संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथैकनक्षत्रजननशांति:

संस्कारप्रकरणम् - अथैकनक्षत्रजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ जनकनक्षत्रोत्पत्तौउक्तसमयेगोमुखप्रसवंकृत्वाएकोदरनक्षत्रोत्पत्तौतमकृत्वादेशकालौ
संकीर्त्य ॥
अस्यशिशो:पित्रेकनक्षत्रोत्पत्तिसूचिसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थं शांतिमभिषेकं
पूजितनक्षत्रप्रतिमाग्रेयथाशक्तिदानंचकरिष्ये इतिसंकल्प्य ॥
गणपतिंसंपूज्यआचार्यंचतुरऋत्विजश्चवृत्त्वापुण्याहंवाचयीत ॥ मात्रेकनक्षत्रेत्याध्यूहेनान्य
त्रसंकल्प: ॥
ततआचार्योयदत्रसंस्थिततमितिसर्षपविकिरणप्रोक्षणप्रार्थनानिकृत्वा स्थंडिलादैशान्यांकल
शंमहीध्यौरित्यादिनासंस्थाप्य तत्ररक्तवस्त्राच्छादितेनक्षत्रतद्देवतान्यतरप्रतिमांकृताग्न्यु
त्तारणांतन्मंत्रेणावाहनाध्युपचारै:पूजयेत् ॥ वस्त्रार्पणेतध्युग्ममर्पयेत् ॥
पूजांतेऽग्निंव्याहृतिभि:प्रतिष्ठाप्यान्वाधानेचक्षुषीआज्येनेत्यंते अदोनक्षत्रमिमांदेवतांवा
प्रत्येकमष्टोत्तरशतसंख्याभि: समिच्चर्वाज्याहुतिभि: शेषेणेत्यादिप्रायश्चित्तहोमांतेप्रणीतावि
मोकादिकृत्वा आचार्य:कलशोदकेनययोरेकनक्षत्रजन्म तयोरभिषेकंकुर्यात् ॥
तत:पूजितप्रतिमाग्रेआचार्यायवस्त्रालंकारगा:दध्यात् ॥ ज्योतिर्निबंधोक्त्यास्वर्णरुप्यमयौह
रिहरौसंपूज्यतौवादध्यात् ॥ विविधस्यास्यविश्वस्यपितरौविश्वतोमुखौ ॥ प्रीयेतांमूतिदाने
नदेवौहरिहरावुभाविति ॥ माषत्रयसुवर्णमृत्विग्भ्योदत्त्वा उत्तरपूजाविसर्जने आचार्यहस्तेप्र
तिमाप्रतिपादनंधान्यवस्त्रादिभि:सहयानशय्यासनादीनांब्राह्मणांतरेभ्योदानंकृत्वा तै:सहाचा
र्यऋत्विजोभोजयित्वापूर्णतांवाचयित्वातेभ्य:शुभाआशिष:प्रतिगृह्यकर्मेश्वरार्पणंकुर्यात् ॥
इत्येकनक्षत्रजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP