संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अववर्धापनविधि:

संस्कारप्रकरणम् - अववर्धापनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: यजमान:आचम्यप्राणानायम्यदेशकालौस्मृत्वामम (सूनोर्वा) अब्दपूर्तिजन्मदिवसेआयु
रभिवृध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंदूर्वाहोमंकरिष्ये ॥ इतिसंकल्प्यविधिवदग्निं (बलवर्धन
नामकं) प्रतिष्ठाप्यपुनर्देशकालौसंकीर्त्यसमिधावादायाऽस्मिन् दूर्वाहोमेदेवतापरिग्रहार्थमि
त्यादिचक्षुषीआज्येनेत्यंतमुक्त्वाप्रधानदेवतांमृत्यंजयमष्टोत्तरशतदूर्वाद्रव्येणशेषेणस्विष्टकृतमित्याध्याज्यभागांतंकृत्वादधिमधुघृताक्तंकेवलाज्याक्तंवादूर्वायंत्रयं ॥ त्र्यंबकंमित्यस्य
वसिष्ठोमृत्युंजयस्त्र्यंबकोनुष्टुप् ॥ दूर्वाहोमेविनि० ॥ ॐ हौंजूंस: ॐ भूर्भव:स्व: ॥ ॐ त्र्यबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥ ॐ स्व:भुव:भू: ॐ स:जूंहौं ॐ ॥ इत्यनेनमंत्रेणस्वाहांतेनाष्टोत्तरशतंहुत्वास्विष्टकृदादिहोमशे
षंसमापयेत् ॥ ततोविधिवद्ग्द्रहयज्ञंकृत्वाआयुष्यचरुहोमंसंकल्पपूर्वकंकुर्यात् ॥
तत्रायंक्रम: ॥ देशकालौसंकीर्त्याआयुरभिवृध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंचायुष्यचरुहोमंकरि
ष्ये ॥ इति संकल्प्यस्थंडिलेबलवर्धननामानमग्निंप्रतिष्ठाप्य ॥ आयुष्यचरुहोमेदेवतापरि
ग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वाविश्वान् देवान् दशवारमग्निंषोडशवारंजातवेदसम
ग्निमेकवारंचरुद्रव्येनशेषेणेत्याध्याज्यभागांतंकृत्वा ॥ आनोभद्राइतिदशर्चस्यसूक्तस्यगौत
मोविश्वेदेवाआध्या:पंचसप्तमीचजगत्य:षष्ठीविराट्‍स्थानाअष्टम्याध्यास्तिस्त्रस्त्रिष्टुभ: ॥
इमंस्तोममित्यस्यषोडशर्चस्यांगिरस:कुत्सोग्निरादितश्चतुर्दशजगत्य:अंत्येद्वेत्रिष्टुभौ: ॥
पूर्वोदेवाभवत्वित्यादित्रय:पादादेवदैवत्या: ॥ तन्नोमित्रोर्धर्चोलिंगोक्तदेवतोग्निदेवतश्च ॥
जातवेदसइत्यस्यमारीच:कश्यपोजातवेदाअग्निस्त्रिष्टुप् ॥ सर्वेषांचरुहोमेविनियोग: ॥ ॐ आनोभद्रा:क्रतवो० दिवेदिवेस्वाहा ॥ विश्वेभ्योदेवेभ्यइदंनमम ॥ एवंऋक् १० प्रत्यृचंत्याग: ॥ ॐ इमंस्तोममर्हते० वयंतवस्वाहा ॥ अग्नयइदंनमम ॥ इति १६ ऋ०
र्हुत्वा ॥ ॐ जातवेदसेसुनवाम० ग्नि:स्वाहा ॥ जातवेदसेग्नयइदंनमम ॥ एतै:सप्तविंशतिमंत्रैरवदानधर्मेणहुत्वास्विष्टकृदादिहोमशेषंसमाप्य ॥ वासुदेवं नक्षत्रदेवतां
चंद्रं स्वनक्षत्रं वरुणंचषोडशोपचारैरभ्यर्च्यतत्प्रकाशकमंत्रैर्घृतेनतेभ्योयथाशक्तिहोमंकृत्वा ग्रहयज्ञोक्तविधिनाभिषिक्तोयथाशक्तिगोभूहिरण्यादिदत्वादेवगुरुब्राह्मणसुहृब्दंधुजनपूजांस्ववाहनायुधपीठच्छत्रपूजांकृत्वाविधिवन्नांदीश्राध्दंचकृत्वाब्राह्मणान्भोजयित्वा शुभमुहूर्ते
गंधादिभिरलंकृत्यस्यस्त्रग्भूषणधारणपूर्वकंसुवर्णमयकटिसूत्रंनूतनवस्त्रंचधृत्वा पतिपुत्रवती
भि:कार्यम् ॥ पश्चात्तुप्रतिवर्षंस्वयमेवेति ॥ इत्यब्दपूर्तिविधि: ॥ अन्यत्रतु ॥ वर्षपर्यंतंप्रतिमासंतत:प्रतिवर्षंमांगल्यस्नानंकृत्वाकुमुदादिदेवता:संपूज्ययथाशक्तिब्राह्मणभोजनंदक्षिणांचदत्वा सुवासिनीभिनीराजितोधृ

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP