संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाग्निसमारोपविधि:

संस्कारप्रकरणम् - अथाग्निसमारोपविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कालहोमानंतरं ॥ अयंतेगाथिनोविश्वामित्रोग्निरनुष्टुप् ॥ अग्निसमारोपणेविनियो
ग: ॥ ॐ अयंतेयोनिऋत्वियोयतोजातोअरोचथा: ॥ तंजानन्नग्रआसीदाथानोवर्धयागिर: ॥ इतिमंत्रेणाश्वत्थसमिधंप्रताप्यतत्राग्निंसमारोपयेत् ॥ यद्वा ॥ ॐ यातेअग्नेयज्ञियात
नूस्तयेह्यारोहात्मात्मानं ॥ अच्छावसूनिकृण्वन्नस्मेनर्यापुरुणि ॥ यज्ञोभूत्वायज्ञमासीद
स्वांयोनिं ॥ जातवेदोभुवआजायमान:सक्षयएहि ॥ इतिमंत्रेणपाणीप्रताप्यआत्मानिसमारो
पयेत् ॥ तत्रप्रादुष्करणकालेअरणिसमारोपेअरणीनिर्मथ्य ॥ ॐ प्रत्यवरोहजातवेद:पुनस्त्वं
देवेभ्योहव्यंवहन:प्रजानन् ॥ प्रजांपुष्टिंरयिमस्मासुधेह्यथाभवयजमानायशंयो: ॥ इत्यने
नस्थंडिलेग्निंप्रतिष्ठापयेत् ॥ अश्वत्थसमित्समारोपनक्षेपुनर्होमकालेविधिवदग्निंप्रतिष्ठा
प्यप्रत्यवरोहेतिमंत्रेणतांसमिधमग्नौजुहुयात् ॥ एवमग्नि:सिध्दोभवति ॥ ततोहोम:कार्य: ॥ आत्मसमारोपपक्षेसर्वदाऽस्पृश्यस्पर्शनंजलेनिमज्यस्नानंस्त्रीगमनंचाकुर्वन्मूत्रपुरीषोत्सर्गे
शौचमकृत्वाचिरकालमतिष्ठंश्च होमकालेआत्मसमारुढमग्निमुच्छ्वासरुपेणप्रत्यवरोहेतिमं
त्रेणलौकिकाग्नौनिदध्यात् ॥ एवंयथाधिकारमग्निंप्रतिष्ठाप्य कालद्वयेएककालेवापूर्वव
ज्जुहुयात् ॥ इदंसमारोपणंद्वादशरात्रपर्यंतमेवयुक्तम् तच्चपुरुषस्यैवप्रवासकालेकर्तव्यम् ॥ प्रवाससार्थंअभयंवोभयंमेस्त्विमंत्रेणाग्निमुपस्थायद्विमासमध्यवर्तिकालेष्वन्यतमकाल
पर्यंतंप्रोष्यपुन:स्वगृहसमीपमेत्य ॐ गृहामाबिभीतोपव:स्वस्त्येवोस्मासुचप्रजायध्वंमाचवो
गोपतीरिषदितिमंत्रेणगृहंनिरीक्ष्य ॐ गृहानहंसुमनस:प्रपध्येवीरघ्नोवीरवत:सुवीरान् ॥ इरांवहंतोघृतमुक्षमाणास्तेष्वहंसुमना:संविशानि ॥ इतिमंत्रेणगृहंप्रविश्य ॐ शिवंशग्मंशं
यो:रितिपुनस्त्रिरनुवीक्ष्यहोमकालेउपस्थानांतंकृत्वा ॐ अभयंवोभयंमेस्त्वितिपुनरग्निमुप
तिष्ठेत् ॥ ततोज्येष्ठपुत्रशिरउभाभ्यांपाणिभ्यांपरिगृह्य ॥ ॐ अंगादंगात्संभवसिहृदयाद
धिजायसे ॥ आत्मावैपुत्रनामासिसजीवशरद:शतमितिमंत्रंजपित्वामूर्धनित्रिराजिघ्रेत् ॥
प्रत्याघ्राणंमंत्रावृत्ति: ॥ एवमितरेषांचपुत्राणांक्रमेणकृत्वाप्रत्तदुहिततृणांतूष्णीमेवशिरोजिघ्रेत् ॥ एतत्पुत्रेपिप्रोष्यागतेभवति ॥ अवगतमप्यप्रियंप्रवासादागतंप्रतितदहर्ननिवेदयेयु: ॥
इत्यग्निसमारोपविधि: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP