संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| उपनयनप्रयोग: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - उपनयनप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत उपनयनप्रयोग: Translation - भाषांतर श्री: ॥ अथापरेध्यु:कृतनित्यक्रिय:कृतमंगलस्नानमलंकृतंकुमारंमात्रुत्संगेभोजयित्वा कर्तादेशकालौसंकीर्त्य अस्यकुमारस्योपनयनंकर्तुंतत्प्राच्यांगभूतंवापनादिकरिष्येइतिसंकल्प्यकृतवापनंस्त्रापितंबध्दशिखंकुमारंमंगलतिलकंकुर्यु: ॥ अत्रमौहूर्तिकंसंपूज्यतदुक्तेशुभमुहूर्तेआचार्योवेध्यांप्राड्मुखउपविष्टस्तं (मंगलाष्टकपध्यपाठपुर:सरं) स्वसमीपमानीयतन्मुखंसम्यगीक्षेत ॥ कृतनमस्कारंचतंस्वांकेकुर्वीत ॥ अथाचारत:येयज्ञेनेतिसूक्तेनबृहस्पतेप्रथममित्यनेनदस्तुगृहावैइतिमंत्रैर्बाह्मणाउभयो:शिरस्यक्षतान्क्षिपेयु: ॥ ततस्तंस्वदक्षिणतउपवेश्यस्थंडिलोपलेपनादिसमुभ्दवनामाग्निप्रतिष्ठांतंकृत्वा ॥ समिद्वयमादायक्रियमाणेउपनयनहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नावित्याध्याघारावाज्येनेत्यंतमुक्त्वात्रप्रधानं ॥ त्रिरग्निंपवमानंप्रजापतिंचाज्येन शेषेनस्विष्टकृतमित्याध्याज्यसंस्कारांतंकृत्वा कौपीनार्थंत्रिवृतंकार्पाससूत्रंकटावाबध्यकौपीनंपरिधाप्य ॥ युवंवस्त्राणीत्यस्यौचथ्यौदीर्थतमामित्रावरुणौत्रिष्टुप् ॥ वासोधारणेविनियोग: ॥ ॐ युवंवस्त्राणिपीवसावसाथेयुवोरच्छिद्रामंतवोहसर्गा: ॥ अवातिरतमनृतानिविश्वऽऋतेनमित्रावरुणासचेथे ॥ इतिमंत्रेणशुक्लंवास:परिधाप्यान्येनकाषायवाससातेनैवमंत्रेणतथैवप्रावारयेत् ॥ मित्रस्यचक्षुरित्यस्यवामदेवोऽजिनंत्रिष्टुप् ॥ अजिनधारणेविनियोग: ॥ ॐ मित्रस्यचक्षुर्धरुणंबलीयस्तेजोयशस्वीस्थविरंसमिध्दं ॥ अनाहनस्यंवसनंजरिष्णुपरीदंवाज्यजिनंदशस्व ॥ इत्यजिनंधारयित्वा ततोगायत्र्यादशकृत्वोमंत्रिताभ्दिरुपवीतंप्रोक्ष्यधारयेत् ॥ यज्ञोपवीतमितिमंत्रस्यपरब्रह्मपरमात्मात्रिष्टुप् ॥ श्रौतस्मार्तकर्मानुष्ठानसिध्यर्थंयज्ञोपवीतधारणेविनियोग: ॥ ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् ॥ आयुष्यमग्र्यंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेज: ॥ इतिमंत्रंवाचयित्वादक्षिणबाहुमुध्दार्यउपवीतंधारयित्वा कुमारमात्मनोग्नेश्चमध्येनयज्ञपात्रोत्तरभागंगमयित्वा ॥ तत्रविधिवदाचमय्य पुनस्तीर्थेनतथैवानीयस्वदक्षिणतउपवेश्यबर्हिरास्तरणाध्याघारहोमांतंकृत्वा ॥ अग्नआयूंषीतितिसृणांशतंवैखानसाऋपय: ॥अग्नि:पावमानोदेवता ॥ गायत्रीछंद: ॥ उपनयनप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्न आयूंषिवस० स्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्निऋषि:० स्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्नेपव० स्वाहा ॥ प्रजापतयइदं० अथाचार्यउत्तरतोग्ने:प्राड्मुखस्तिष्ठेत् ॥ कुमारोप्यग्न्याचार्ययोर्मध्येनगत्वाचार्याभिमुखस्तिष्ठेत् ॥ अथाचार्य:कुमारस्यशुचित्वासिध्दयेसवितृदेवतातृप्तयेचांजलिक्षारणंकरिष्ये ॥ शुध्दोदकेनशिष्यांजलिमापूर्यस्वस्यांजलिमन्येनपूरयित्वा ॥ तत्सवितुरित्यस्यशावाश्व:सवितानुष्टुप् ॥ अवक्षारेविनियोग: ॥ ॐ तत्सवितुर्वृणीमहेवयंदेवस्यभोजनं ॥ श्रेष्ठंसर्वधातमंतरंभगस्यधीमहि ॥ अनेनस्वांजल्युदकंशिष्यांजलाववक्षार्यतज्जलंकुमारांजलिनैवावक्षारयेत् ॥ तत:शिष्यत्वसिध्यर्थंबटोर्हस्तंसांगुष्ठंगृह्णीयात् ॥ तत्रमंत्र: ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांहस्तंगृह्णामिअमुकशर्मन् ॥ पुनरपिपूर्ववत्पूरयित्वावक्षार्य ॐ अग्निराचार्यस्तव अमुकशर्मन् इतितृतीये ॥ अथाचार्योब्रह्मचारिणासहनिष्क्रम्य ॐ देवसवितरेषतेब्रह्मचारीतंगोपायसमामृतेत्युक्त्वा ॥ संरक्षणार्थंव्रतपतयेआदित्यायबटुंददामीतिमनसास्मरन् ब्रह्मचारिणमादित्यमीक्षयेत् ॥ ततोन्योन्याभिमुखौतिष्ठेतां ॥ अथाचार्य: कस्यब्रह्मचार्यसिप्राणस्यब्रह्मचार्यसिकस्त्वाकमुपनयनतेकायत्वापरिददामि इतिमंत्रंजपन् कुमारंप्रजापतयेमनसासमर्प्य ॥ युवासुवाइत्यस्यकौशिकोविश्वामित्रोयूपस्त्रिष्टुप् ॥ पूर्वार्धर्चस्यप्रदक्षिणावर्तनेउत्तरार्धर्चस्यपाणिभ्यांबटुहृदयालंभनेविनियोग: ॥ ॐ युवासुवासा:परिवीतआगात्सउश्रेयान्भवतिजायमान: ॥ इतिबटुंप्रदक्षिणमावर्तनेनप्राड्मुखमवस्थाप्य तदंसयोरुपरिस्वपाणीगमयित्वा ॥ ॐ तंधीरास:कवयउन्नयंतिस्वाध्यो३मनसादेवयंत: ॥ इतिपाणिभ्यांबटुहृदयंस्पृशेत् ॥ तत:आत्मानमग्निंचांतराबटुंनीत्वाप्रत्यगग्ने:स्वयमुपविश्यस्वस्यदक्षिणत:प्राड्मुखंतमुपवेशयेत् ॥ ततोबटुरग्ने:परिसमूहनपर्युक्षणेकृत्वा ॥ अग्नयेसमिधमित्यस्यहिरण्यगर्भोऽग्निर्बृहती ॥ समिदाधानेविनियोग: ॥ ॐ अग्नयेसमिधमाहार्पंबृहतेजातवेदसे ॥ तयात्वमग्नेवर्धस्वसमिधाब्रह्मणावयंस्वाहा ॥अग्नयइदंनमम ॥ दक्षिणंपाणिंप्रक्षाल्याग्नौप्रताप्य ॥ ॐ तेजसामासमनज्मिइतिमुखमवाड्निमृज्यपाणिंप्रक्षाल्यैवंपुनर्द्वि: ॥ ततस्तिष्ठन् प्रणतिमुद्रांकृत्वा ॥ मयिमेधामितिषण्णांहिरण्यगर्भऋषि: ॥ पूर्वेषांत्रयाणामग्नींद्रसूर्यादेवता: ॥ उत्तरत्रयाणमग्निर्देवता ॥ गायत्रीछंद: ॥ अग्न्युपस्थानेविनियोग: ॥ ॐ मयिमेधामंयिप्रजांमय्यग्निस्तेजोदधातु ॥मयिमेधामंमयिप्रजांमयींद्रइंद्रियंदधातु ॥ मयिमेधांमयिप्रजांमयिसूर्योभ्राजोदधातु ॥ यत्तेअग्नेतेजस्तेनाहंतेजस्वीभूयासं ॥ यत्तेअग्नेवर्चस्तेनाहंवर्चस्वीभूयासं ॥ यत्तेअग्नेहरस्तेनाहंहरस्वीभूयासं ॥ इतिषण्मंत्रैरग्निमुपस्थाय ॥ मानस्तोकइतिकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ इत्यनेनभस्मादायथाचारं त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमितिदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसिधृत्वापुन:परिसमूहनपर्युक्षणेकृतांजलिस्तिष्ठन् ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥ यत्तेन्य़ूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ ॐ स्वस्ति ॥ श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलम् ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ इत्यग्निमुपस्थाय ॥ अग्नेरुत्तरतोगत्वाप्रत्यड्मुखोभूत्वादक्षिणंजानुभूतलेनिधायपाणिभ्यांयथासव्यदक्षिणंश्रोत्रेसंस्पृश्यव्यस्तपाणिराचार्यस्य दक्षिणपादंस्वदक्षिणहस्तेन सव्यंचसव्यहस्तेनजानुप्रभृतिपादपर्यंतंस्पृष्ट्वाऽमुकगोत्रोमुकशर्माहंभोअभिवादयेइत्यभिवादयेत् ॥ आचार्येण आयुष्मान् भवसौम्यदेवदत्ता३इतिप्रयुक्ताशीर्वाद: सावित्र्युपदेशंवांछन् अधीहिभो:सावित्रींभोअनुब्रू ३ हि इत्याचार्यमुक्त्वा स्ववामपाणिमुत्तानीकृत्यदक्षिणपाणिंन्यड्मुखीकृत्यसंधायपाणिपृष्ठमंगुलीश्चांगुष्ठौचदृढीकृत्यकृतंब्रह्मांजलिंदक्षिणांकेनिधायायाचार्यातिकमासीत ॥ अथाचार्यस्तदंजलिंतत्परिधानीयवाससाच्छाध्यस्वपाणिभ्यांतदंजलिंपरिगृह्य ॥ प्रणवस्यपरब्रह्मऋषि: ॥ परमात्मादेवता दैवीगायत्रीछंद: ॥ व्याहृतीनांपरमेष्ठीप्रजापति:र्बृहती ॥ गायत्र्याविश्वामित्र:सवितागायत्री ॥ उपनयनोपदेशेविनियोग: ॥ प्रणवव्याहृतिपूर्विकांगायत्रींपच्छोर्धर्चश:सर्वांअशक्तौयथाशक्तिवात्रिवारंस्वयमुक्त्वावाचयेत् ॥ तत: ममव्रतइत्यस्यप्रजापतिर्बृहस्पतिस्त्रिष्टुप् ॥ बटोर्हृदयेऊर्ध्वांगुलिपाणिनिधानेविनियोग: ॥ ॐ ममव्रतेहृदयंतेदधामिममचित्तमनुचित्तंतेअस्तु ॥ ममवाचमेकव्रतोजुषस्वबृहस्पतिष्ट्वानियुनक्तुमह्यं ॥ इतिस्वपाणिमूर्ध्वांगुलिंबटुहृदयेनिधाय ॥ तस्यरक्षार्थंशुध्यर्थंचमेखलामाबध्नीयात् ॥ इयंदुरुक्तादितिद्वयोर्वामदेवोमेखलास्त्रिष्टुप् ॥ मेखलाबंधनेविनियोग: ॥ॐ इयंदुरुक्तात्परिबाधमानाशर्मवरुथंपुनतीनआगात् ॥ प्राणापानाभ्यांबलमाभरंतीप्रियादेवानांसुभगामेखलेयं ॥ ऋतस्यगोप्त्नीतपस:परस्पीघ्नतीरक्ष:सहमानाअराती: ॥ सान:समंतमनुपरीहिभद्रयाभर्तारस्तेमेखलेमारिषाम ॥ इतिमंत्रंवाचयित्वामेखलांत्रिरावर्त्यनाभिप्रदेशे ग्रंथित्रयंकुर्यात् ॥ तदाबटु:सरहस्यांगसहितवेदत्रयेणावृतोहमितिमन्येत ॥ ततआचार्य: ॥स्वस्तिनइत्यस्यस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् ॥ दंडदानेविनियोग: ॥ ॐ स्वस्तिनोमिमीतामश्विनाभग:स्वस्तिदेव्यदितिरनर्वण: ॥ स्वस्तिपूषाअसुरोदधातुन:स्वस्तिध्यावापृथिवीसुचेतुना ॥ इतिमंत्रेणदंडंदध्यात् ॥ ततोबटोस्तन्द्रहणेमंत्र: ॥ अदांतंदमयित्वामांमार्गेसंस्थापयन्स्त्वयं ॥ दंड:करेस्थितोयस्मात्तस्माद्रक्षयतोभयं ॥ इतिवाचयेत् ॥ तत:कुमारस्याचारमादिशेत् ॥ ब्रह्मचर्यासि ॥ आपोशान ॥ आचमनंकुरु ॥ मूत्रपुरीषादौशुध्द्यर्थंमित्यर्थ: ॥ कर्मकुरु ॥ संध्योपासनादीत्यर्थ: ॥ दिवामास्वाप्सी: ॥ आचार्याधीनोवेदमधीष्व ॥ सायंप्रातर्भिक्षेथा: ॥ सायंप्रात:समिधमाधेहि ॥ द्वादशवर्षाणिवेदग्रहणांतंवाब्रह्मचर्यंचर ॥ अप्रत्याख्यायिनमग्रेभिक्षेथा: ॥ अप्रत्याख्यायिनींवा ॥ तत:स्विष्टकृदादिहोमशेषंसमाप्याग्निंमेधाजननांतरक्षेत् ॥ तत्रैवसायंप्रातरग्निकार्यकुर्यात् ॥ ततोनुप्रवचनीयहोमब्राह्मणभोजनपर्याप्तांतंडुलरुपांभिक्षांयाचेत् ॥ तत्रक्रम: ॥ भिक्षापात्रमादायादौमातरंभवतीभिक्षांददात्वितिभिक्षांभवतीदात्वितिवा ॥ पितरंभवान् भिक्षांददात्विति भिक्षांभवान् ददात्वितिवा ॥ एवंमातु:स्वसारंस्वभगिनीमन्यानपिबांधवानप्रत्याख्यायिनोप्रत्याख्यायिनीश्चयाचित्वाभैक्षमाचार्यायनिवेध्यमध्याह्नसंध्यांकुर्यान्नवा ॥ ब्रह्मयज्ञस्तुद्वितीयादिनमारभ्यगायत्र्याकार्य: ॥ अस्मिन्कर्मणिशतंब्राह्मणाभोज्या: ॥ इत्युपनयनप्रयोग: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP