संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथविवाहचतुर्थदिनकृत्यम् अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथविवाहचतुर्थदिनकृत्यम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथविवाहचतुर्थदिनकृत्यम् Translation - भाषांतर श्री: ॥ ततोवरस्त्रिरात्रव्रताचरणांतेविवाहकालेवध्वापरिहितंवस्त्रं परिणीतायाअस्यावधवा: सोमाध्युपभुक्तदोषनिबर्हणार्थं वधूवस्त्रदानंकरिष्यइतिसंकल्प्यसत्येनोत्तभितेतिसूक्तेनतदर्थविदेब्राह्मणायदध्यात् ॥ ततोव्रतसंपूर्त्यर्थंयथाशक्तिब्राह्मणभोजनंसंकल्प्यतदामान्नादिनावाकुर्त्यात्॥ ततोविवाहाच्चतुर्थदिनेभद्रादिरहितेऽभुक्त:कन्यादातासभार्योदेशकालौसंकीर्त्यविवाहस्यसंपूर्णफलावाप्तयेवरस्यतत्पितृमात्रादीनांतत्पक्षीयाणांचयथाविभवंवस्त्रादि:पूजनमहंकरिष्ये ॥तथाचउमामहेश्वरप्रीतिद्वाराकन्यादानफलसंपूर्णतावाप्तयेवंशाभिवृध्दयेचऐरिणीपूजनंवरमात्रेऐरिणीदानंचकरिष्ये ॥ (वसंतपूजनंकरिष्ये ॥ इतिसंकल्प्यविधिवद्गणपतिपूजनंकृत्वा रंगवल्ल्यादियुतभूमौमध्येपंचर्म्गनिर्मितंस्वस्तिकंचतुर्विदिक्षुचत्वारिस्वस्तिकानिचविलिख्यतेषुतंडुलराशीन्कृत्वातदुपरिमध्येईशानादिक्रमेणचतुर्दिक्षुचाक्षतयुतपंचकलशान्निधायकौसुंभसूत्रेणकलशान्ग्रंथयित्वामुखेष्वाम्रपल्लवान्निधायतदुपरिघृतपाचितपोलिका:संस्थाप्यतदुपरिपिष्टदीपपंचकंद्वयंवाप्रतिकलशंनिधायतत्रवसंतंपूजयेत् ॥ ॐ तांसुतेकीर्तिमघवन्महित्वायत्त्वाभीतेरोदसीअह्वयेताम् ॥ प्रावोदेवाँआतिरोदासमोज:प्रजायैत्वस्यैयदशिक्षइंद्र ॥ यदचरस्तन्वावावृधानोबलानींद्रप्रब्रुवाणोजनेषु ॥ मायेत्सातेयानियुध्दान्याहुर्नाध्यशत्रुंननुपुराविवित्से ॥ कउनुतेमहिमन:समस्यास्मत्पूर्वऋषयोतमाषु: ॥ यन्मातरंचपितरंचसाकमजनयथास्तन्व१:स्वाया: ॥ चत्वारितेअसुर्याणिनामादाभ्यानिमहिषस्यसंति ॥ त्वमंगतानिविश्वानिवित्सेयेभि:कर्माणिमघवन् चकर्थ ॥ त्वंविश्वादधिषेकेवलानियान्याविर्याचगुहावसूनि ॥ काममिन्मेमघवन्मावितारीस्त्वमाज्ञातात्वमिंद्रासिदाता ॥ योअदधाज्ज्योतिषिज्योतिरंतर्योअसृजन्मधुनासंमधूनि ॥ अधप्रियंशूषमिंद्रायमन्मब्रह्मकृतोबृहदुक्थादवाचि ॥ इतिसूक्तेनवसंतंसंपूज्य ॥ इंद्रादिदेवतानांचप्रीतिदोनंदवर्धन: ॥ कालरुपीसविश्वात्मावसंत:कामदोस्तुमे ॥ प्रसूनदेहरुपायअनंगत्रासकारिणे ॥ कालरुपायदेवायवसंतानमोनम: ॥ इतिमंत्राभ्यांनमस्कृत्यपुष्पांजलिंदध्यात् ॥ ततोवरपिताकन्यांपूजयेत् ॥ अभिवस्त्रेतिपट्टकूलादिदत्वाआयुष्यमितिसूक्तेनसुवर्णालंकारादि या:फलिनीरितिपुष्पमालादिचदत्वा सुमंगलीरियंवधूरितिसीमंतेसिंदूरंनिक्षिप्य ॥ मांगल्यतंतुनानेनभर्तृजीवनहेतुना ॥ कंठेबध्नामिसुभगेसाजीवशर:शतं ॥ इतिकंठेमंगलसूत्रंबध्नीयात् ॥ ) तत:कन्यापिताऐरिणीपूजनंकुर्यात् ॥ सवस्त्रफलतांबूलंदंपत्योर्वंशवर्धनं ॥ ऐरिण्याख्यंवंशपात्रंपक्वन्नै:परिपूरितं ॥ करकैरुद्रसंख्याकै:सुवर्णपरिपूरितै: ॥ एतावदैरिणीरुपंकर्तव्यंकिलसूरिभि: ॥ एवंसंपाध्य ॥ ऐरिणित्वमुमादेवीमहेशोगिरिजापति: ॥ अतस्त्वांपूजयिष्यामिऐरिणींसर्वकामदां ॥ सवस्त्रांचसदीपांचशूर्पै:षोडशभिर्युतां ॥ वरमात्रेप्रदास्यामिकन्यादानस्यसिध्दये ॥ इतिसंकल्प्यतत्रउमामहेश्वरौषोडशोपचारै: पूजयित्वाइदंऐरिण्याख्यवंशपात्रंषोडशशूर्पयुतंवरमात्रतत्स्थानापन्नायैवासुवासिन्यैसंप्रददेनममेत्युक्त्वामंत्रान्पठेत् ॥ वंशोवशंकर:श्रेष्ठोवंशोवंशसमुभ्दव: ॥ अनेनवंशदानेनतुष्टोवृध्दिंकरोतुमे ॥ वंशपात्रमिदंपुण्यंवंशजातसमुभ्दवम् ॥ वंशानामुत्तमंदानमत:शातिंप्रयच्छमे ॥ वंशपात्राणिसर्वाणिमयासंपादितानिवै ॥ उमाकांतायदत्तानिममगोत्राभिवृध्दये ॥ वंशवृध्दिकरंदानंसौभाग्यादिसमन्वितं ॥ वस्त्रेणाच्छादितंपूगफलहेमसमन्वितम् ॥ सर्वपापक्षयकरंनानाद्रव्यैस्तुपूरितं ॥दानानामुत्तमंदानमत:शांतिंप्रयच्छमे ॥ इति ॥ तत:कन्यांवरपितृमात्रुत्संगयो:पृथगुपवेश्यपृथक्तौप्रार्थयेत् ॥ अष्टवर्षात्वियंकन्यापुत्रवत्पालितामया ॥ इदानींतवपुत्रायदत्तास्नेहेनपाल्यतां ॥ इति ॥ तत:स्वस्तिनोमिमीतामितिसूक्तेनकंचुकीसहितंऐरिणीपात्रंवरपक्षीयाणांशिरसिदिवेदिवेसदृशीरितिसूक्तेननिधाय शिरसउत्तार्यभूमौनिधायपुन:शिरसिभूमौचेतिपंचवारंत्रिवारंवाप्रत्यकंकार्य एवंवरस्यापि ॥ (ततोदिग्गजौपूजयेत् ॥ देशकालौस्मृत्वावधूवरयो:सौभाग्यादिविवृध्दयेगजपूजांकरिष्ये ॥आतूनइंद्रेतिनवर्चस्यकाण्व:कुसीदीविनायकोगायत्री ॥ गजपूजनेविनियोग: ॥ ॐ आतूनइंद्रक्षुमंतं० ॥ ऋक् ० ९ इति गोधूमनिर्मितंप्राक् शिरसमुत्तराभिमुखंमत्तमातंगसंज्ञकंगजंयथाविभवंवस्त्रादिभि:संपूज्य ॥ नागानामिमहनागेशमत्तमातंगसंज्ञक ॥ वरवध्वो:सुखप्राप्त्यैप्रसन्नोभवसर्वदा ॥ इतिमंत्रेणप्राप्त्यर्थ ॥लवणनिर्मितंप्राक् शिरसंउत्तराभिमुखंदक्षिणभागस्थंभद्रमातंगंतथैवसंपूज्य ॥ ऐरावतमहाभागभद्रमातंगसंज्ञक ॥ वरवध्वो:सुखप्राप्त्यैप्रसन्नोभवसर्वदा ॥ इतिप्रार्थयेत् ॥ततोवरोमत्तमातंगेप्राड्मुखस्तिष्ठेत् ॥ कन्यापिभद्रमातंगेउत्तराभिमुखीतिष्ठेत् ॥ ततोवधूंवामहस्तेधृत्वापश्चाभ्दागेनानीयमत्तमातंगेअवस्थाप्यस्वयंचप्राग्भागेनगगत्वाभद्रमातंगेस्थित्वा) सौभाग्यादिविवृध्दयेब्राह्मणसुवासिनीभ्योवायनानिदत्वाब्राह्मणेभ्योयथाशक्तिभूयसींदक्षिणांचदत्वाकर्मउमामहेश्वरार्पणंकुर्यात् ॥ इतिविवाहचतुर्थदिनकृत्यं ॥ N/A References : N/A Last Updated : July 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP