संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगुर्वापदिपक्षहोम:

संस्कारप्रकरणम् - अथगुर्वापदिपक्षहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रप्रतिपदिसायंकालेसमित्प्रक्षेपणांतंकृत्वाहुतिप्रमाणेनतंडुलान्पात्रद्वयेप्रतिपात्रंचतु
र्दशवारंगृहीत्वाप्रथमपात्रस्थानग्नयेस्वाहेतिसर्वान् जुहुयात् ॥
तत:प्रजापत्यर्थंगृहीतान् प्रजापतिपदंचतुर्थ्यंतंमनसाध्यायन् स्वाहेतिहुत्वोपस्थानादिसकृ
त्कुर्यात् ॥ एवंव्दितीयायांप्रात:समित्प्रक्षेणादिपूर्ववत्कृत्वा सूर्यायस्वाहेतिपूर्ववध्दुत्वासायं
कालीनोत्तराहुतिवद्वितीयाहुतिंचहुत्वोपस्थानाध्यंगजातंसकृत्कुर्यात् ॥
पक्षमध्येवापत्तावागामिचतुर्दशीसायंकालीनहोमांतान् शेषहोमान्संमस्येत् ॥ पर्वप्रातर्होमांतां
श्चप्रात:शेषहोमान् समस्येत् ॥ सर्वथापर्वसायंहोम:प्रतिपत्प्रातर्होमश्चपृथगेवहोतव्यौ ॥
अत्रपूर्ववदग्निंरक्षेत् ॥ आपन्निवृत्तौतुतदारभ्यसायंप्रातर्होमान्यथाकालंकुर्यात् ॥
इतिगुर्वापदिपक्षहोमविचार: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP