैवतंविभक्तस्यचरोरभिमर्श: ॥
समंत्रकहोमेतुनविभागोनाभिमर्शश्च ॥ अथावदानधर्म: ॥ स्त्रुवेणस्त्रुच्यामुपस्तीर्यप्रथमप्र
धानदेवताचरुभागमध्यादंगुष्ठपर्वमात्रंतिरश्चीनाभिरंगुष्ठमध्यमानामिकाभिरुदग्राभिर्नखस्प
र्शमकुर्वन्नवदायदर्व्यामोप्य ततश्चपूर्वभागंप्रागग्राभिस्ताभिस्तथैवावदाय दर्व्यामोप्य पात्र
स्थंहविरभिघार्य दवींस्थमवत्तंचाभिघार्यविधूमज्वालाग्नौ ॥ ॐ अग्नयेस्वाहेत्याज्यभागयो
र्मध्यदेशेतत्प्रत्यग्देशेवाआच्छादयन्निवदर्व्यापार्श्वेनहुत्वाअग्नयइदंनममेतित्यक्त्वा ॥
पुन:पूर्ववदुत्तरहविर्भागावदाय ॥ ॐ अग्नीषोमाभ्यांस्वाहेतिपूर्वाहुते:प्राग्भागेहुत्वाअग्नीषो
माभ्यास्वाहेतिपूर्वाहुते:प्राग्भागेहुत्वाअग्नीषोमाभ्यामिदंनममेतित्यजेत् ॥ पंचावत्तीतुदर्व्या
मुपस्तीर्यमध्यात्पूर्वार्धात्पश्चार्धाच्चत्रिर्हविषोवदायाभिघार्यजुहुयात् ॥ दर्शेतुअग्नीषोमस्था
नेइंद्राग्निभ्यांस्वाहाइंद्राग्निभ्यामिदंनममेतिविशेष: ॥ पुनर्दर्व्यामुपस्तीर्यप्रथमहविर्भागस्यो
त्तरार्धत: पूर्वावदानतोभूयोनूचीनाभिरेवांगुलिभिरवदायदर्व्यामोप्य द्वीयहविर्भागस्यतथैवा
वदायपंचावत्तीतुहविर्भागद्वयेपिउत्तरार्धात्पूर्वार्धाच्चद्विर्द्विरवदाय पात्रस्थमनभिघार्यावत्तंतु
द्विरभिघार्य ॥ यदस्येतिहिरण्यगर्भोग्नि: स्विष्टकृदतिधृति: स्विष्टकृध्दोमेविनियोग: ॥
ॐ यदस्यकर्मणोत्यरीचंयद्वान्यूनमिहाकरं ॥ अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वंस्विष्टंसु
हुतंकरोतुमे ॥ अग्नयेस्विष्टकृतेसुहुतहुतेसर्वप्रायश्चित्ताहुतीनांकामानांसमर्धत्रियेसर्वान्न:
कामान्त्समर्धयस्वाहा इत्येकश्रुत्योच्चार्याग्नावैशानदेशेजुहुयात् ॥ स्विष्टकृतेग्नयइदंनम ॥ इध्मबंधनरज्जुंविस्त्रस्य  रुद्रायस्वाहारुद्रायेदंनमम ॥ अपउपस्पृश्य स्त्रुवेणप्रायश्चित्ता
ज्याहुती:सप्तजुहुयात् ॥ अयाश्चेतिविमदोऽयाअग्नि:पंक्ति: ॥ प्रायश्चित्ताज्यहोमेविनियो
ग: ॥ ॐ अयाश्चाग्नेस्यनभिशस्तीश्चसत्यमित्वमयाअसि ॥ अयासावयसाकृतोयासन्ह
व्यमूहिषेयानोधेहिभेषजंस्वाहा ॥ अयासेग्नयइदंनमम ॥१॥
अतोदेवा:काण्वोमेधातिथिर्देवागायत्री ॥ सर्वत्रप्राग्वद्विनियोग: ॥ ॐ अतोदेवाअवंतुनोय
तोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि:स्वाहा ॥ देवेभ्यइदंनमम ॥२॥
इदंविष्णु:काण्वोमेधातिथिर्विष्णुर्गायत्री ॥ प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ इदंविष्णु
र्विचक्रमेत्रेधानिदधेपदं ॥ समूह्लमस्यपांसुरेस्वाहा ॥ विष्णवइदंनमम ॥३॥
व्यस्तसमस्तव्याहृतीनांविश्वामित्रजमदग्निभरद्वाजप्रजापतयऋषय: ॥ अग्निवायुसूर्यप्र
जापतयोदेवता: ॥ गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि ॥ प्रायश्चित्ताज्यहोमेविनियोग: ॥
ॐ भू:स्वाहा ॥ अग्नयइदंमनम ॥ ॐ भुव:स्वाहा ॥ वायवइदंनमम ॥ ॐ स्व:स्वाहा ॥ सूर्यायेदंनमम ॥ ॐ भूर्भव:स्व:स्वाहा ॥ प्रजापतयइदंनमम ॥७॥
ततोब्रह्माकर्तारंपरीत्याग्नेर्वायव्यदेशेतिष्ठन्नेताएवसप्ताज्याहुतीर्जुहुयात् ॥ त्यागंयजमा
नोऽत्रकुर्यात् ॥ ततस्तत्रस्थोब्रह्मैवमंत्रविपर्यासादिनियतनिमित्तेसति ॥ अनाज्ञातमितिमंत्र
द्वयस्यहिरण्यगर्भोग्निरनुष्टुप् ॥ ज्ञाताज्ञातदोषनिबर्हणार्थंप्रायश्चित्ताज्यहोमेविनियोग: ॥
ॐ अनाज्ञातंयदाज्ञातंयज्ञस्यक्रियतेमिथु ॥ अग्नेतदस्यकल्पयत्वहिवेत्थयथातथस्वाहा ॥
यजमान: अग्नयइदंनमम ॥ ॐ पुरुषसंमितोयज्ञोयज्ञ:पुरुषसंमित: ॥ अग्नेतदस्यकल्प
यत्वहिवेत्थयथातथस्वाहा ॥ अग्नयइदंनमम ॥ यत्पाकत्रेत्याप्त्यास्त्रितोऽग्निस्त्रिष्टुप् ॥
प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ यत्पाकत्रामनसादीनदक्षानयज्ञस्यमन्वतेमर्त्यास: ॥
अग्निष्टध्दोताक्रतुविद्विजानन्याजिष्ठोदेवाँऋतुशोयजातिस्वाहा ॥ अग्नयइदंनमम ॥
यद्वोदेवाअभितपामरुतस्त्रिष्टुप् ॥ मंत्रतंत्रविपर्यासादिनिमित्तकप्रायश्चित्ताज्यहोमेविनियो
ग: ॥ ॐ यद्वोदेवाअतिपातयानिवाचाचप्रयुतीदेवहेळनं ॥ अरायोअस्माँअभिदुच्छुनायते
न्यत्रास्मन्मरुतस्तन्निधेतनस्वाहा ॥ मरुभ्ध्यइदंनमम ॥ तत:स्कन्नभिनाध्यनियतनि
मित्तेसतिवक्ष्यमाणप्रकारेणतत्प्रतिपदोक्तजपहोमान्कुर्याब्र्दह्या ॥ ब्रह्मणोऽभावेयजमान
एवैतान्प्रायश्चित्तादीन्कृत्वाऽन्यस्मैवरंदध्यात् ॥ ततोयजमान: सर्वकर्मप्रपूरणींभद्रद्रव्यदां
पूर्णाहुतिमाज्येनहोष्यामिइतिसंकल्प्य ॥ स्त्रुवेणाज्यंचतुर्वारंगृहीत्वास्त्रुचंसमबिलांपूरयित्वा
तस्यांस्त्रुवमूर्ध्वबिलंनिधायपुनरधोबिलंनिक्षिप्यस्त्रुवाग्रेकुसुमाक्षतंनिधाय सव्यपाणिनास्त्रु
क् स्त्रुवमूलेधृत्वादक्षिणपाणिनास्त्रुक् स्त्रुवंशंखमुद्रयागृहीत्वा तिष्ठन्समपादऋजुकाय:स्त्रु
वाग्रन्यस्तदृष्टि:प्रसन्नात्मा ॥ समुद्रादूर्मिरित्येकादशर्चस्यसूक्तस्यगौतमोवामदेवआपस्त्रि
ष्टुप् अंत्याजगती पूर्णाहुतौविनियोग: ॥ ॐ समुद्रादूर्मि० ऋक् ११ ॥
मधुमंतंतऊर्मिस्वाहा ॥ इतिपठन्यवपरिमितांधारांसंततांस्त्रुगग्रेणसशेषंहुत्वाअभ्ध्यइदंनम
मेत्युद्दिश्यत्यक्त्वा ॥ विज्योतिषेत्यस्यजारोवृशोग्निस्त्रिष्टुप् ॥ पूर्णाहुतिशेषाज्यहोमेवि
नियोग: ॥ ॐ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥ प्रादेवीर्माया:सह
तेदुरेवा:शिशीतेशृंगेरक्षसेविनिक्षेत्रस्वाहा ॥ इत्यनेनचतथैवावशेषंहुत्वाग्नयइदंनममेतित्य
क्त्वाविश्वेभ्योदेवेभ्य:स्वाहेतिसंस्त्राबंहुत्वा विश्वेभ्योदेवेभ्यइदंनममेतित्यजेत् ॥ ततस्तंदु
लकणान्समिद्दर्भशकलान्यभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥ पूर्णाहुत्याध्येतदंतंसमूलंप्रयोगपारिजा
तकारेणलिखितमपीदानींशिष्टानकुर्वंति ॥ अथावभृथस्थानीयंपूर्णपात्रजलेनमार्जनंकुर्यात् ॥ तध्यथा ॥ पूर्वासादितंपूर्णपात्रमास्तीर्णेबर्हिषिदक्षिणपाणिनानिधायतत्रगंगादिपुण्यनदी:
स्मरन्दक्षिणपाणिनास्पृशन् ॥ पूर्णमसिपूर्णंमेभूया:सुपूर्णमसिसुपूर्णंमसिसुपूर्णंमेभूया:सद
सिसन्मेभूया:सर्वमसिसर्वंमेभूया: ॥ अक्षितिरसिमामेश्रेष्ठा: ॥ इतिजपित्वाकुशाग्रै:प्रागादि
पंचदिक्षुजलंमंत्रैर्थथालिंगंसिंचेत् ॥ तेचमंत्रा: ॥ प्राच्यांदिशिदेवाऋत्विजोमार्जयंतां ॥
दक्षिणस्यांदिशिमासा:पितरोमार्जयंतां ॥ अपउपस्पृश्य ॥ प्रतीच्यांदिशिग्रहा:पशवोमार्जयं
तां ॥ उदीच्यांदिश्यापओषधिवनस्पतयोमार्जयंतां ॥ ऊर्ध्वायांदिशियज्ञ:संवत्सर:प्रजापति
र्मार्जयंतां ॥ इत्येकश्रुत्यापठन्प्रतिदिशंसिक्त्वाकुशाग्रै:स्वशिरसिमार्जयेत् ॥ आपोअस्मानि
त्यस्यदेवश्रवाआपस्त्रिष्टुप् ॥ मार्जनेविनियोग: ॥ ॐ आपोअस्मान्मातर:शुंधयंतुघृतेननो
घृतप्व:पुनंतु ॥ विश्वंहिरिप्रंप्रवहंतिदेवीरुदिदाभ्य:शुचिरापूतएमि ॥ इदमाप:सिंधुद्वीप आपोनुष्टुप् ॥ मार्जनेविनियोग: ॥ ॐ इदमाप:प्रवहतयत्किंचिदुरितंमयि ॥ यद्वाहमभि
दुद्रोहयद्वाशेषउतानृतं ॥ सुमित्र्यानआपओषधय:संतु ॥ इत्येतैर्मंत्रातेमार्जनंकृत्वा ॥ दुर्मि
त्र्यास्तस्मैसंतुयोऽस्मान्द्वेष्टियंचवयंद्विष्मस्तंहन्मि ॥ इतिनिऋतिदेशेकुशाग्रैरप:सिंचेत् ॥ ततो ब्रह्मा यजमानवामपार्श्वस्थितपत्न्यंजलौपूर्णपात्रस्थंजलं ॥ ॐ माहंप्रजांपरासिचं
यान:सयावरी:स्थन ॥ समुद्रेवोनिनयानिस्वंपाथोअपीथ ॥ इतिमंत्रमेकश्रुत्यापत्न्यावाचय
न्स्वयंवापठन्प्रत्यड्मुखंनिषिच्यांजलिस्थजलै:पापानोदार्थमात्मानंयजमानंपत्नींचप्रोक्षेत् ॥
पत्नीतज्जलंबर्हिषिनिषिंचेत् ॥ अथवायजमानएवस्ववामपाणावुत्तानेबर्हिर्निधायतत्रदक्षिण
पाणिनापूर्णपात्रमादायमाहंप्रजामित्यनेनतज्जलंप्रत्यड्मुखंनिषिच्यताआप:समुद्रंगच्छंतीति
ध्यात्वापाणिस्थजलैरात्मानंपत्नींप्रोक्षेत् ॥
तत:कर्ताग्नेर्वायव्येस्थित:संस्थाजपेनोपतिष्ठेत् ॥ तध्यथा ॥ अग्नेत्वंनइतिचतसृणांगौपा
यनावाबंधु:सुबंधु:श्रुतबंधुर्विप्रबंधुश्चैकैकर्चाऋषय: ॥ अग्निर्देवता ॥ द्विपदाविराट्‍छंद: ॥
अग्न्यपस्थानेविनियोग: ॥ ॐ अग्नेत्वंनोअंतमउतत्राताशिवोभवावरुथ्य: ॥ वसुरग्निर्वसु
श्रवाअच्छानक्षिध्युमत्तमंरयिंदा: ॥ सनोबोधिश्रुधीहवमुरुष्याणोअघायत:समस्तात् ॥
तंत्वाशोचिष्ठदीदिव:सुम्नायनूनमीमहेसखिभ्य: ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥
यत्तेन्यूनंतस्मैतौपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥
ॐ स्वस्ति ॥ श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलं ॥ आयुष्यंतेजाअरोग्यंदेहिमेहव्यवा
हन ॥ मानस्तोकइत्यस्यकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेत
नयेमानआयौमानोगुषोमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वा
हवामहे ॥ इतिस्त्रुवबिलपृष्ठेनैशानीगतांविभूतिंगृहीत्वा ॥ ॐ त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमिति
दक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसिधारयेत् ॥ केचित्तूपस्थानात्पूर्वंविभूतिधारणमाहुरिति ॥ तत:परिस्तरणानिविसृज्याग्निंपरिसमुह्य
परिषिच्य विश्वानिनइत्यर्चयित्वानत्वाचपुष्पादिभिरलंकृत्यनैवेध्यंतांबूलंचनिवेध्य ब्रह्मणे
यथोक्तदक्षिणांदक्षिणाभावेहुत् शेषंघृतादिसहिरण्यंदत्वा ब्रह्माभावेन्यस्मैब्राह्मणायदत्वा
पात्राणिप्रक्षाल्यपूर्वक्रमेणद्वंद्वशउत्सृज्य ॥ यस्यस्मृत्येतिश्रीविष्णुंनत्वाचम्यधृतपवित्र
ग्रंथिंविस्त्रस्ययस्यस्मृतेतिविष्णुंनत्वाकर्मेश्वरार्पणंकृत्वाद्विराचामेत् ॥
इतिस्थालीपाकप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP